mahAgaNapati aShTottarashatanAmam

॥ श्री महागणपति अष्टोत्तरशतनाम स्तोत्रम् (नामावलिश्च) ॥

 

ॐ विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः।

स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

 

अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः ।

सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

 

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः ।

शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः ॥ 3 ॥

 

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।

एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥ 4 ॥

 

लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।

कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

 

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।

अकल्मषः स्वयंसिद्धः सिद्धार्चितपदाम्बुजः ॥ 6 ॥

 

बीजपूरफलासक्तो वरदः शाश्वतः कृतिः ।

विद्वत्प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

 

श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः ।

कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥

 

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।

आश्रितः श्रीकरः सौम्यो भक्तवाञ्छितदायकः ॥ 9 ॥

 

शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः ।

ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः ॥ 10 ॥

 

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।

रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥ 11 ॥

 

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियो परः ।

स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ॥ 12 ॥

 

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।

शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ 13 ॥

 

स्वलावण्यसुधासारजितमन्मथविग्रहः ।

समस्तजगदाधारो मायी मूषिकवाहनः ॥ 14 ॥

 

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥ 15 ॥

 

नामावलिः

 

ॐ विनायकाय नमः ।

ॐ विघ्नराजाय नमः ।

ॐ गौरीपुत्राय नमः ।

ॐ गणेश्वराय नमः ।

ॐ स्कन्दाग्रजाय नमः ।

ॐ अव्ययाय नमः ।

ॐ पूताय नमः ।

ॐ दक्षाय नमः ।

ॐ अध्यक्षाय नमः ।

ॐ द्विजप्रियाय नमः । (10)

ॐ अग्निगर्भच्छिदे नमः ।

ॐ इन्द्रश्रीप्रदाय नमः ।

ॐ वाणीप्रदाय नमः ।

ॐ अव्ययाय नमः ।

ॐ सर्वसिद्धिप्रदाय नमः ।

ॐ शर्वतनयाय नमः ।

ॐ शर्वरीप्रियाय नमः ।

ॐ सर्वात्मकाय नमः ।

ॐ सृष्टिकर्त्रे नमः ।

ॐ देवाय नमः । (20)

ॐ अनेकार्चिताय नमः ।

ॐ शिवाय नमः ।

ॐ शुद्धाय नमः ।

ॐ बुद्धिप्रियाय नमः ।

ॐ शान्ताय नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ गजाननाय नमः ।

ॐ द्वैमात्रेयाय नमः ।

ॐ मुनिस्तुत्याय नमः ।

ॐ भक्तविघ्नविनाशनाय नमः । (30)

ॐ एकदन्ताय नमः ।

ॐ चतुर्बाहवे नमः ।

ॐ चतुराय नमः ।

ॐ शक्तिसंयुताय नमः ।

ॐ लम्बोदराय नमः ।

ॐ शूर्पकर्णाय नमः ।

ॐ हरये नमः ।

ॐ ब्रह्मविदुत्तमाय नमः ।

ॐ कालाय नमः ।

ॐ ग्रहपतये नमः । (40)

ॐ कामिने नमः ।

ॐ सोमसूर्याग्निलोचनाय नमः ।

ॐ पाशाङ्कुशधराय नमः ।

ॐ चण्डाय नमः ।

ॐ गुणातीताय नमः ।

ॐ निरञ्जनाय नमः ।

ॐ अकल्मषाय नमः ।

ॐ स्वयंसिद्धाय नमः ।

ॐ सिद्धार्चितपदाम्बुजाय नमः ।

ॐ बीजपूरफलासक्ताय नमः । (50)

ॐ वरदाय नमः ।

ॐ शाश्वताय नमः ।

ॐ कृतिने नमः ।

ॐ द्विजप्रियाय नमः ।

ॐ वीतभयाय नमः ।

ॐ गदिने नमः ।

ॐ चक्रिणे नमः ।

ॐ इक्षु-चाप-धृते नमः ।

ॐ श्रीदाय नमः ।

ॐ अजाय नमः । (60)

ॐ उत्पलकराय नमः ।

ॐ श्रीपतये नमः ।

ॐ स्तुतिहर्षिताय नमः ।

ॐ कुलाद्रिभेत्त्रे नमः ।

ॐ जटिलाय नमः ।

ॐ कलिकल्मषनाशनाय नमः ।

ॐ चन्द्रचूडामणये नमः ।

ॐ कान्ताय नमः ।

ॐ पापहारिणे नमः ।

ॐ समाहिताय नमः । (70)

ॐ आश्रिताय नमः ।

ॐ श्रीकराय नमः ।

ॐ सौम्याय नमः ।

ॐ भक्तवाञ्छितदायकाय नमः ।

ॐ शान्ताय नमः ।

ॐ कैवल्यसुखदाय नमः ।

ॐ सच्चिदानन्दविग्रहाय नमः ।

ॐ ज्ञानिने नमः ।

ॐ दयायुताय नमः ।

ॐ दान्ताय नमः । (80)

ॐ ब्रह्मद्वेषविवर्जिताय नमः ।

ॐ प्रमत्त-दैत्य-भयदाय नमः ।

ॐ श्रीकण्ठाय नमः ।

ॐ विबुधेश्वराय नमः ।

ॐ रमार्चिताय नमः ।

ॐ विधये नमः ।

ॐ नागराजयज्ञोपवीतकाय नमः ।

ॐ स्थूलकण्ठाय नमः ।

ॐ स्वयङ्कर्त्रे नमः ।

ॐ सामघोषप्रियाय नमः । (90)

ॐ पराय नमः ।

ॐ स्थूलतुण्डाय नमः ।

ॐ अग्रण्ये नमः ।

ॐ धीराय नमः ।

ॐ वागीशाय नमः ।

ॐ सिद्धिदायकाय नमः ।

ॐ दूर्वाबिल्वप्रियाय नमः ।

ॐ अव्यक्तमूर्तये नमः ।

ॐ अद्भुतमूर्तिमते नमः ।

ॐ शैलेन्द्र-तनुजोत्सङ्ग-खेलनोत्सुक-मानसाय नमः । (100)

ॐ स्वलावण्य-सुधासार-जितमन्मथ-विग्रहाय नमः ।

ॐ समस्तजगदाधाराय नमः ।

ॐ मायिने नमः ।

ॐ मूषिकवाहनाय नमः ।

ॐ हृष्टाय नमः ।

ॐ तुष्टाय नमः ।

ॐ प्रसन्नात्मने नमः ।

ॐ सर्वसिद्धिप्रदायकाय नमः । (108)

Leave a Reply

Your email address will not be published. Required fields are marked *