॥ श्री सूर्य ग्रह महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री सूर्यग्रह महामन्त्रस्य हिरण्यस्तूप ऋषिः (शिरसि)।
त्रिष्टुप् छन्दः (मुखे)। श्री सविता देवता (हृदये)।
सूर्य ग्रह प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
करन्यासः
सूर्याय अङ्गुष्ठाभ्यां नमः ।
तेजोमूर्तये तर्जनीभ्यां नमः ।
वरदाय मध्यमाभ्यां नमः ।
हंसाय अनामिकाभ्यां नमः ।
शान्ताय कनिष्ठिकाभ्यां नमः ।
कर्मसाक्षिणे करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
सूर्याय हृदयाय नमः ।
तेजोमूर्तये शिरसे स्वाहा ।
वरदाय शिखायै वषट् ।
हंसाय कवचाय हुं ।
शान्ताय नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम्
द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
वेद मन्त्रः
ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑च । हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑ना वि॒पश्यन्॑ ॥ अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुम्᳚ ॥ येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् । निष्क्री॑तो॒ऽयं य॒ज्ञियं॑ भा॒गमे॑षु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥
तान्त्रिक मन्त्रः
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ।
ॐ ह्रां ह्रीं ह्रौं सः सूर्याय नमः ।
सूर्य गायत्रि मन्त्रः
ॐ भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् ।
ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नो सूर्य प्रचोदयात् ।
अङ्गन्यासः
सूर्याय हृदयाय नमः ।
तेजोमूर्तये शिरसे स्वाहा ।
वरदाय शिखायै वषट् ।
हंसाय कवचाय हुं ।
शान्ताय नेत्रत्रयाय वौषट् ।
कर्मसाक्षिणे अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानम्
द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री सूर्य ग्रह आवरण पूजा क्रमः ॥
Click to show/hide
पीठपूजा
ॐ प्रभूताय नमः ।
ॐ विमलाय नमः ।
ॐ साराय नमः ।
ॐ समाराध्याय नमः ।
ॐ परमसुखाय नमः ।
ॐ अं अनन्ताय नमः ।
ॐ पृं पृथिव्यै नमः ।
ॐ अं अमृतसागराय नमः ।
ॐ रं रत्नद्वीपाय नमः ।
ॐ हें हेमगिरये नमः ।
ॐ नं नन्दनोद्यानाय नमः ।
ॐ कं कल्पवृक्षेभ्यो नमः ।
ॐ मं मणिभूषितभूतलाय नमः ।
ॐ सं सूर्यमण्डलाय नमः ।
ॐ वं वह्निमण्डलाय नमः ।
ॐ सं सोममण्डलाय नमः ।
ॐ रां दीप्तायै नमः ।
ॐ रीं सूक्ष्मायै नमः ।
ॐ रूं जयायै नमः ।
ॐ रें भद्रायै नमः ।
ॐ रैं विभूत्यै नमः ।
ॐ रों विमलायै नमः ।
ॐ रौं अमोघायै नमः ।
ॐ रं विद्युतायै नमः ।
ॐ रः सर्वतोमुख्यै नमः ।
ॐ ब्रह्मविष्णुशिवात्मकाय सौराय योगपीठात्मने नमः ।
श्री सूर्य ग्रह ध्यानम्
द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥
श्री सूर्य ग्रह आवाहनम्
भगवान् सूर्यग्रहं रक्तवर्णं रक्तगन्धं रक्तपुष्पं रक्तमाल्याम्बरधरं रक्त-छत्र-ध्वज-पताकोपशोभितम् दिव्यरथ-समारूढं मेरुं प्रदक्षिणीकुर्वाणं प्राङ्मुखं पद्मासनस्थं द्विभुजं सप्ताश्व सप्तरज्जुं कलिङ्ग-देशाधिपं काश्यप-गोत्रं प्रभव-संवत्सरं माघशुक्ल-सप्तम्यां कृत्तिका नक्षत्रे जातं सिंह-राश्याधिपं भानुवार-प्रयुक्तं किरीटिनं सुखासीनं पत्नी-पुत्र-परिवारसमेतं ग्रहमण्डलप्रविष्टम् अस्मिन् अधिकरणमध्ये वर्तुलाकारमण्डले भूर्भुवस्वः सूर्यग्रहमावाहयामि ।
सूर्यग्रहस्य दक्षिणदिग्भागे सूर्यग्रहस्य अधिदेवता श्री अग्निं आवाहयामि ।
सूर्यग्रहस्य उत्तरदिग्भागे सूर्यग्रहस्य प्रत्यधिदेवता श्री रुद्रं आवाहयामि ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । अधिदेवताप्रत्यधिदेवता सहिताय सूर्यग्रहं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं सन्निरुद्ध भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रहं अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । सूर्यग्रह श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ जय जय जगन्नाथ यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । आसनं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । वस्त्राणि कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । आभरणानि कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । धूपं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । दीपं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । नैवेद्यं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रहाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ सन्विन्मये परे देवा परामृत रुचि प्रिय ।
अनुज्ञां सूर्यग्रहं देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
सत्यतेजः हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ब्रह्मतेजः शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
विष्णुतेजः शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
रुद्रतेजः कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
अग्नितेजः नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
सर्वतेजः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम्
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम्
सत्यतेजः हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ब्रह्मतेजः शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
विष्णुतेजः शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
रुद्रतेजः कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
अग्नितेजः नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
सर्वतेजः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
द्वितीयावरणम्
ॐ श्रियै नमः । श्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ लक्ष्म्यै नमः। लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ धृत्यै नमः । धृती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शान्त्यै नमः । शान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षान्त्यै नमः । क्षान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हंसाय नमः । हंस श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ मेधायै नमः । मेधा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ विश्वायै नमः । विश्वा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥(योनि मुद्रया प्रणमेत् ।)
तृतीयावरणम्
ॐ खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ धनुषे नमः । धनुः श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शराय नमः । शरः श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ भृषण्डाय नमः । भृषण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ परिकाय नमः । परिक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
तुरीयावरणम्
ॐ कान्त्यै नमः । कान्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ श्रियै नमः । श्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हृष्टाय नमः । हृष्ट श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सन्नत्ताय नमः । सन्नत्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ उत्कृष्टाय नमः । उत्कृष्ट श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऋद्ध्यै नमः । ऋद्धी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
पञ्चमावरणम्
ॐ इन्दुभोगाय नमः । इन्दुभोग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सौम्याय नमः । सौम्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पद्मिन्यै नमः । पद्मिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हरिण्यै नमः । हरिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शङ्खाय नमः । शङ्ख श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हराय नमः । हर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
षष्ठावरणम्
ॐ हयाय नमः । हय श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ देवाय नमः । देव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हराय नमः । हर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पञ्चवत्राय नमः । पञ्चवक्त्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ महारुद्राय नमः । महारुद्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पर्वताय नमः । पर्वत श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
सप्तमावरणम्
ॐ आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ॠं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ॡं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऐं माहेन्द्र्यै नमः । माहेन्द्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ औं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ अः महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
अष्टमावरणम्
ॐ लं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ टं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षं निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ कुं कुबेराय नमः । कुबेर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥
अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
नवमावरणम्
ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा । श्री सूर्यग्रह श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री सूर्य ग्रह प्रीयताम् ॥ (योनि मुद्रया प्रणमेत् ।)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री सूर्य ग्रह अष्टोत्तरशतनाम स्तोत्रम् ॥
Click to show/hide
ओं अरुणाय शरण्याय करुणारससिन्धवे ।
असमानबलायाऽर्तरक्षकाय नमो नमः ॥ 1 ॥
आदित्यायाऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ 2 ॥
इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ 3 ॥
ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ 4 ॥
उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ 5 ॥
ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ 6 ॥
ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ 7 ॥
ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ 8 ॥
लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय नमो नमः ॥ 9 ॥
लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ 10 ॥
एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ 11 ॥
ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ 12 ॥
ओजस्कराय जयिने जगदानन्दहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ 13 ॥
औन्नत्यपदसञ्चाररथस्थायात्मरूपिणे ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ 14 ॥
अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।
अच्युताय सुरेशाय परस्मैज्योतिषे नमः ॥ 15 ॥
अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ 16 ॥
ओं नमो भास्करायाऽदिमध्यान्तरहिताय च ।
सौख्यप्रदाय सकलजगताम्पतये नमः ॥ 17 ॥
नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ 18 ॥
ओं श्रीं हिरण्यगर्भाय ओं ह्रीं सम्पत्कराय च ।
ओं ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ 19 ॥
श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ 20 ॥
॥ इति श्री सूर्य ग्रह अष्टोत्तरशतनाम स्तोत्रं संपूर्णम् ॥
॥ श्री सूर्य ग्रह अष्टोत्तरशत नामावलिः ॥
Click to show/hide
ध्यानम्
द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ॐ अरुणाय नमः ।
ॐ शरण्याय नमः ।
ॐ करुणारससिन्धवे नमः ।
ॐ अस्मानबलाय नमः ।
ॐ आर्तरक्षकाय नमः ।
ॐ आदित्याय नमः ।
ॐ आदिभूताय नमः ।
ॐ अखिलागमवेदिने नमः ।
ॐ अच्युताय नमः ।
ॐ अखिलज्ञाय नमः । (10)
ॐ अनन्ताय नमः ।
ॐ इनाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ इज्याय नमः ।
ॐ इन्द्राय नमः ।
ॐ भानवे नमः ।
ॐ इन्दिरामन्दिराप्ताय नमः ।
ॐ वन्दनीयाय नमः ।
ॐ ईशाय नमः ।
ॐ सुप्रसन्नाय नमः । (20)
ॐ सुशीलाय नमः ।
ॐ सुवर्चसे नमः ।
ॐ वसुप्रदाय नमः ।
ॐ वसवे नमः ।
ॐ वासुदेवाय नमः ।
ॐ उज्ज्वलाय नमः ।
ॐ उग्ररूपाय नमः ।
ॐ उर्ध्वगाय नमः ।
ॐ विवस्वते नमः ।
ॐ उद्यत्किरणजालाय नमः । (30)
ॐ हृषीकेशाय नमः ।
ॐ ऊर्जस्वलाय नमः ।
ॐ वीराय नमः ।
ॐ निर्जराय नमः ।
ॐ जयाय नमः ।
ॐ ऊरुद्वयाभावरूपयुक्तसारथये नमः ।
ॐ ऋषिवन्द्याय नमः ।
ॐ रुग्धन्त्रे नमः ।
ॐ ऋक्श्चक्रचराय नमः ।
ॐ ऋजुस्वभावचित्ताय नमः । (40)
ॐ नित्यस्तुत्याय नमः ।
ॐ ऋकार मातृकावर्ण रूपाय नमः ।
ॐ उज्ज्वलतेजसे नमः ।
ॐ ऋक्षाधिनाथ मित्राय नमः ।
ॐ पुष्कराक्षाय नमः ।
ॐ लुप्तदन्थाय नमः ।
ॐ शान्ताय नमः ।
ॐ कान्तिदाय नमः ।
ॐ घनाय नमः ।
ॐ कनत्कनकभूषणाय नमः । (50)
ॐ खद्योताय नमः ।
ॐ लूनिताखिलदैत्याय नमः ।
ॐ सत्यानन्दस्वरूपिने नमः ।
ॐ अपवर्गप्रदाय नमः ।
ॐ आर्तशरण्याय नमः ।
ॐ एकाकिने नमः ।
ॐ भगवते नमः ।
ॐ सृष्टिस्थित्यन्तकारिणे नमः ।
ॐ गुणात्मने नमः ।
ॐ घृणिभृते नमः । (60)
ॐ बृहते नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ऐश्वर्यदाय नमः ।
ॐ शर्वाय नमः ।
ॐ हरिदश्वाय नमः ।
ॐ शौरये नमः ।
ॐ दशदिक् संप्रकाशकाय नमः ।
ॐ भक्तवश्याय नमः ।
ॐ ओजस्कराय नमः ।
ॐ जयिने नमः । (70)
ॐ जगदानन्द हेतवे नमः ।
ॐ जन्ममृत्युजराव्याधि वर्जिताय नमः ।
ॐ उच्चस्थान समारूढरथस्थाय नमः ।
ॐ असुरारये नमः ।
ॐ कमनीयकराय नमः ।
ॐ अब्जवल्लभाय नमः ।
ॐ अन्तर्बहिःप्रकाशकाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ आत्मरूपिणे नमः ।
ॐ अच्युताय नमः । (80)
ॐ अमरेशाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ अहस्कराय नमः ।
ॐ रवये नमः ।
ॐ हरये नमः ।
ॐ परमात्मने नमः ।
ॐ तरुणाय नमः ।
ॐ वरेण्याय नमः ।
ॐ ग्रहाणाम्पतये नमः ।
ॐ भास्कराय नमः । (90)
ॐ आदिमध्यान्तरहिताय नमः ।
ॐ सौख्यप्रदाय नमः ।
ॐ सकलजगताम्पतये नमः ।
ॐ सूर्याय नमः ।
ॐ कवये नमः ।
ॐ नारायणाय नमः ।
ॐ परेशाय नमः ।
ॐ तेजोरूपाय नमः ।
ॐ श्रीं हिरण्यगर्भाय नमः ।
ॐ ह्रीं सम्पत्कराय नमः । (100)
ॐ ऐं इष्टार्थदाय नमः ।
ॐ अनुप्रसन्नाय नमः ।
ॐ श्रीमते नमः ।
ॐ श्रेयसे नमः ।
ॐ भक्तकोटिसौख्यप्रदायिने नमः ।
ॐ निखिलागमवेद्याय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ श्रीसूर्याय नमः । (108)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री सूर्य सहस्रनाम स्तोत्रम् – रुद्रयामले ॥
Click to show/hide
श्रीभैरव उवाच –
देवदेवि महादेवि सर्वाभयवरप्रदे ।
त्वं मे प्राणप्रिया प्रीता वरदोऽहं तव स्थितः ॥ 1 ॥
किञ्चित् प्रार्थय मे प्रेम्णा वक्ष्ये तत्ते ददाम्यम् ।
श्रीदेव्युवाच –
भगवन् देवदेवेश महारुद्र महेश्वर ॥ 2 ॥
यदि देयो वरो मह्यं वरयोग्यास्म्यहं यदि ।
देवदेवस्य सवितुर्वद नामसहस्रकम् ॥ 3 ॥
श्रीभैरव उवाच –
एतद्गुह्यतमं देवि सर्वस्वं मम पार्वति ।
रहस्यं सर्वदेवानां दुर्लभं कामनावहम् ॥ 4 ॥
यो देवो भगवान् सूर्यो वेदकर्ता प्रजापतिः ।
कर्मसाक्षी जगच्चक्षुः स्तोतुं तं केन शक्यते ॥ 5 ॥
यस्यादिर्मध्यमंतं च सुरैरपि न गम्यते ।
तस्यादिदेवदेवस्य सवितुर्जगदीशितुः ॥ 6 ॥
मन्त्रनामसहस्रं ते वक्ष्ये साम्राज्यसिद्धिदम् ।
सर्वपापापहं देवि तंत्रवेदागमोद्धृतम् ॥ 7 ॥
मांगल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ।
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ॥ 8 ॥
धनदं पुण्यदं पुण्यं श्रेयस्करं यशस्करम् ।
वक्ष्यामि परमं तत्त्वं मूलविद्यात्मकं पम् ॥ 9 ॥
ब्रह्मणो यत् परं ब्रह्म पराणामपि यत् पम् ।
मंत्राणामपि यत् तत्त्वं महसामपि यन्महः ॥ 10 ॥
शान्तानामपि यः शान्तो मनूनामपि यो मनुः ।
योगिनामपि यो योगी वेदानां प्रणवश्च यः ॥ 11 ॥
ग्रहाणामपि यो भास्वान् देवानामपि वासवः ।
ताराणामपि यो राजा वायूनां च प्रभंजनः ॥ 12 ॥
इंद्रियाणामपि मनो देवीनामपि यः परा ।
नगानामपि यो मेरुः पन्नगानां च वासुकिः ॥ 13 ॥
तेजसामपि यो वह्निः कारणानां च यः शिवः ।
सविता यस्तु गायत्र्याः परमात्मेति कीर्त्यते ॥ 14 ॥
वक्ष्ये परमहंसस्य तस्य नामसहस्रकम् ।
सर्वदारिद्र्यशमनं सर्वदुःखविनाशनम् ॥ 15 ॥
सर्वपापप्रशमनं सर्वतीर्थफलप्रदम् ।
ज्वररोगापमृत्युघ्नं सदा सर्वाभयप्रदम् ॥ 16 ॥
तत्त्वं परमतत्त्वं च सर्वसारोत्तमोत्तम् ।
राजप्रसादविजय-लक्ष्मीविभवकारणम् ॥ 17 ॥
आयुष्करं पुष्टिकरं सर्वयज्ञफलप्रदम् ।
मोहनस्तंभनाकृष्टि-वशीकरणकारणम् ॥ 18 ॥
अदातव्यमभक्ताय सर्वकामप्रपूरकम् ।
शृणुष्वावहिता भूत्वा सूर्यनामसहस्रकम् ॥ 19 ॥
अस्य श्रीसूर्यनामसहस्रस्तोत्रस्य श्रीब्रह्मा ऋषिः (शिरसि)।
गायत्री छन्दः (मुखे)। श्री सविता देवता (हृदये)।
ह्रां बीजं (गुह्ये)। सः शक्तिः (पादयोः)। ह्रीं कीलकं (पादयोः)।
श्री सूर्य ग्रह प्रसादात् धर्मार्थकाममोक्षार्थे सहस्रनाम जपे विनियोगः ॥
ध्यानं
कल्पांतानलकोटिभास्वरमुखं सिंदूरधूलीजपा-
वर्णं रत्नकिरीटिनं द्विनयनं श्वेताब्जमध्यासनं ।
नानाभूषणभूषितं स्मितमुखं रक्तांबरं चिन्मयं
सूर्यं स्वर्णसरोजरत्नकलशौ दोर्भ्यां दधानं भजे ॥
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशं ।
सप्ताश्वगं सद्ध्वजहस्तमाद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥
ॐ ह्रां ह्रीं सः हं सः सोऽहं सविता भास्करो भगः ।
भगवान् सर्वलोकेशो भूतेशो भूतभावनः ॥ 3 ॥
भूतात्मा सृष्टिकृत् स्रष्टा कर्ता हर्ता जगत्पतिः ।
आदित्यो वरदो वीरो वीरलो विश्वदीपनः ॥ 4 ॥
विश्वकृद् विश्वहृद् भक्तो भोक्ता भीमोऽभयापहः ।
विश्वात्मा पुरुषः साक्षी परं ब्रह्म परात् परः ॥ 5 ॥
प्रतापवान् विश्वयोनिर्विश्वेशो विश्वतोमुखः ।
कामी योगी महाबुद्धिर्मनस्वी मनुरव्ययः ॥ 6 ॥
प्रजापतिर्विश्ववंद्यो वंदितो भुवनेश्वरः ।
भूतभव्यभविष्यात्मा तत्त्वात्मा ज्ञानवान् गुणी ॥ 7 ॥
सात्त्विको राजसस्तामस्तमवी करुणानिधिः ।
सहस्रकिरणो भास्वान् भार्गवो भृगुरीश्वरः ॥ 8 ॥
निर्गुणो निर्ममो नित्यो नित्यानंदो निराश्रयः ।
तपस्वी कालकृत् कालः कमनीयतनुः कृशः ॥ 9 ॥
दुर्दर्शः सुदशो दाशो दीनबंधुर्दयाकरः ।
द्विभुजोऽष्टभुजो धीरो दशबाहुर्दशातिगः ॥ 10 ॥
दशांशफलदो विष्णुर्जिगीषुर्जयवांजयी ।
जटिलो निर्भयो भानुः पद्महस्तः कुशीरकः ॥ 11 ॥
समाहितगतिर्धाता विधाता कृतमंगलः ।
मार्तंडो लोकधृत् त्राता रुद्रो भद्रप्रदः प्रभुः ॥ 12 ॥
अरातिशमनः शांतः शंकरः कमलासनः ।
अविचिन्त्यवपुः श्रेष्ठो महाचीनक्रमेश्वरः ॥ 13 ॥
महार्तिदमनो दांतो महामोहहरो हरिः ।
नियतात्मा च कालेशो दिनेशो भक्तवत्सलः ॥ 14 ॥
कल्याणकारी कमठकर्कशः कामवल्लभः ।
व्योमचारी महान् सत्यः शंभुरंभोजवल्लभः ॥ 15 ॥
सामगः पञ्चमो द्रव्यो ध्रुवो दीनजनप्रियः ।
त्रिजटो रक्तवाहश्च रक्तवस्त्रो रतिप्रियः ॥ 16 ॥
कालयोगी महानादो निश्चलो दृश्यरूपधृक् ।
गंभीरघोषो निर्घोषो घटहस्तो महोमयः ॥ 17 ॥
रक्ताम्बरधरो रक्तो रक्तमाल्यानुलेपनः ।
सहस्रहस्तो विजयो हरिगामी हरीश्वरः ॥ 18 ॥
मुण्डः कुण्डी भुङ्गेशो रथी सुरथपूजितः ।
न्यग्रोधवासी न्यग्रोधो वृक्षकर्णः कुलंधरः ॥ 19 ॥
शिखी चंडी जटी ज्वाली ज्वालातेजोमयो विभुः ।
हैमो हेमकरो हारी हरिद्रलासनस्थितः ॥ 20 ॥
हरिद्श्वो जगद्वासी जगतां पतिरिंगिलः ।
विरोचनो विलासी च विरूपाक्षो विकर्तनः ॥ 21 ॥
विनायको विभासश्च भासो भासां पतिः प्रभुः ।
मतिमान् रतिमान् स्वक्षो विशालाक्षो विशांपतिः ॥ 22 ॥
बालरूपो गिरिचरो गीर्पतिर्गोमतीपतिः ।
गङ्गाधरो गणाध्यक्षो गणसेव्यो गणेश्वरः ॥ 23 ॥
गिरीशनयनावासी सर्ववासी सतीप्रियः ।
सत्यात्मकः सत्यधरः सत्यसंधः सहस्रगुः ॥ 24 ॥
अपारमहिमा मुक्तो मुक्तिदो मोक्षकामदः ।
मूर्तिमान् दुर्धरोऽमूर्तिस्तुटिरूपो लवात्मकः ॥ 25 ॥
प्राणेशो व्यानदोऽपानसमानोदानरूपवान् ।
चषको घटिकारूपो मुहूर्तो दिनरूपवान् ॥ 26 ॥
पक्षो मास ऋतुर्वर्षा दिनकालेश्वरेश्वरः ।
अयनं युगरूपश्च कृतं त्रेतायुगस्त्रिपात् ॥ 27 ॥
द्वापरश्च कलिः कालः कालात्मा कलिनाशनः ।
मन्वंतरात्मको देवः शक्रस्त्रिभुवनेश्वरः ॥ 28 ॥
वासवोऽग्निर्यमो रक्षो वरुणो यादसां पतिः ।
वायुर्वैश्रवणं शैव्यो गिरिजो जलजासनः ॥ 29 ॥
अनन्तोऽनन्तमहिमा परमेष्ठी गतज्वरः ।
कल्पांतकलनः क्रूरः कालाग्निः कालसूदनः ॥ 30 ॥
महाप्रलयकृत् कृत्यः कुत्याशीर्युगवर्तनः ।
कालावर्तो युगधरो युगादिः शहकेश्वरः ॥ 31 ॥
आकाशनिधिरूपश्च सर्वकालप्रवर्तकः ।
अचिंत्यः सुबलो बालो बलाकावल्लभो वरः ॥ 32॥
वरदो वीर्यदो वाग्मी वाक्पतिर्वाग्विलासदः ।
सांख्येश्वरो वेदगम्यो मंत्रेशस्तंत्रनायकः ॥ 33 ॥
कुलाचारपरो नुत्यो नुतितुष्टो नुतिप्रियः ।
अलसस्तुलसीसेव्यस्तुष्टा रोगनिवर्हणः ॥ 34 ॥
प्रस्कंदनो विभागश्च नीरागो दशदिक्पतिः ।
वैराग्यदो विमानस्थो रत्नकुंभधरायुधः ॥ 35 ॥
महापादो महाहस्तो महाकायो महाशयः ।
ऋग्यजुःसामरूपश्च त्वष्टाथर्वणशाखिलः ॥ 36 ॥
सहस्रशाखी सद्वृक्षो महाकल्पप्रियः पुमान् ।
कल्पवृक्षश्च मन्दारो मन्दाराचलशोभनः ॥ 37 ॥
मेरुर्हिमालयो माली मलयो मलयद्रुमः ।
संतानकुसुमच्छन्नः संतानफलदो विराट् ॥ 38 ॥
क्षीरांभोधिर्घृतांभोधिर्जलधिः क्लेशनाशनः ।
रत्नाकरो महामान्यो वैण्यो वेणुधरो वणिक् ॥ 39 ॥
वसंतो मारसामंतो ग्रीष्मः कल्मषनाशनः ।
वर्षाकालो वर्षपतिः शरदंभोजवल्लभः ॥ 40 ॥
हेमंतो हेमकेयूरः शिशिरः शिशुवीर्यदः ।
सुमतिः सुगतिः साधुर्विष्णुः सांबोऽम्बिकासुतः ॥ 41 ॥
सारग्रीवो महाराजः सुनंदो नंदिसेवितः ।
सुमेरुशिखरावासी सप्तपातालगोचरः ॥ 42 ॥
आकाशचारी नित्यात्मा विभुत्वविजयप्रदः ।
कुलकांतः कुलाद्रीशो विनयी विजयी वियत् ॥ 43 ॥
विश्वंभरा वियच्चारी वियद्रूपो वियद्रथः ।
सुरथः सुगतस्तुत्यो वेणुवादनतत्परः ॥ 44 ॥
गोपालो गोमयो गोप्ता प्रतिष्ठायी प्रजापतिः ।
आवेदनीयो वेदाक्षो महादिव्यवपुः सुराट् ॥ 45 ॥
निर्जीवो जीवनो मंत्री महार्णवनिनादभृत् ।
वसुरावर्तनो नित्यः सर्वाम्नायप्रभुः सुधीः ॥ 46 ॥
न्यायनिर्वापणः शूली कपाली पद्ममध्यगः ।
त्रिकोणनिलयश्चेत्यो बिंदुमंडलमध्यगः ॥ 47 ॥
बहुमालो महामालो दिव्यमालाधरो जपः ।
जपाकुसुमङ्काशो जपपूजाफलप्रदः ॥ 48 ॥
सहस्रमूर्धा देवन्द्रः सहस्रनयनो रविः ।
सर्वतत्त्वाश्रयो ब्रध्नो वीरवंद्यो विभावसुः ॥ 49 ॥
विश्वावसुर्वसुपतिर्वसुनाथो विसर्गवान् ।
आदिरादित्यलोकेशः सर्वगामी कलाश्रयः ॥ 50 ॥
भोगेशो देवदेवेन्द्रो नरेन्द्रो हव्यवाहनः ।
विद्याधरेशो विद्येशो यक्षेशो रक्षणो गुरुः ॥ 51 ॥
रक्षःकुलैकवरदो गंधर्वकुलपूजितः ।
अप्सरोवंदितोऽजय्यो जेता दैत्यनिवर्हणः ॥ 52 ॥
गुह्यकेशः पिशाचेशः किन्नरीपूजितः कुजः ।
सिद्धसेव्यः समाम्नायः साधुसेव्यः सरित्पतिः ॥ 53 ॥
ललाटाक्षो विश्वदेहो नियमी नियतेंद्रियः ।
अर्कोऽर्ककांतरत्रेशोऽनंतबाहुरलोपकः ॥ 54 ॥
अलिपात्रधरोऽनंगोऽप्यंबरेशोऽम्बराश्रयः ।
अकारमातृकानाथो देवानामादिराकृतिः ॥ 55 ॥
आरोग्यकारी चानंदविग्रहो निग्रहो ग्रहः ।
आलोककृत् तथादित्यो वीरादित्यः प्रजाधिपः ॥ 56 ॥
आकाशरूपः स्वाकार इंद्रादिसुरपूजितः ।
इन्दिरापूजितश्चेन्दुरिन्द्रलोकाश्रयस्त्विनः ॥ 57 ॥
ईशान ईश्वरश्चन्द्र ईश ईकारवल्लभः ।
उन्नतास्योऽप्युरुवपुरुन्नताद्रिचरो गुरुः ॥ 58 ॥
उत्पलोऽप्युच्चलत्केतुरुच्चैर्हयगतिः सुखी ।
उकाराकारसुखितस्तथोष्मा निधिरूषणः ॥ 59 ॥
अनूरुसारथिश्चोष्णभानुरूकारवल्लभः ।
ऋणहर्ता ॠलिहस्त ऋॠभूषणभूषितः ॥ 60 ॥
लृप्तांग लॄमनुस्थायी लृलॄगंडयुगोज्ज्वलः ।
एणांकामृतदश्चीनपट्टभृद् बहुगोचरः ॥ 61 ॥
एकचक्रधरश्चैकोऽनेकचक्षुस्तथैक्यदः ।
एकारबीजरमण एऐओष्ठामृताकरः ॥ 62 ॥
ओंकारकारणं ब्रह्म औकारौचित्यमंडनः ।
ओऔदंतालिरहितो महितो महतां पतिः ॥ 63 ॥
अंविद्याभूषणो भूष्यो लक्ष्मीशोऽम्बीजरूपवान् ।
अःस्वरूपः स्वरमयः सर्वस्वरपरात्मकः ॥ 64 ॥
अंअःस्वरूपमंत्रांगः कलिकालनिवर्तकः ।
कर्मैकवरदः कर्मसाक्षी कल्मषनाशनः ॥ 65 ॥
कचध्वंसी च कपिलः कनकाचलचारकः ।
कान्तः कामः कपिः क्रूरः कीरः केशिनीषूदनः ॥ 66 ॥
कृष्णः कापालिकः कुब्जः कमलाश्रयणः कुली ।
कपालमोचकः काशः काश्मीरघनसारभृत् ॥ 67 ॥
कूजत्किन्नरगीतेष्टः कुरुराजः कुलंधरः ।
कुवासी कुलकौलेशः ककाराक्षरमंडनः ॥ 68 ॥
खवासी खेटकेशानः खड्गमुंडधरः खगः ।
खगेश्वरश्च खचरः खेचरीगणसेवितः ॥ 69 ॥
खरांशुः खेटकधरः खलहर्ता खवर्णकः ।
गंता गीतप्रियो गेयो गयावासी गणाश्रयः ॥ 70 ॥
गुणातीतो गोलगतिर्गुच्छलो गुणिसेवितः ।
गदाधरो गदहरो गांगेयवरदः प्रगी ॥ 71 ॥
गिंगिलो गटिलो गांतो गकाराक्षरभास्करः
घृणिमान् घुर्घुरारावो घंटाहस्तो घटाकरः ॥ 72 ॥
घनच्छन्नो घनगतिर्घनवाहनतर्पितः ।
ङांतो ङेशो ङकारांगश्चंद्रकुंकुमवासितः ॥ 73 ॥
चंद्राश्रयश्चंद्रधरोऽच्युतश्चंपकसन्निभः ।
चामीकरप्रभश्चंडभानुश्चंडेशवल्लभः ॥ 74 ॥
चंचच्चकोरकोकेष्टश्चपलश्चपलाश्रयः ।
चलत्पताकश्चंडाद्रिश्चीवरैकधरोऽचरः ॥ 75 ॥
चित्कलावर्धितश्चिंत्यश्चिंताध्वंसी चवर्णवान् ।
छत्रभृच्छलहृच्छंदच्छुरिकाच्छिन्नविग्रहः ॥ 76 ॥
जांबूनदांगदोऽजातो जिनेंद्रो जंबुवल्लभः ।
जम्वारिर्जंगिटो जंगी जनलोकतमोपहः ॥ 77 ॥
जयकारी जगद्धर्ता जरामृत्युविनाशनः ।
जगत्त्राता जगद्धाता जगद्ध्येयो जगन्निधिः ॥ 78 ॥
जगत्साक्षी जगच्चक्षुर्जगन्नाथप्रियोऽजितः ।
जकाराकारमुकुटो झंजाछन्नाकृतिर्झटः ॥ 79 ॥
झिल्लीश्वरो झकारेशो झंजांगुलिकरांबुजः ।
झञाक्षरांचितष्टंकष्टिट्टिभासनसंस्थितः ॥ 80 ॥
टीत्कारष्टंकधारी च ठःस्वरूपष्ठठाधिपः ।
डंभरो डामरुर्डिंडी डामरीशो डलाकृतिः ॥ 81 ॥
डाकिनीसेवितो डाढी डढगुल्फांगुलिप्रभः ।
णेशप्रियो णवर्णेशो णकारपदपंकजः ॥ 82 ॥
ताराधिपेश्वरस्तथ्यस्तंत्रीवादनतत्परः ।
त्रिपुरेशस्त्रिनेत्रेशस्त्रयीतनुरधोक्षजः ॥ 83 ॥
तामस्तामरसेष्टश्च तमोहर्ता तमोरिपुः ।
तंद्राहर्ता तमोरूपस्तपसां फलदायकः ॥ 84 ॥
तुट्यादिकलनाकांतस्तकाराक्षरभूषणः ।
स्थाणुस्थलीस्थितो नित्यं स्थविरः स्थंडिल स्थुलः ॥ 85 ॥
थकारजानुरध्यात्मा देवनायकनायकः ।
दुर्जयो दुःखहा दाता दारिद्र्यच्छेदनो दमी ॥ 86 ॥
दौर्भाग्यहर्ता देवेन्द्रो द्वादशाराब्जमध्यगः ।
द्वादशांतैकवसतिर्द्वादशात्मा दिवस्पतिः ॥ 87 ॥
दुर्गमो दैत्यशमनो दूरगो दुरतिक्रमः ।
दुर्ध्येयो दुष्टवंशघ्नो दयानाथो दयाकुलः ॥ 88 ॥
दामोदरो दीधितिमान् दकाराक्षरमातृकः ।
धर्मबंधुर्धर्मनिधिर्धर्मराजो धनप्रदः ॥ 89 ॥
धनदेष्टो धनाध्यक्षो धरादर्शो धुरंधरः ।
धूर्जटीक्षणवासी च धर्मक्षेत्रो धराधिपः ॥ 90 ॥
धाराधरो धुरीणश्च धर्मात्मा धर्मवत्सलः ।
धराभृद्वल्लभो धर्मी धकाराक्षरभूषणः ॥ 91 ॥
नमप्रियो नन्दिरुद्रो नेता नीतिप्रियो नयी ।
नलिनीवल्लभो नुन्नो नाट्यकृन्नाट्यवर्धनः ॥ 92 ॥
नरनाथो नृपस्तुत्यो नभोगामी नमःप्रियः ।
नमोंतो नमितारातिर्नरनारायणाश्रयः ॥ 93 ॥
नारायणो नीलरुचिर्नम्राङ्गो नीललोहितः ।
नादरूपो नादमयो नादबिंदुस्वरूपकः ॥ 94 ॥
नाथो नागपतिर्नागो नगराजाश्रितो नगः ।
नाकस्थितोऽनेकवपुर्नकाराक्षरमातृकः ॥ 95 ॥
पद्माश्रयः परं ज्योतिः पीवरांसः पुटेश्वरः ।
प्रीतिप्रियः प्रेमकरः प्रणतार्तिभयापहः ॥ 96 ॥
परत्राता परध्वंसी पुरारिः पुरसंस्थितः ।
पूर्णानंदमयः पूर्णतेजाः पूर्णेश्वरीश्वरः ॥ 97 ॥
पटोलवर्णः पटिमा पाटलेशः परात्मवान् ।
परमेशवपुः प्रांशुः प्रमत्तः प्रणतेष्टदः ॥ 98 ॥
अपारपारदः पीनः पीतांबरप्रियः पविः ।
पाचनः पिचुलः प्लुष्टः प्रमदाजनसौख्यदः ॥ 99 ॥
प्रमोदी प्रतिपक्षघ्नः पकाराक्षरमातृकः ।
फलं भोगापवर्गस्य फलिनीशः फलात्मकः ॥ 100 ॥
फुल्लदंभोजमध्यस्थः फुल्लदंभोजधारकः ।
स्फुटद्योतिः स्फुटाकारः स्फटिकाचलचारकः ॥ 101 ॥
स्फूर्जत्किरणमाली च फकाराक्षरपार्श्वकः ।
बालो बलप्रियो बांतो बिलध्वांतहरो बली ॥ 102 ॥
बालादिर्बर्बरध्वंसी बबोलामृतपानकः ।
बुधो बृहस्पतिर्वृक्षो बृहदश्वो बृहद्गतिः ॥ 103 ॥
बपृष्ठो भीमरूपश्च भामयो भेश्वरप्रियः ।
भगो भृगुर्भृगुस्थायी भार्गवः कविशेखरः ॥ 104 ॥
भाग्यदो भानुदीप्तांगो भनाभिश्च भमातृकः ।
महाकालो (800) महाध्यक्षो महानादो महामतिः ॥ 105 ॥
महोज्ज्वलो मनोहारी मनोगामी मनोभवः ।
मानदो मल्लहा मल्लो मेरुमंदरमंदिरः ॥ 106 ॥
मंदारमालाभरणो माननीयो मनोमयः ।
मोदितो मदिराहारो मार्तंडो मुंडमुंडितः ॥ 107 ॥
महावराहो मीनेशो मेषगो मिथुनेष्टदः ।
मदालसोऽमरस्तुत्यो मुरारिवरदो मनुः ॥ 108 ॥
माधवो मेदिनीशश्च मधुकैटभनाशनः ।
माल्यवान् मेधनो मारो मेधावी मुसलायुधः ॥ 109 ॥
मुकुंदो मुररीशानो मरालफलदो मदः ।
मदनो मोदकाहारो मकाराक्षरमातृकः ॥ 110 ॥
यज्वा यज्ञेश्वरो यांतो योगिनां हृदयस्थितः ।
यात्रिको यज्ञफलदो यायी यामलनायकः ॥ 111 ॥
योगनिद्राप्रियो योगकारणं योगिवत्सलः ।
यष्टिधारी च यंत्रेशो योनिमंडलमध्यगः ॥ 112 ॥
युयुत्सुजयदो योद्धा युगधर्मानुवर्तकः ।
योगिनीचक्रमध्यस्थो युगलेश्वरपूजितः ॥ 113 ॥
यांतो यक्षैकतिलको यकाराक्षरभूषणः ।
रामो रमणशीलश्च रत्नभानू रुरुप्रियः ॥ 114 ॥
रत्नमौली रत्नतुंगो रत्नपीठांतरस्थितः ।
रत्नांशुमाली रत्नाढ्यो रत्नकंकणनूपुरः ॥ 115 ॥
रत्नांगदलसद्बाहू रत्नपादुकमण्डितः ।
रोहिणीशाश्रयो रक्षाकरो रात्रिंचरांतकः ॥ 116 ॥
रकाराक्षररूपश्च लज्जाबीजाश्रितो लवः ।
लक्ष्मीभानुर्लतावासी लसत्कांतिश्च लोकभृत् ॥ 117 ॥
लोकान्तकहरो लामावल्लभो लोमशोऽलिगः ।
लिंगेश्वरो लिंगनादो लीलाकारी ललंबुसः ॥ 118 ॥
लक्ष्मीवांल्लोकविध्वंसी लकाराक्षरभूषणः ।
वामनो वीरवीरेंद्रो वाचालो वाक्पतिप्रियः ॥ 119 ॥
वाचामगोचरो वांतो वीणावेणुधरो वनम् ।
वाग्भवो वालिशध्वंसी विद्यानायकनायकः ॥ 120 ॥
वकारमातृकामौलिः शांभवेष्टप्रदः शुकः ।
शशी शोभाकरः शांतः शांतिकृच्छमनप्रियः ॥ 121 ॥
शुभङ्करः शुक्लवस्त्रः श्रीपतिः श्रीयुतः श्रुतः ।
श्रुतिगम्यः शरद्बीजमंडितः शिष्टसेवितः ॥ 122 ॥
शिष्टाचारः शुभाचारः शेषः शेवालताडनः ।
शिपिविष्टः शिबिः शुक्रसेव्यः शाक्षरमातृकः ॥ 123 ॥
षडाननः षट्करकः षोडशस्वरभूषितः ।
षट्पदस्वनसंतोषी षडाम्नायप्रवर्तकः ॥ 124 ॥
षड्सास्वादसंतुष्टः षकाराक्षरमातृकः ।
सूर्यभानुः सूरभानुः सूरिभानुः सुखाकरः ॥ 125 ॥
समस्तदैत्यवंशघ्नः समस्तसुरसेवितः ।
समस्तसाधकेशानः समस्तकुलशेखरः ॥ 126 ॥
सुरसूर्यः सुधासूर्यः स्वःसूर्यः साक्षरेश्वरः ।
हरित्सूर्यो हरिद्भानुर्हविर्भुग् हव्यवाहनः ॥ 127 ॥
हालासूर्यो होमसूर्यो हुतसूर्यो हरीश्वरः ।
ह्रांबीजसूर्यो ह्रींसूर्यो हकाराक्षरमातृकः ॥ 128 ॥
ळंबीजमंडितः सूर्यः क्षोणीसूर्यः क्षमापतिः ।
क्षुत्सूर्यः क्षांतसूर्यश्च ळंक्षःसूर्यः सदाशिवः ॥ 129 ॥
अकारसूर्यः क्षःसूर्यः सर्वसूर्यः कृपानिधिः ।
भूःसूर्यश्च भुवःसूर्यः स्वःसूर्यः सूर्यनायकः ॥ 130 ॥
ग्रहसूर्य ऋक्षसूर्यो लग्नसूर्यो महेश्वरः ।
राशिसूर्यो योगसूर्यो मंत्रसूर्यो मनूत्तमः ॥ 131 ॥
तत्त्वसूर्यः परासूर्यो विष्णुसूर्यः प्रतापवान् ।
रुद्रसूर्यो ब्रह्मसूर्यो वीरसूर्यो वरोत्तमः ॥ 132 ॥
धर्मसूर्यः कर्मसूर्यो विश्वसूर्यो विनायकः ।
इतीदं देवदेवेशि मत्रनामसहस्रकं ॥ 133 ॥
देवदेवस्य सवितुः सूर्यस्यामिततेजसः ।
सर्वसारमयं दिव्यं ब्रह्मतेजोविवर्धनम् ॥ 134 ॥
ब्रह्मज्ञानमयं पुण्यं पुण्यतीर्थफलप्रदम् ।
सर्वयज्ञफलैस्तुल्यं सर्वसारस्वतप्रदम् ॥ 135 ॥
सर्वश्रेयस्करं लोके कीर्तिदं धनदं परम् ।
सर्वव्रतफलोद्रिक्तं सर्वधर्मफलप्रदम् ॥ 136 ॥
सर्वरोगहरं देवि शरीरारोग्यवर्धनम् ।
प्रभावमस्य देवेशि नाम्नां सहस्रकस्य च ॥ 137 ॥
कल्पकोटिशतैर्वर्षैर्नैव शक्नोमि वर्णितुम् ।
यं यं काममभिध्यायेद् देवानामपि दुर्लभम् ॥ 138 ॥
तं तं प्राप्नोति सहसा पठनेनास्य पार्वति ।
यः पठेच्छ्रावयेद्वापि शृणोति नियतेंद्रियः ॥ 139 ॥
स वीरो धर्मिणां राजा लक्ष्मीवानपि जायते ।
धनवांजायते लोके पुत्रवान् राजवल्लभः ॥ 140 ॥
आयुरारोग्यवान् नित्यं स भवेत् संपदां पम् ।
रवौ पठेन्महादेवि सूर्यं संपूज्य कौलिकः ॥ 141 ॥
सूर्योदये रविं ध्याता लभेत् कामान् यथेप्सितान् ।
संक्रांतौ यः पठेद् देवि त्रिकालं भक्तिपूर्वकम् ॥ 142 ॥
इह लोके श्रियं भुक्त्वा सर्वरोगैः प्रमुच्यते ।
सप्तम्यां शुक्लपक्षे यः पठदस्तंगते रवौ ॥ 143 ॥
सर्वारोग्यमयं देहं धारयेत् कौलिकोत्तमः ।
व्यतीपाते पठेद् देवि मध्याह्ने संयतेंद्रियः ॥ 144 ॥
धनं पुत्रान् यशो मानं लभेत् सूर्यप्रसादतः ।
चक्रार्चने पठेद् देवि जपन् मूलं रविं स्मरन् ॥ 145 ॥
रवीभूत्वा महाचीनक्रमाचारविचक्षणः ।
सर्वशत्रून् विजित्याशु लभेल्लक्ष्मीं प्रतापवान् ॥ 146 ॥
यः पठेत् परदेशस्थो वटुकार्चनतत्परः ।
कांताश्रितो वीतभयो भवेत् स शिवसन्निभः ॥ 147 ॥
शतावर्तं पठेद्यस्तु सूर्योदययुगांतरे ।
सविता सर्वलोकेशो वरदः सहसा भवेत् ॥ 148 ॥
बहुनात्र किमुक्तेन पठनादस्य पार्वति ।
इह लक्ष्मीं सदा भुक्त्वा परत्राप्नोति तत्पम् ॥ 149 ॥
रवौ देवि लिखेद्भूर्जे मंत्रनामसहस्रकम् ।
अष्टगंधेन दिव्येन नीलपुष्पहरिद्रया ॥ 150 ॥
पंचामृतौषधीभिश्च नृयुक्पीयूषबिंदुभिः ।
विलिख्य विधिवन्मंत्री यंत्रमध्येऽर्णवेष्टितम् ॥ 151 ॥
गुटीं विधाय संवेष्ट्य मूलमंत्रमनुस्मरन् ।
कन्याकर्तितसूत्रेण वेष्टयेद्रक्तलाक्षया ॥ 152 ॥
सुवर्णेन च संवेष्ट्य पंचगव्येन शोधयेत् ।
साधयेन्मंत्रराजेन धारयेन्मूर्ध्नि वा भुजे ॥ 153 ॥
किं किं न साधयेद् देवि यन्ममापि सुदुर्लभम् ।
कुष्ठरोगी च शूली च प्रमेही कुक्षिरोगवान् ॥ 154 ॥
भगंधरातुरोऽप्यर्शी अश्मरीवांश्च कृच्छ्रवान् ।
मुच्यते सहसा धृत्वा गुटीमेतां सुदुर्लभाम् ॥ 155 ॥
वन्ध्या च काकवन्ध्या च मृतवत्सा च कामिनी ।
धारयेद्गुटिकामेतां वक्षसि स्मयतर्पिता ॥ 156 ॥
वन्ध्या लभेत् सुतं कांतं काकवंध्यापि पार्वति ।
मृतवत्सा बहून् पुत्रान् सुरूपांश्च चिरायुशः ॥ 157 ॥
रणे गत्वा गुटीं धृत्वा शत्रूंजित्वा लभेच्छ्रियम् ।
अक्षतांगो महाराजः सुखी स्वपुरमाविशेत् ॥ 158 ॥
यो धारयेद् भुजे नित्यं राजलोकवशङ्करीम् ।
गुटिकां मोहनाकर्षस्तंभनोच्चाटनक्षमाम् ॥ 159 ॥
स भवेत् सूर्यसंकाशो महसा महसां निधिः ।
धनेन धनदो देवि विभवेन च शङ्करः ॥ 160 ॥
श्रियेन्द्रो यशसा रामः पौरुषेण च भार्गवः ।
गिरा बृहस्पतिर्देवि नयेन भृगुनन्दनः ॥ 161 ॥
बलेन वायुसंकाशो दयया पुरुषोत्तमः ।
आरोग्येण घटोद्भूतिः कांत्या पूर्णेन्दुसन्निभः ॥ 162 ॥
धर्मेण धर्मराजश्च रत्नै रत्नाकरोपमः ।
गांभीर्येण तथांभोधिर्दातृत्वेन बलिः स्वयम् ॥ 163 ॥
सिद्ध्या श्रीभैरवः साक्षादानंदेन चिदीश्वरः ।
किं प्रलापेन बहुना पठेद्वा धारयेच्छिवे ॥ 164 ॥
शृणुयाद् यः परं दिव्यं सूर्यनामसहस्रम् ।
स भवेद् भास्करः साक्षात् परमानंदविग्रहः ॥ 165 ॥
स्वतन्त्रः स प्रयात्यन्ते तद्विष्णोः परमं पम् ।
इदं दिव्यं महत् तत्त्वं सूर्यनामसहस्रकम् ॥ 166 ॥
अप्रकाश्य मदातव्य मवक्तव्यं दुरात्मने ।
अभक्ताय कुचैलाय परशिष्याय पार्वति ॥ 167 ॥
कर्कशाया कुलीनाय दुर्जनायाघ बुद्धये ।
गुरुभक्ति विहीनाय निंदकाय शिवागमे ॥ 168 ॥
देयं शिष्याय शांताय गुरुभक्तिपराय च ।
कुलीनाय सुभक्ताय सूर्यभक्तिरताय च ॥ 169॥
इदं तत्त्वं हि तत्त्वानां वेदागमरहस्यकम् ।
सर्वमंत्रमयं गोप्यं गोपनीयं स्वयोनिवत् ॥ 170 ॥
॥ इति श्रीरुद्रयामलतन्त्रे श्री सूर्य सहस्रनाम स्तोत्रम् संपूर्णम् ॥
॥ श्री सूर्य ग्रह सहस्रनामावलिः॥
Click to show/hide
ध्यानम्
द्विभुजं पद्महस्तं च वरदं मुकुटान्वितम् ।
ध्यायेद्दिवाकरं देवं सर्वभीष्ठ प्रदायकम् ॥
प्रत्यक्षदेवं विशदं सहस्रमरीचिभिः शोभितभूमिदेशम् ।
सप्ताश्वगं सद्ध्वजहस्तम् आद्यं देवं भजेऽहं मिहिरं हृदब्जे ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ॐ सवित्रे नमः ।
ॐ भास्कराय नमः ।
ॐ भगाय नमः ।
ॐ भगवते नमः ।
ॐ सर्वलोकेशाय नमः ।
ॐ भूतेशाय नमः ।
ॐ भूतभावनाय नमः ।
ॐ भूतात्मने नमः ।
ॐ सृष्टिकर्त्रे नमः ।
ॐ स्रष्ट्रे नमः । (10)
ॐ कर्त्रे नमः ।
ॐ हर्त्रे नमः ।
ॐ जगत्पतये नमः ।
ॐ आदित्याय नमः ।
ॐ वरदाय नमः ।
ॐ वीराय नमः ।
ॐ वीरलाय नमः ।
ॐ विश्वदीपनाय नमः ।
ॐ विश्वकृते नमः ।
ॐ विश्वहृदे नमः । (20)
ॐ भक्ताय नमः ।
ॐ भोक्त्रे नमः ।
ॐ भीमाय नमः ।
ॐ भयापहाय नमः ।
ॐ विश्वात्मने नमः ।
ॐ पुरुषाय नमः ।
ॐ साक्षिणे नमः ।
ॐ परं ब्रह्मणे नमः ।
ॐ परात्पराय नमः ।
ॐ प्रतापवते नमः । (30)
ॐ विश्वयोनये नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ कामिने नमः ।
ॐ योगिने नमः ।
ॐ महाबुद्धये नमः ।
ॐ मनस्विने नमः ।
ॐ मनवे नमः ।
ॐ अव्ययाय नमः ।
ॐ प्रजापतये नमः । (40)
ॐ विश्ववन्द्याय नमः ।
ॐ वन्दिताय नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ भूतभव्यभविष्यात्मने नमः ।
ॐ तत्त्वात्मने नमः ।
ॐ ज्ञानवते नमः ।
ॐ गुणिने नमः ।
ॐ सात्त्विकाय नमः ।
ॐ राजसाय नमः ।
ॐ तामसाय नमः । (50)
ॐ तमस्विने नमः ।
ॐ करुणानिधये नमः ।
ॐ सहस्रकिरणाय नमः ।
ॐ भास्वते नमः ।
ॐ भार्गवाय नमः ।
ॐ भृगवे नमः ।
ॐ ईश्वराय नमः ।
ॐ निर्गुणाय नमः ।
ॐ निर्ममाय नमः ।
ॐ नित्याय नमः । (60)
ॐ नित्यानंदाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ तपस्विने नमः ।
ॐ कालकृते नमः ।
ॐ कालाय नमः ।
ॐ कमनीयतनवे नमः ।
ॐ कृशाय नमः ।
ॐ दुर्दर्शाय नमः ।
ॐ सुदशाय नमः ।
ॐ दाशाय नमः । (70)
ॐ दीनबंधवे नमः ।
ॐ दयाकराय नमः ।
ॐ द्विभुजाय नमः ।
ॐ अष्टभुजाय नमः ।
ॐ धीराय नमः ।
ॐ दशबाहवे नमः ।
ॐ दशातिगाय नमः ।
ॐ दशांशफलदाय नमः ।
ॐ विष्णवे नमः ।
ॐ जिगीषवे नमः । (80)
ॐ जयवते नमः ।
ॐ जयिने नमः ।
ॐ जटिलाय नमः ।
ॐ निर्भयाय नमः ।
ॐ भानवे नमः ।
ॐ पद्महस्ताय नमः ।
ॐ कुशीरकाय नमः ।
ॐ समाहितगतये नमः ।
ॐ धात्रे नमः ।
ॐ विधात्रे नमः । (90)
ॐ कृतमंगलाय नमः ।
ॐ मार्तंडाय नमः ।
ॐ लोकधृते नमः ।
ॐ त्रात्रे नमः ।
ॐ रुद्राय नमः ।
ॐ भद्रप्रदाय नमः ।
ॐ प्रभवे नमः ।
ॐ अरातिशमनाय नमः ।
ॐ शांताय नमः ।
ॐ शंकराय नमः । (100)
ॐ कमलासनाय नमः ।
ॐ अविचिंत्यवपवे नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ महाचीनक्रमेश्वराय नमः ।
ॐ महार्तिदमनाय नमः ।
ॐ दांताय नमः ।
ॐ महामोहहराय नमः ।
ॐ हरये नमः ।
ॐ नियतात्मने नमः ।
ॐ कालेशाय नमः । (110)
ॐ दिनेशाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ कल्याणकारिणे नमः ।
ॐ कमठकर्कशाय नमः ।
ॐ कामवल्लभाय नमः ।
ॐ व्योमचारिणे नमः ।
ॐ महते नमः ।
ॐ सत्याय नमः ।
ॐ शंभवे नमः ।
ॐ अंभोजवल्लभाय नमः । (120)
ॐ सामगाय नमः ।
ॐ पंचमाय नमः ।
ॐ द्रव्याय नमः ।
ॐ ध्रुवाय नमः ।
ॐ दीनजनप्रियाय नमः ।
ॐ त्रिजटाय नमः ।
ॐ रक्तवाहाय नमः ।
ॐ रक्तवस्त्राय नमः ।
ॐ रतिप्रियाय नमः ।
ॐ कालयोगिने नमः । (130)
ॐ महानादाय नमः ।
ॐ निश्चलाय नमः ।
ॐ दृश्यरूपधृषे नमः ।
ॐ गंभीरघोषाय नमः ।
ॐ निर्घोषाय नमः ।
ॐ घटहस्ताय नमः ।
ॐ महोमयाय नमः ।
ॐ रक्तांबरधराय नमः ।
ॐ रक्ताय नमः ।
ॐ रक्तमाल्यानुलेपनाय नमः । (140)
ॐ सहस्रहस्ताय नमः ।
ॐ विजयाय नमः ।
ॐ हरिगामिने नमः ।
ॐ हरीश्वराय नमः ।
ॐ मुंडाय नमः ।
ॐ कुंडिने नमः ।
ॐ भुजंगेशाय नमः ।
ॐ रथिने नमः ।
ॐ सुरथपूजिताय नमः ।
ॐ न्यग्रोधवासिने नमः । (150)
ॐ न्यग्रोधाय नमः ।
ॐ वृक्षकर्णाय नमः ।
ॐ कुलंधराय नमः ।
ॐ शिखिने नमः ।
ॐ चंडिने नमः ।
ॐ जटिने नमः ।
ॐ ज्वालिने नमः ।
ॐ ज्वालातेजोमयाय नमः ।
ॐ विभवे नमः ।
ॐ हैमाय नमः । (160)
ॐ हेमकराय नमः ।
ॐ हारिणे नमः ।
ॐ हरिद्रत्नासनस्थिताय नमः ।
ॐ हरिदश्वाय नमः ।
ॐ जगद्वासिने नमः ।
ॐ जगतांपतये नमः ।
ॐ इंगिलाय नमः ।
ॐ विरोचनाय नमः ।
ॐ विलासिने नमः ।
ॐ विरूपाक्षाय नमः । (170)
ॐ विकर्तनाय नमः ।
ॐ विनायकाय नमः ।
ॐ विभासाय नमः ।
ॐ भासाय नमः ।
ॐ भासांपतये नमः ।
ॐ प्रभवे नमः ।
ॐ मतिमते नमः ।
ॐ रतिमते नमः ।
ॐ स्वक्षाय नमः ।
ॐ विशालाक्षाय नमः । (180)
ॐ विशांपतये नमः ।
ॐ बालरूपाय नमः ।
ॐ गिरिचराय नमः ।
ॐ गीर्पतये नमः ।
ॐ गोमतीपतये नमः ।
ॐ गंगाधराय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ गणसेव्याय नमः ।
ॐ गणेश्वराय नमः ।
ॐ गिरीशनयनावासिने नमः । (190)
ॐ सर्ववासिने नमः ।
ॐ सतीप्रियाय नमः ।
ॐ सत्यात्मकाय नमः ।
ॐ सत्यधराय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ सहस्रगवे नमः ।
ॐ अपारमहिम्ने नमः ।
ॐ मुक्ताय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मोक्षकामदाय नमः । (200)
ॐ मूर्तिमते नमः ।
ॐ दुर्धराय नमः ।
ॐ अमूर्तये नमः ।
ॐ त्रुटिरूपाय नमः ।
ॐ लवात्मकाय नमः ।
ॐ प्राणेशाय नमः ।
ॐ व्यानदाय नमः ।
ॐ अपानसमानोदानरूपवते नमः ।
ॐ चषकाय नमः ।
ॐ घटिकारूपाय नमः । (210)
ॐ मुहूर्ताय नमः ।
ॐ दिनरूपवते नमः ।
ॐ पक्षाय नमः ।
ॐ मासाय नमः ।
ॐ ऋतवे नमः ।
ॐ वर्षाय नमः ।
ॐ दिनकालेश्वरेश्वराय नमः ।
ॐ अयनाय नमः ।
ॐ युगरूपाय नमः ।
ॐ कृताय नमः । (220)
ॐ त्रेतायुगाय नमः ।
ॐ त्रिपादे नमः ।
ॐ द्वापराय नमः ।
ॐ कलये नमः ।
ॐ कालाय नमः ।
ॐ कालात्मने नमः ।
ॐ कलिनाशनाय नमः ।
ॐ मन्वंतरात्मकाय नमः ।
ॐ देवाय नमः ।
ॐ शक्राय नमः । (230)
ॐ त्रिभुवनेश्वराय नमः ।
ॐ वासवाय नमः ।
ॐ अग्नये नमः ।
ॐ यमाय नमः ।
ॐ रक्षसे नमः ।
ॐ वरुणाय नमः ।
ॐ यादसांपतये नमः ।
ॐ वायवे नमः ।
ॐ वैश्रवणाय नमः ।
ॐ शैव्याय नमः । (240)
ॐ गिरिजाय नमः ।
ॐ जलजासनाय नमः ।
ॐ अनंताय नमः ।
ॐ अनंतमहिम्ने नमः ।
ॐ परमेष्ठिने नमः ।
ॐ गतज्वराय नमः ।
ॐ कल्पाङ्तकलनाय नमः ।
ॐ क्रूराय नमः ।
ॐ कालाग्नये नमः ।
ॐ कालसूदनाय नमः । (250)
ॐ महाप्रलयकृते नमः ।
ॐ कृत्याय नमः ।
ॐ कुत्याशिने नमः ।
ॐ युगवर्तनाय नमः ।
ॐ कालावर्ताय नमः ।
ॐ युगधराय नमः ।
ॐ युगादये नमः ।
ॐ शहकेश्वराय नमः ।
ॐ आकाशनिधिरूपाय नमः ।
ॐ सर्वकालप्रवर्तकाय नमः । (260)
ॐ अचिन्त्याय नमः ।
ॐ सुबलाय नमः ।
ॐ बालाय नमः ।
ॐ बलाकावल्लभाय नमः ।
ॐ वराय नमः ।
ॐ वरदाय नमः ।
ॐ वीर्यदाय नमः ।
ॐ वाग्मिने नमः ।
ॐ वाक्पतये नमः ।
ॐ वाग्विलासदाय नमः । (270)
ॐ सांख्येश्वराय नमः ।
ॐ वेदगम्याय नमः ।
ॐ मंत्रेशाय नमः ।
ॐ तंत्रनायकाय नमः ।
ॐ कुलाचारपराय नमः ।
ॐ नुत्याय नमः ।
ॐ नुतितुष्टाय नमः ।
ॐ नुतिप्रियाय नमः ।
ॐ अलसाय नमः ।
ॐ तुलसीसेव्याय नमः । (280)
ॐ स्तुष्टाय नमः ।
ॐ रोगनिबर्हणाय नमः ।
ॐ प्रस्कंदनाय नमः ।
ॐ विभागाय नमः ।
ॐ नीरागाय नमः ।
ॐ दशदिक्पतये नमः ।
ॐ वैराग्यदाय नमः ।
ॐ विमानस्थाय नमः ।
ॐ रत्नकुंभधरायुधाय नमः ।
ॐ महापादाय नमः । (290)
ॐ महाहस्ताय नमः ।
ॐ महाकायाय नमः ।
ॐ महाशयाय नमः ।
ॐ ऋग्यजुःसामरूपाय नमः ।
ॐ अथर्वणशाखिनः त्वष्ट्रे नमः ।
ॐ सहस्रशाखिने नमः ।
ॐ सद्वृक्षाय नमः ।
ॐ महाकल्पप्रियाय नमः ।
ॐ पुंसे नमः ।
ॐ कल्पवृक्षाय नमः । (300)
ॐ मंदाराय नमः ।
ॐ मंदराचलशोभनाय नमः ।
ॐ मेरवे नमः ।
ॐ हिमालयाय नमः ।
ॐ मालिने नमः ।
ॐ मलयाय नमः ।
ॐ मलयद्रुमाय नमः ।
ॐ सन्तानकुसुमच्छन्नाय नमः ।
ॐ संतानफलदाय नमः ।
ॐ विराजे नमः । (310)
ॐ क्षीरांभोधये नमः ।
ॐ घृतांभोधये नमः ।
ॐ जलधये नमः ।
ॐ क्लेशनाशनाय नमः ।
ॐ रत्नाकराय नमः ।
ॐ महामान्याय नमः ।
ॐ वैण्याय नमः ।
ॐ वेणुधराय नमः ।
ॐ वणिजे नमः ।
ॐ वसंताय नमः । (320)
ॐ मारसामन्ताय नमः ।
ॐ ग्रीष्माय नमः ।
ॐ कल्मषनाशनाय नमः ।
ॐ वर्षाकालाय नमः ।
ॐ वर्षपतये नमः ।
ॐ शरदंभोजवल्लभाय नमः ।
ॐ हेमंताय नमः ।
ॐ हेमकेयूराय नमः ।
ॐ शिशिराय नमः ।
ॐ शिशुवीर्यदाय नमः । (330)
ॐ सुमतये नमः ।
ॐ सुगतये नमः ।
ॐ साधवे नमः ।
ॐ विष्णवे नमः ।
ॐ सांबाय नमः ।
ॐ अंबिकासुताय नमः ।
ॐ सारग्रीवाय नमः ।
ॐ महाराजाय नमः ।
ॐ सुनंदाय नमः ।
ॐ नंदिसेविताय नमः । (340)
ॐ सुमेरुशिखरावासिने नमः ।
ॐ सप्तपातालगोचराय नमः ।
ॐ आकाशचारिणे नमः ।
ॐ नित्यात्मने नमः ।
ॐ विभुत्वविजयप्रदाय नमः ।
ॐ कुलकांताय नमः ।
ॐ कुलाधीशाय नमः ।
ॐ विनयिने नमः ।
ॐ विजयिने नमः ।
ॐ वियदे नमः । (350)
ॐ विश्वंभराय नमः ।
ॐ वियच्चारिणे नमः ।
ॐ वियद्रूपाय नमः ।
ॐ वियद्रथाय नमः ।
ॐ सुरथाय नमः ।
ॐ सुगतस्तुत्याय नमः ।
ॐ वेणुवादनतत्पराय नमः ।
ॐ गोपालाय नमः ।
ॐ गोमयाय नमः ।
ॐ गोप्त्रे नमः । (360)
ॐ प्रतिष्ठायिने नमः ।
ॐ प्रजापतये नमः ।
ॐ आवेदनीयाय नमः ।
ॐ वेदाक्षाय नमः ।
ॐ महादिव्यवपवे नमः ।
ॐ सुराजे नमः ।
ॐ निर्जीवाय नमः ।
ॐ जीवनाय नमः ।
ॐ मंत्रिणे नमः ।
ॐ महार्णवनिनादभृते नमः । (370)
ॐ वसवे नमः ।
ॐ आवर्तनाय नमः ।
ॐ नित्याय नमः ।
ॐ सर्वाम्नायप्रभवे नमः ।
ॐ सुधिये नमः ।
ॐ न्यायनिर्वापणाय नमः ।
ॐ शूलिने नमः ।
ॐ कपालिने नमः ।
ॐ पद्ममध्यगाय नमः ।
ॐ त्रिकोणनिलयाय नमः । (380)
ॐ चेत्याय नमः ।
ॐ बिंदुमंडलमध्यगाय नमः ।
ॐ बहुमालाय नमः ।
ॐ महामालाय नमः ।
ॐ दिव्यमालाधराय नमः ।
ॐ जपाय नमः ।
ॐ जपाकुसुमसङ्काशाय नमः ।
ॐ जपपूजाफलप्रदाय नमः ।
ॐ सहस्रमूर्ध्ने नमः ।
ॐ देवेंद्राय नमः । (390)
ॐ सहस्रनयनाय नमः ।
ॐ रवये नमः ।
ॐ सर्वतत्त्वाश्रयाय नमः ।
ॐ ब्रध्नाय नमः ।
ॐ वीरवंद्याय नमः ।
ॐ विभावसवे नमः ।
ॐ विश्वावसवे नमः ।
ॐ वसुपतये नमः ।
ॐ वसुनाथाय नमः ।
ॐ विसर्गवते नमः । (400)
ॐ आदये नमः ।
ॐ आदित्यलोकेशाय नमः ।
ॐ सर्वगामिने नमः ।
ॐ कलाश्रयाय नमः ।
ॐ भोगेशाय नमः ।
ॐ देवदेवेंद्राय नमः ।
ॐ नरेन्द्राय नमः ।
ॐ हव्यवाहनाय नमः ।
ॐ विद्याधरेशाय नमः ।
ॐ विद्येशाय नमः । (410)
ॐ यक्षेशाय नमः ।
ॐ रक्षणाय नमः ।
ॐ गुरवे नमः ।
ॐ रक्षःकुलैकवरदाय नमः ।
ॐ गंधर्वकुलपूजिताय नमः ।
ॐ अप्सरोवंदिताय नमः ।
ॐ अजय्याय नमः ।
ॐ जेत्रे नमः ।
ॐ दैत्यनिबर्हणाय नमः ।
ॐ गुह्यकेशाय नमः । (420)
ॐ पिशाचेशाय नमः ।
ॐ किन्नरीपूजिताय नमः ।
ॐ कुजाय नमः ।
ॐ सिद्धसेव्याय नमः ।
ॐ समाम्नायाय नमः ।
ॐ साधुसेव्याय नमः ।
ॐ सरित्पतये नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ विश्वदेहाय नमः ।
ॐ नियमिने नमः । (430)
ॐ नियतेंद्रियाय नमः ।
ॐ अर्काय नमः ।
ॐ अर्ककांतरत्नेशाय नमः ।
ॐ अनंतबाहवे नमः ।
ॐ अलोपकाय नमः ।
ॐ अलिपात्रधराय नमः ।
ॐ अनङ्गाय नमः ।
ॐ अंबरेशाय नमः ।
ॐ अंबराश्रयाय नमः ।
ॐ अकारमातृकानाथाय नमः । (440)
ॐ देवानामादये नमः ।
ॐ आकृतये नमः ।
ॐ आरोग्यकारिणे नमः ।
ॐ आनंदविग्रहाय नमः ।
ॐ निग्रहाय नमः ।
ॐ ग्रहाय नमः ।
ॐ आलोककृते नमः ।
ॐ आदित्याय नमः ।
ॐ वीरादित्याय नमः ।
ॐ प्रजाधिपाय नमः । (450)
ॐ आकाशरूपाय नमः ।
ॐ स्वाकाराय नमः ।
ॐ इन्द्रादिसुरपूजिताय नमः ।
ॐ इन्दिरापूजिताय नमः ।
ॐ इन्दवे नमः ।
ॐ इन्द्रलोकाश्रयस्थिताय – इनाय नमः ।
ॐ ईशानाय नमः ।
ॐ ईश्वराय नमः ।
ॐ चन्द्राय नमः ।
ॐ ईशाय नमः । (460)
ॐ ईकारवल्लभाय नमः ।
ॐ उन्नतास्याय नमः ।
ॐ उरुवपुषे नमः ।
ॐ उन्नताद्रिचराय नमः ।
ॐ गुरवे नमः ।
ॐ उत्पलाय नमः ।
ॐ उच्चलत्केतवे नमः ।
ॐ उच्चैर्हयगतये नमः ।
ॐ सुखिने नमः ।
ॐ उकाराकारसुखिताय नमः । (470)
ॐ ऊष्मायै नमः ।
ॐ निधये नमः ।
ॐ ऊषणाय नमः ।
ॐ अनूरुसारथये नमः ।
ॐ उष्णभानवे नमः ।
ॐ ऊकारवल्लभाय नमः ।
ॐ ऋणहर्त्रे नमः ।
ॐ ॠलिहस्ताय नमः ।
ॐ ऋॠभूषणभूषिताय नमः ।
ॐ ऌप्तांगाय नमः । (480)
ॐ लृमनुस्थायिने नमः ।
ॐ ऌॡगंडयुगोज्ज्वलाय नमः ।
ॐ एणांकामृतदाय नमः ।
ॐ चीनपट्टभृते नमः ।
ॐ बहुगोचराय नमः ।
ॐ एकचक्रधराय नमः ।
ॐ एकाय नमः ।
ॐ अनेकचक्षुषे नमः ।
ॐ ऐक्यदाय नमः ।
ॐ एकारबीजरमणाय नमः । (490)
ॐ एऐओष्ठामृताकराय नमः ।
ॐ ओंकारकारणब्रह्मणे नमः ।
ॐ औकाराय नमः ।
ॐ औचित्यमण्डनाय नमः ।
ॐ ओऔदन्तालिरहिताय नमः ।
ॐ महिताय नमः ।
ॐ महतां पतये नमः ।
ॐ अंविद्याभूषणाय नमः ।
ॐ भूष्याय नमः ।
ॐ लक्ष्मीशाय नमः । (500)
ॐ अंबीजरूपवते नमः ।
ॐ अःस्वरूपाय नमः ।
ॐ स्वरमयाय नमः ।
ॐ सर्वस्वरपरात्मकाय नमः ।
ॐ अंअःस्वरूपमन्त्राङ्गाय नमः ।
ॐ कलिकालनिवर्तकाय नमः ।
ॐ कर्मैकवरदाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कल्मषनाशनाय नमः ।
ॐ कचध्वंसिने नमः । (510)
ॐ कपिलाय नमः ।
ॐ कनकाचलचारकाय नमः ।
ॐ कान्ताताय नमः ।
ॐ कामाय नमः ।
ॐ कपये नमः ।
ॐ क्रूराय नमः ।
ॐ कीराय नमः ।
ॐ केशीनिषूदनाय नमः ।
ॐ कृष्णाय नमः ।
ॐ कापालिकाय नमः । (520)
ॐ कुब्जाय नमः ।
ॐ कमलाश्रयणाय नमः ।
ॐ कुलिने नमः ।
ॐ कपालमोचकाय नमः ।
ॐ काशाय नमः ।
ॐ काश्मीरघनसारभृते नमः ।
ॐ कूजत्किन्नरगीतेष्टाय नमः ।
ॐ कुरुराजाय नमः ।
ॐ कुलन्धराय नमः ।
ॐ कुवासिने नमः ।
ॐ कुलकौलेशाय नमः ।
ॐ ककाराक्षरमंडनाय नमः ।
ॐ खवासिने नमः ।
ॐ खेटकेशानाय नमः ।
ॐ खड्गमुंडधराय नमः ।
ॐ खगाय नमः ।
ॐ खगेश्वराय नमः ।
ॐ खचराय नमः ।
ॐ खेचरीगणसेविताय नमः ।
ॐ खरांशवे नमः । (540)
ॐ खेटकधराय नमः ।
ॐ खलहर्त्रे नमः ।
ॐ खवर्णकाय नमः ।
ॐ गन्त्रे नमः ।
ॐ गीतप्रियाय नमः ।
ॐ गेयाय नमः ।
ॐ गयावासिने नमः ।
ॐ गणाश्रयाय नमः ।
ॐ गुणातीताय नमः ।
ॐ गोलगतये नमः । (550)
ॐ गुच्छलाय नमः ।
ॐ गुणिसेविताय नमः ।
ॐ गदाधराय नमः ।
ॐ गदहराय नमः ।
ॐ गांगेयवरदाय नमः ।
ॐ प्रगिने नमः ।
ॐ गिंगिलाय नमः ।
ॐ गटिलाय नमः ।
ॐ गांताय नमः ।
ॐ गकाराक्षरभास्कराय नमः । (560)
ॐ घृणिमते नमः ।
ॐ घुर्घुरारावाय नमः ।
ॐ घंटाहस्ताय नमः ।
ॐ घटाकराय नमः ।
ॐ घनच्छन्नाय नमः ।
ॐ घनगतये नमः ।
ॐ घनवाहनतर्पिताय नमः ।
ॐ ङान्ताय नमः ।
ॐ ङेशाय नमः ।
ॐ ङकारांगाय नमः । (570)
ॐ चन्द्रकुङ्कुमवासिताय नमः ।
ॐ चन्द्राश्रयाय नमः ।
ॐ चन्द्रधराय नमः ।
ॐ अच्युताय नमः ।
ॐ चंपकसन्निभाय नमः ।
ॐ चामीकरप्रभाय नमः ।
ॐ चण्डभानवे नमः ।
ॐ चण्डेशवल्लभाय नमः ।
ॐ चञ्चच्चकोरकोकेष्टाय नमः ।
ॐ चपलाय नमः । (580)
ॐ चपलाश्रयाय नमः ।
ॐ चलत्पताकाय नमः ।
ॐ चण्डाद्रये नमः ।
ॐ चीवरैकधराय नमः ।
ॐ अचराय नमः ।
ॐ चित्कलावर्धिताय नमः ।
ॐ चिन्त्याय नमः ।
ॐ चिन्ताध्वंसिने नमः ।
ॐ चवर्णवते नमः ।
ॐ छत्रभृते नमः । (590)
ॐ छलहृते नमः ।
ॐ छन्दसे नमः ।
ॐ च्छुरिकाच्छिन्नविग्रहाय नमः ।
ॐ जांबूनदाङ्गदाय नमः ।
ॐ अजाताय नमः ।
ॐ जिनेन्द्राय नमः ।
ॐ जंबुवल्लभाय नमः ।
ॐ जंबारये नमः ।
ॐ जङ्गिटाय नमः ।
ॐ जङ्गिने नमः । (600)
ॐ जनलोकतमोऽपहाय नमः ।
ॐ जयकारिणे नमः ।
ॐ जगद्धर्त्रे नमः ।
ॐ जरामृत्युविनाशनाय नमः ।
ॐ जगत्त्रात्रे नमः ।
ॐ जगद्धात्रे नमः ।
ॐ जगद्ध्येयाय नमः ।
ॐ जगन्निधये नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगच्चक्षुषे नमः । (610)
ॐ जगन्नाथप्रियाय नमः ।
ॐ अजिताय नमः ।
ॐ जकाराकारमुकुटाय नमः ।
ॐ झञ्जाछन्नाकृतये नमः ।
ॐ झटाय नमः ।
ॐ झिल्लीश्वराय नमः ।
ॐ झकारेशाय नमः ।
ॐ झञ्जाङ्गुलिकरांबुजाय नमः ।
ॐ झञाक्षराञ्चिताय नमः ।
ॐ टङ्काय नमः । (620)
ॐ टिट्टिभासनसंस्थिताय नमः ।
ॐ टीत्काराय नमः ।
ॐ टङ्कधारिणे नमः ।
ॐ ठःस्वरूपाय नमः ।
ॐ ठठाधिपाय नमः ।
ॐ डंभराय नमः ।
ॐ डामरवे नमः ।
ॐ डिण्डिने नमः ।
ॐ डामरीशाय नमः ।
ॐ डलाकृतये नमः । (630)
ॐ डाकिनीसेविताय नमः ।
ॐ डाढिने नमः ।
ॐ डढगुल्फाङ्गुलिप्रभाय नमः ।
ॐ णेशप्रियाय नमः ।
ॐ णवर्णेशाय नमः ।
ॐ णकारपदपंकजाय नमः ।
ॐ ताराधिपेश्वराय नमः ।
ॐ तथ्याय नमः ।
ॐ तन्त्रीवादनतत्पराय नमः ।
ॐ त्रिपुरेशाय नमः । (640)
ॐ त्रिनेत्रेशाय नमः ।
ॐ त्रयीतनवे नमः ।
ॐ अधोक्षजाय नमः ।
ॐ तामाय नमः ।
ॐ तामरसेष्टाय नमः ।
ॐ तमोहर्त्रे नमः ।
ॐ तमोरिपवे नमः ।
ॐ तन्द्राहर्त्रे नमः ।
ॐ तमोरूपाय नमः ।
ॐ तपसां फलदायकाय नमः । (650)
ॐ तुट्यादिकलनाकांताय नमः ।
ॐ तकाराक्षरभूषणाय नमः ।
ॐ स्थाणवे नमः ।
ॐ स्थलिने नमः ।
ॐ स्थिताय नमः ।
ॐ नित्याय नमः ।
ॐ स्थविराय नमः ।
ॐ स्थंडिलाय नमः ।
ॐ स्थिराय – स्थूलाय नमः ।
ॐ थकारजानवे नमः । (660)
ॐ अध्यात्मने नमः ।
ॐ देवनायकनायकाय नमः ।
ॐ दुर्जयाय नमः ।
ॐ दुःखघ्ने नमः ।
ॐ दात्रे नमः ।
ॐ दारिद्र्यच्छेदनाय नमः ।
ॐ दमिने नमः ।
ॐ दौर्भाग्यहर्त्रे नमः ।
ॐ देवेंद्राय नमः ।
ॐ द्वादशाराब्जमध्यगाय नमः । (670)
ॐ द्वादशांतैकवसतये नमः ।
ॐ द्वादशात्मने नमः ।
ॐ दिवस्पतये नमः ।
ॐ दुर्गमाय नमः ।
ॐ दैत्यशमनाय नमः ।
ॐ दूरगाय नमः ।
ॐ दुरतिक्रमाय नमः ।
ॐ दुर्ध्येयाय नमः ।
ॐ दुष्टवंशघ्नाय नमः ।
ॐ दयानाथाय नमः । (680)
ॐ दयाकुलाय नमः ।
ॐ दामोदराय नमः ।
ॐ दीधितिमते नमः ।
ॐ दकाराक्षरमातृकाय नमः ।
ॐ धर्मबंधवे नमः ।
ॐ धर्मनिधये नमः ।
ॐ धर्मराजाय नमः ।
ॐ धनप्रदाय नमः ।
ॐ धनदेष्टाय नमः ।
ॐ धनाध्यक्षाय नमः । (690)
ॐ धरादर्शाय नमः ।
ॐ धुरन्धराय नमः ।
ॐ धूर्जटीक्षणवासिने नमः ।
ॐ धर्मक्षेत्राय नमः ।
ॐ धराधिपाय नमः ।
ॐ धाराधराय नमः ।
ॐ धुरीणाय नमः ।
ॐ धर्मात्मने नमः ।
ॐ धर्मवत्सलाय नमः ।
ॐ धराभृद्वल्लभाय नमः । (700)
ॐ धर्मिणे नमः ।
ॐ धकाराक्षरभूषणाय नमः ।
ॐ नर्मप्रियाय नमः ।
ॐ नन्दिरुद्राय नमः ।
ॐ नेत्रे नमः ।
ॐ नीतिप्रियाय नमः ।
ॐ नयिने नमः ।
ॐ नलिनीवल्लभाय नमः ।
ॐ नुन्नाय नमः ।
ॐ नाट्यकृते नमः । (710)
ॐ नाट्यवर्धनाय नमः ।
ॐ नरनाथाय नमः ।
ॐ नृपस्तुत्याय नमः ।
ॐ नभोगामिने नमः ।
ॐ नमःप्रियाय नमः ।
ॐ नमोऽन्ताय नमः ।
ॐ नमितारातये नमः ।
ॐ नरनारायणाश्रयाय नमः ।
ॐ नारायणाय नमः ।
ॐ नीलरुचये नमः । (720)
ॐ नम्रांगाय नमः ।
ॐ नीललोहिताय नमः ।
ॐ नादरूपाय नमः ।
ॐ नादमयाय नमः ।
ॐ नादबिन्दुस्वरूपकाय नमः ।
ॐ नाथाय नमः ।
ॐ नागपतये नमः ।
ॐ नागाय नमः ।
ॐ नगराजाश्रिताय नमः ।
ॐ नगाय नमः । (730)
ॐ नाकस्थिताय नमः ।
ॐ अनेकवपुषे नमः ।
ॐ नकाराक्षरमातृकाय नमः ।
ॐ पद्माश्रयाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ पीवरांसाय नमः ।
ॐ पुटेश्वराय नमः ।
ॐ प्रीतिप्रियाय नमः ।
ॐ प्रेमकराय नमः ।
ॐ प्रणतार्तिभयापहाय नमः । (740)
ॐ परत्रात्रे नमः ।
ॐ पुरध्वंसिने नमः ।
ॐ पुरारये नमः ।
ॐ पुरसंस्थिताय नमः ।
ॐ पूर्णानन्दमयाय नमः ।
ॐ पूर्णतेजसे नमः ।
ॐ पूर्णेश्वरीश्वराय नमः ।
ॐ पटोलवर्णाय नमः ।
ॐ पटिम्ने नमः ।
ॐ पाटलेशाय नमः । (750)
ॐ परात्मवते नमः ।
ॐ परमेशवपुषे नमः ।
ॐ प्रांशवे नमः ।
ॐ प्रमत्ताय नमः ।
ॐ प्रणतेष्टदाय नमः ।
ॐ अपारपारदाय नमः ।
ॐ पीनाय नमः ।
ॐ पीतांबरप्रियाय नमः ।
ॐ पवये नमः ।
ॐ पाचनाय नमः । (760)
ॐ पिचुलाय नमः ।
ॐ प्लुष्टाय नमः ।
ॐ प्रमदाजनसौख्यदाय नमः ।
ॐ प्रमोदिने नमः ।
ॐ प्रतिपक्षघ्नाय नमः ।
ॐ पकाराक्षरमातृकाय नमः ।
ॐ भोगापवर्गस्यफलाय नमः ।
ॐ फलिनीशाय नमः ।
ॐ फलात्मकाय नमः ।
ॐ फुल्लदंभोजमध्यस्थाय नमः । (770)
ॐ फुल्लदंभोजधारकाय नमः ।
ॐ स्फुटज्ज्योतिषे – द्योतये नमः ।
ॐ स्फुटाकाराय नमः ।
ॐ स्फटिकाचलचारकाय नमः ।
ॐ स्फूर्जत्किरणमालिने नमः ।
ॐ फकाराक्षरपार्श्वकाय नमः ।
ॐ बालाय नमः ।
ॐ बलप्रियाय नमः ।
ॐ बान्ताय नमः ।
ॐ बिलध्वांतहराय नमः । (780)
ॐ बलिने नमः ।
ॐ बालादये नमः ।
ॐ बर्बरध्वंसिने नमः ।
ॐ बब्बोलामृतपानकाय नमः ।
ॐ बुधाय नमः ।
ॐ बृहस्पतये नमः ।
ॐ वृक्षाय नमः ।
ॐ बृहदश्वाय नमः ।
ॐ बृहद्गतये नमः ।
ॐ बपृष्ठाय नमः । (790)
ॐ भीमरूपाय नमः ।
ॐ भामयाय नमः ।
ॐ भेश्वरप्रियाय नमः ।
ॐ भगाय नमः ।
ॐ भृगवे नमः ।
ॐ भृगुस्थायिने नमः ।
ॐ भार्गवाय नमः ।
ॐ कविशेखराय नमः ।
ॐ भाग्यदाय नमः ।
ॐ भानुदीप्ताङ्गाय नमः । (800)
ॐ भनाभये नमः ।
ॐ भमातृकाय नमः ।
ॐ महाकालाय नमः ।
ॐ महाध्यक्षाय नमः ।
ॐ महानादाय नमः ।
ॐ महामतये नमः ।
ॐ महोज्ज्वलाय नमः ।
ॐ मनोहारिणे नमः ।
ॐ मनोगामिने नमः ।
ॐ मनोभवाय नमः । (810)
ॐ मानदाय नमः ।
ॐ मल्लघ्ने नमः ।
ॐ मल्लाय नमः ।
ॐ मेरुमन्दरमन्दिराय नमः ।
ॐ मंदारमालाभरणाय नमः ।
ॐ माननीयाय नमः ।
ॐ मनोमयाय नमः ।
ॐ मोदिताय नमः ।
ॐ मदिराहाराय नमः ।
ॐ मार्ताण्डाय नमः । (820)
ॐ मुण्डमुण्डिताय नमः ।
ॐ महावराहाय नमः ।
ॐ मीनेशाय नमः ।
ॐ मेषगाय नमः ।
ॐ मिथुनेष्टदाय नमः ।
ॐ मदालसाय नमः ।
ॐ अमरस्तुत्याय नमः ।
ॐ मुरारिवरदाय नमः ।
ॐ मनवे नमः ।
ॐ माधवाय नमः । (830)
ॐ मेदिनीशाय नमः ।
ॐ मधुकैटभनाशनाय नमः ।
ॐ माल्यवते नमः ।
ॐ मेघनाय नमः ।
ॐ माराय नमः ।
ॐ मेधाविने नमः ।
ॐ मुसलायुधाय नमः ।
ॐ मुकुन्दाय नमः ।
ॐ मुररीशानाय नमः ।
ॐ मरालफलदाय नमः । (840)
ॐ मदाय नमः ।
ॐ मोदनाय मदनाय नमः ।
ॐ मोदकाहाराय नमः ।
ॐ मकाराक्षरमातृकाय नमः ।
ॐ यज्वने नमः ।
ॐ यज्ञेश्वराय नमः ।
ॐ यांताय नमः ।
ॐ योगिनांहृदयस्थिताय नमः ।
ॐ यात्रिकाय नमः ।
ॐ यज्ञफलदाय नमः । (850)
ॐ यायिने नमः ।
ॐ यामलनायकाय नमः ।
ॐ योगनिद्राप्रियाय नमः ।
ॐ योगकारणाय नमः ।
ॐ योगिवत्सलाय नमः ।
ॐ यष्टिधारिणे नमः ।
ॐ यन्त्रेशाय नमः ।
ॐ योनिमंडलमध्यगाय नमः ।
ॐ युयुत्सुजयदाय नमः ।
ॐ योद्ध्रे नमः । (860)
ॐ युगधर्मानुवर्तकाय नमः ।
ॐ योगिनीचक्रमध्यस्थाय नमः ।
ॐ युगलेश्वरपूजिताय नमः ।
ॐ यान्ताय नमः ।
ॐ यक्षैकतिलकाय नमः ।
ॐ यकाराक्षरभूषणाय नमः ।
ॐ रामाय नमः ।
ॐ रमणशीलाय नमः ।
ॐ रत्नभानवे नमः ।
ॐ उरुप्रियाय नमः । (870)
ॐ रत्नमौलिने नमः ।
ॐ रत्नतङ्गाय नमः ।
ॐ रत्नपीठान्तरस्थिताय नमः ।
ॐ रत्नांशुमालिने नमः ।
ॐ रत्नाढ्याय नमः ।
ॐ रत्नकंकणनूपुराय नमः ।
ॐ रत्नांगदलसद्बाहवे नमः ।
ॐ रत्नपादुकामंडिताय नमः ।
ॐ रोहिणीशाश्रयाय नमः ।
ॐ रक्षाकराय नमः । (880)
ॐ रात्रिञ्चरान्तकाय नमः ।
ॐ रकाराक्षररूपाय नमः ।
ॐ लज्जाबीजाश्रिताय नमः ।
ॐ लवाय नमः ।
ॐ लक्ष्मीभानवे नमः ।
ॐ लतावासिने नमः ।
ॐ लसत्कान्तये नमः ।
ॐ लोकभृते नमः ।
ॐ लोकांतकहराय नमः ।
ॐ लामावल्लभाय नमः । (890)
ॐ लोमशाय नमः ।
ॐ अलिगाय नमः ।
ॐ लिङ्गेश्वराय नमः ।
ॐ लिंगनादाय नमः ।
ॐ लीलाकारिणे नमः ।
ॐ ललंबुसाय नमः ।
ॐ लक्ष्मीवते नमः ।
ॐ लोकविध्वंसिने नमः ।
ॐ लकाराक्षरभूषणाय नमः ।
ॐ वामनाय नमः । (900)
ॐ वीरवीरेन्द्राय नमः ।
ॐ वाचालाय नमः ।
ॐ वाक्पतिप्रियाय नमः ।
ॐ वाचामगोचराय नमः ।
ॐ वान्ताय नमः ।
ॐ वीणावेणुधराय नमः ।
ॐ वनाय नमः ।
ॐ वाग्भवाय नमः ।
ॐ वालिशध्वंसिने नमः ।
ॐ विद्यानायकनायकाय नमः । (910)
ॐ वकारमातृकामौलये नमः ।
ॐ शांभवेष्टप्रदाय नमः ।
ॐ शुकाय नमः ।
ॐ शशिने नमः ।
ॐ शोभाकराय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्तिकृते नमः ।
ॐ शमनप्रियाय नमः ।
ॐ शुभङ्कराय नमः ।
ॐ शुक्लवस्त्राय नमः । (920)
ॐ श्रीपतये नमः ।
ॐ श्रीयुताय नमः ।
ॐ श्रुताय नमः ।
ॐ श्रुतिगम्याय नमः ।
ॐ शरद्बीजमण्डिताय नमः ।
ॐ शिष्टसेविताय नमः ।
ॐ शिष्टाचाराय नमः ।
ॐ शुभाचाराय नमः ।
ॐ शेषाय नमः ।
ॐ शेवालताडनाय नमः । (930)
ॐ शिपिविष्टाय नमः ।
ॐ शिबये नमः ।
ॐ शुक्रसेव्याय नमः ।
ॐ शाक्षरमातृकाय नमः ।
ॐ षडाननाय नमः ।
ॐ षट्करकाय नमः ।
ॐ षोडशस्वरभूषिताय नमः ।
ॐ षट्पदस्वनसन्तोषिने नमः ।
ॐ षडाम्नायप्रवर्तकाय नमः ।
ॐ षड्रसास्वादसन्तुष्टाय नमः । (940)
ॐ षकाराक्षरमातृकाय नमः ।
ॐ सूर्यभानवे नमः ।
ॐ सूरभानवे नमः ।
ॐ सूरिभानवे नमः ।
ॐ सुखाकराय नमः ।
ॐ समस्तदैत्यवंशघ्नाय नमः ।
ॐ समस्तसुरसेविताय नमः ।
ॐ समस्तसाधकेशानाय नमः ।
ॐ समस्तकुलशेखराय नमः ।
ॐ सुरसूर्याय नमः । (950)
ॐ सुधासूर्याय नमः ।
ॐ स्वःसूर्याय नमः ।
ॐ साक्षरेश्वराय नमः ।
ॐ हरित्सूर्याय नमः ।
ॐ हरिद्भानवे नमः ।
ॐ हविर्भुजे नमः ।
ॐ हव्यवाहनाय नमः ।
ॐ हालासूर्याय नमः ।
ॐ होमसूर्याय नमः ।
ॐ हुतसूर्याय नमः । (960)
ॐ हरीश्वराय नमः ।
ॐ ह्रांबीजसूर्याय नमः ।
ॐ ह्रींसूर्याय नमः ।
ॐ हकाराक्षरमातृकाय नमः ।
ॐ ळंबीजमंडिताय नमः ।
ॐ सूर्याय नमः ।
ॐ क्षोणीसूर्याय नमः ।
ॐ क्षमापतये नमः ।
ॐ क्षुत्सूर्याय नमः ।
ॐ क्षान्तसूर्याय नमः । (970)
ॐ ळंक्षःसूर्याय नमः ।
ॐ सदाशिवाय नमः ।
ॐ अकारसूर्याय नमः ।
ॐ क्षःसूर्याय नमः ।
ॐ सर्वसूर्याय नमः ।
ॐ कृपानिधये नमः ।
ॐ भूःसूर्याय नमः ।
ॐ भुवःसूर्याय नमः ।
ॐ स्वःसूर्याय नमः ।
ॐ सूर्यनायकाय नमः । (980)
ॐ ग्रहसूर्याय नमः ।
ॐ ऋक्षसूर्याय नमः ।
ॐ लग्नसूर्याय नमः ।
ॐ महेश्वराय नमः ।
ॐ राशिसूर्याय नमः ।
ॐ योगसूर्याय नमः ।
ॐ मन्त्रसूर्याय नमः ।
ॐ मनूत्तमाय नमः ।
ॐ तत्त्वसूर्याय नमः ।
ॐ परासूर्याय नमः । (990)
ॐ विष्णुसूर्याय नमः ।
ॐ प्रतापवते नमः ।
ॐ रुद्रसूर्याय नमः ।
ॐ ब्रह्मसूर्याय नमः ।
ॐ वीरसूर्याय नमः ।
ॐ वरोत्तमाय नमः ।
ॐ धर्मसूर्याय नमः ।
ॐ कर्मसूर्याय नमः ।
ॐ विश्वसूर्याय नमः ।
ॐ विनायकाय नमः । (1000)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने नैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री आदित्य हृदय स्तोत्रम् – श्रीमद्रामायणे ॥
Click to show/hide
ॐ अस्य श्रीआदित्यहृदयस्तोत्रमन्त्रस्य श्रीअगस्त्यऋषिः (शिरसि)।
अनुष्टुप् छन्दः (मुखे) । श्रीआदित्यहृदयभूतो भगवान् ब्रह्मा देवताः (हृदये) ।
ॐ बीजं (गुह्ये)। रश्मिमतेरिति शक्तिः (पादयोः)। ॐ तत्सवितुरित्यादिगायत्री कीलकं (नाभौ) ।
निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।
करन्यासः
ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः ।
ॐ समुद्यते तर्जनीभ्यां नमः ।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः ।
ॐ विवस्वते अनामिकाभ्यां नमः ।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः ।
ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ॐ रश्मिमते हृदयाय नमः ।
ॐ समुद्यते शिरसे स्वाहा ।
ॐ देवासुरनमस्कृताय शिखायै वषट् ।
ॐ विवस्वते कवचाय हुम् ।
ॐ भास्कराय नेत्रत्रयाय वौषट् ।
ॐ भुवनेश्वराय अस्त्राय फट् ।
ॐ भूर्भुवसुरवों इति दिगबन्धः ॥
ॐ ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ 2 ॥
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ 3 ॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥ 4 ॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ॥ 5 ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6 ॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ 7 ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ 8 ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ 9 ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ 10 ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ 11 ॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः ॥ 13 ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥ 14 ॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ 15 ॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ 21 ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ 23 ॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥
फलश्रुतिः
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ 25 ॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ 27 ॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ 28 ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ 31 ॥
॥ इति श्रीमद्रामायणे श्रीअगस्त्य कृत श्री आदित्य हृदय स्तोत्रं संपूर्णम् ॥
॥ श्री सूर्य कवच स्तोत्रम् ॥
Click to show/hide
अस्य श्री सूर्यकवच महामन्त्रस्य अगस्त्य ऋषिः ।
अनुष्टुप् छन्दः । आदित्यो देवता ।
श्रीं बीजं । णीं शक्तिः । सूं कीलकं ।
मम आदित्य प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम्
जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम् ।
सिन्दूराम्बरमाल्यं च रक्तगन्धानुएपनम् ॥ 1 ॥
माणिक्यरत्नखचित सर्वाभराण भूषितम् ।
सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥ 2 ॥
देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।
ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा ॥ 3 ॥
घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥ 4 ॥
घ्राणं पातु सदा भानुः मुखं पातु सदा रविः ।
जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥ 5 ॥
स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
करावब्जकरः पातु हृदयं पातु भानमान् ॥ 6 ॥
मध्यं पातु सुसप्ताश्वो नाभिं पातु नभोमणिः ।
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ॥ 7 ॥
ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः ।
जङ्घे मे पातु मार्ताण्डः गुल्फौ पातु त्विषांपतिः ॥ 8 ॥
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ।
आदित्य कवचं पुण्यं अभेद्यं वज्रसन्निभम् ॥ 9 ॥
संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
अनेक रत्नसंयुक्तं स्वर्णमाणिक्यसन्निभम् ॥ 10 ॥
कल्पवृक्षसमाकीर्णं कदंबकुसुमप्रियम् ।
अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ॥ 11 ॥
सिन्दूरवर्णाय सुमण्डलाय सुवर्णरत्नाभरणय तुभ्यम् ।
पद्मादिनेत्रे च सुपङ्कजाय ब्रह्मेन्द्रनारायणशङ्कराय ॥ 12 ॥
संरक्तचूर्णं ससुवर्णतोयं सकुंकुमाभं सकुशं सपुष्पम् ।
प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद ॥ 13 ॥
॥ इति श्री पद्मपुराणे आदित्य कवचं संपूर्णम् ॥
॥ श्री आदित्याष्टकम् ॥
Click to show/hide
उदयाद्रिमस्तकमहामणिं लसत्-
कमलाकरैकसुहृदं महौजसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 1 ॥
तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 2 ॥
दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 3 ॥
श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 4 ॥
शुकपक्षतुण्डसदृशाश्वमण्डलं
अचलावरोहपरिगीतसाहसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 5 ॥
श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 6 ॥
श्रितभक्तवत्सलमशेषकल्मष-
क्षयहेतुमक्षयफलप्रदायिनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 7 ॥
अहमन्वहं सतुरगक्षताटवी
शतकोटिहालकमहामहीधनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ 8 ॥
इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः ।
स विमुच्यते सकलरोगकल्मषैः
सवितुस्समीपमपि सम्यगाप्नुयात् ॥ 9 ॥
॥ इति श्री आदित्य अष्टकं संपूर्णम् ॥