॥ श्रीशङ्करनारायण पूजा विधानम् ॥
॥ श्रीशङ्करनारायण महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्रीशङ्करनारायण महामन्त्रस्य नारायण ऋषिः (शिरसि)।
अनुष्टुप् छन्दः (मुखे) । श्रीहरिहरो देवता (हृदये)॥
ह्रां बीजं (गुह्ये) । ह्रीं शक्तिः (पादयोः) । ह्रूं कीलकं (नाभौ) ।
मम श्रीशङ्करनारायण प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्ररयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानं –
शूलं चक्रं पाञ्जजन्यमभीतिं दधतं करैः ।
स्वस्वरूपाद्यनीलार्धदेहं हरिहरं भजे ॥
अन्य ध्यानं –
ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्
बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् ।
व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं
गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
मूलं – ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ ॥ (षोडशाक्षरी) (108 वारं)
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्ररयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानं –
शूलं चक्रं पाञ्जजन्यमभीतिं दधतं करैः ।
स्वस्वरूपाद्यनीलार्धदेहं हरिहरं भजे ॥
अन्य ध्यानं –
ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्
बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् ।
व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं
गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
॥ श्री शङ्करनारायण आवरण पूजा क्रमः ॥
Click to show/hide
पीठपूजा –
ॐ ह्रीं हौं वामायै नमः ।
ॐ ह्रीं हौं ज्येष्ठायै नमः ।
ॐ ह्रीं हौं रौद्र्यै नमः ।
ॐ ह्रीं हौं काळ्यै नमः ।
ॐ ह्रीं हौं कलविकरिण्यै नमः ।
ॐ ह्रीं हौं बलविकरिण्यै नमः ।
ॐ ह्रीं हौं बलप्रमथिन्यै नमः ।
ॐ ह्रीं हौं सर्वभूतदमन्यै नमः ।
ॐ ह्रीं हौं मनोन्मन्यै नमः ।
ॐ नमो भगवते सकलगुणात्मकशक्तियुक्ताय अनन्ताय योगपीठात्मने नमः ।
ध्यानं –
शूलं चक्रं पाञ्जजन्यमभीतिं दधतं करैः ।
स्वस्वरूपाद्यनीलार्धदेहं हरिहरं भजे ॥
दक्षोर्ध्वादि तदधोन्तमायुध ध्यानं ॥
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि त्रिशूल चक्र शङ्ख अभय मुद्रां प्रदर्श्य ।
ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
षोडश उपचार पूजा –
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । आसनं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । वस्त्राणि कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । आभरणानि कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । दिव्य परिमल गन्धं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । पुष्पाक्षतानि कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । धूपं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । दीपं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । नैवेद्यं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायणाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परेदेव परामृतरुचिप्रिय ।
अनुज्ञां देहि हरिहर परिवारार्चनाय मे ॥
षडङ्ग तर्पणम् –
ह्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ह्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम् –
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम् – बिन्दौ
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
द्वितीयावरणम् – षट्कोणे
ॐ ह्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः द्वितियावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तृतीयावरणम् – अष्टदलपद्मे
ॐ ह्रीं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं नारायण्यै नमः । नारायणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भूम्यै नमः । भूमी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं धरायै नमः । धरा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अम्बिकायै नमः । अम्बिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं त्र्यम्बकायै नमः । त्र्यम्बका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं गौर्यै नमः । गौरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं गङ्गायै नमः । गङ्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं धर्मायै नमः । धर्मा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तुरीयावरणम् – भूपुरे
ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षां निर्ऋतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चमावरणम् – भुपुरस्य बहिः
वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं ह्रौं शङ्करनारायणाय नमः ह्रौं ह्रीं ॐ । श्री शङ्करनारायण श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्री शङ्करनारायण प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
॥ श्री शङ्करनारायण सहस्रनाम स्तोत्रम् ॥
Click to show/hide
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
श्री सूत उवाच –
अथातः संप्रवक्ष्यामि श्रुणुत श्रद्धया द्विजाः ।
अत्यद्भुतमिदं स्तोत्रं रहस्यं सर्वकामदम् ॥ 1 ॥
शङ्करः श्रीशयोर्दिव्यनामसाहस्रमुत्तमम् ।
सर्वविद्याप्रदं पुण्यं चतुर्वर्गफलप्रदम् ॥ 2 ॥
शिवकेशवयोरैक्यमिच्छते क्रोडयोगिने ।
नारदः प्रोक्तवान् पूर्वं समन्त्रं सरहस्यकम् ॥ 3 ॥
देवर्षिरेकदाभ्यागात्क्रीडाश्रममनुत्तमम् ।
पुण्यं शुक्तिमतीतीरे दिव्याश्रमसमाकुले ॥ 4 ॥
क्रोडः क्रोडीकृततपः सम्पूज्य विधिवन्मुनिम् ।
सुखोपविष्टमुदितमिदं वचनमब्रवीत् ॥ 5 ॥
क्रोड ऋषिरुवाच –
धन्योऽस्मि कृतकृत्योऽस्मि भवदागमनेन हि ।
जीवितं सफलं मेद्य तपश्च सफलं श्रुतम् ॥ 6॥
भगवन् ब्रूहि सर्वज्ञ यदा हरिहरा उभौ ।
एकाकारेण भवतः साक्षात् क्षेत्रं महामुने ॥ 7॥
अभेदविद्यादानेन कृपयानुगृहाण माम् ।
इति संप्रार्थितस्तेन नारदः प्राहतं मुनिम् ॥ 8॥
कस्यापि न मया प्रोक्तं तथाप्युपदिशामि ते ।
सर्वलोकहितार्थाय सद्यः प्रत्ययकारकम् ॥ 9॥
गोपनीयं प्रयत्नेन न देयं यस्यकस्यचित् ।
विचार्य भक्तियुक्ताय शिष्याय हितकारिणे ॥ 10॥
यथोक्तकारिणा देयं नित्यं श्रद्धानुशालिने ।
क्षिप्रसिद्धिकरं पुण्यं सर्वरोगैकभेषजम् ॥ 11॥
स्कन्दाय कथितं पूर्वं कैलासे त्रिपुरारिणा ।
सनत्कुमारेण तथा प्राप्तं तस्मान् महामुने ॥ 12॥
सम्मेळितं महामन्त्रं द्वादशाक्षरविद्यया ।
नाम्नां सहस्रं परमं शिवविष्णोर्महात्मनोः ॥ 13॥
तदहं ते प्रवक्ष्यामि लोकानां हितकाम्यया ।
सर्वाभीष्टप्रदं दिव्यमभेदं ज्ञानदं मुने ॥ 14॥
शिवकेशवयोः साक्षादेकाकारप्रदर्शनम् ।
दिव्यं नामसहस्रं तु चादौ श्रुणु महामुने ॥ 15॥
ऋषिर्ब्रह्मा च भगवान् छन्दोनुष्टुप् प्रकीर्तितम् ।
वामभागाङ्कितश्रीश शङ्करो देवता स्वयम् ॥ 16॥
विनियोगश्च धर्मार्थकाममोक्षफलोदये ।
मूलमन्त्रपदैर्न्यासं कृत्वा देवं विचिन्तयेत् ॥ 17॥
ॐ अस्य श्रीशङ्करनारायण सहस्रनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।
अनुष्टुप् छन्दः (मुखे)। श्रीशङ्करनारायणो देवता (हृदये)।
मम श्रीशङ्करनारायण प्रसादसिद्ध्यर्थे सहस्रनामस्तोत्र जपे विनियोगः (सर्वाङ्गे) ।
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्ररयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम् –
ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्
बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् ।
व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं
गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
ब्रह्मोवाच –
ॐ शङ्करः श्रीधरः श्रीदः श्रीकरः श्रीदबान्धवः ।
श्रीवत्सकौस्तुभधरः श्रीनाथाङ्गपरिष्कृतः ॥ 1॥
श्रीसदोपास्यपादाब्जः श्रीनिधिः श्रीविभावनः ।
श्रीकण्ठः शाश्वतः शान्तः शार्ङ्गी शर्वःशुभोदयः ॥ 2॥
शशाङ्कशेखरः श्यामः शूली शङ्खधरः शिवः ।
शुचिः शुचिकरः श्रीमान् शरणागतपालकः ॥ 3॥
शिपिविष्टः शिवनुतः शेषशायी शुभङ्करः ।
शिवेतरघ्नः शान्तात्मा शान्तिदः शक्तिभृत्पिता ॥ 4॥
श्रुतिगम्यश्यतधृतिः शतानन्दः श्रुतिस्थितिः ।
शम्बरारिपिता शूरः शासिताशेषपातकः ॥ 5॥
शबरः शिवदः शिष्टः शिष्टेष्टः शिष्टरक्षकः ।
शरण्यः शरजन्मात्मा शशाङ्कर्न्यर्ककोटिभः ॥ 6॥
शर्वरीशधरः शौरिः शिशिरः श्रोत्रियप्रियः ।
शम्भुः शक्रार्तिहरणः शैलावासः शुचिस्मितः ॥ 7॥
शिवारम्भः शिवतमः शरभः शैशवाकृतिः ।
शरद्घनसमच्छायः शिशुपालशिरोहरः ॥ 8॥
षडक्षरात्मा पट्कोणः सुदर्शनकराम्बुजः ।
षड्भावधर्मरहितः पड्गुणैश्वर्यसंयुतः ॥ 9॥
षडङ्गरूपी पट्कोशः षट्त्रिंशः षण्मुखाश्रयः ।
षोडशस्त्रीप्रियः पड्जप्रमुखः स्वररञ्जितः ॥ 10॥
पड्विंशकः षडाधारनिलयः पट्कलात्मकः ।
सर्वज्ञः सर्वगः साक्षी सर्वपूज्यः सुरेश्वरः ॥ 11॥
सर्वगः सर्वभृत्सर्वः सर्वेशः सर्वशक्तिमान् ।
सर्वाधारः सर्वसारः सर्वात्मा सर्वभावनः ॥ 12॥
सर्वावासः सर्वशास्ता सर्वदृक्सर्वतोमुखः ।
सर्वजित् सर्वतोभद्रः सर्वार्थः सर्वदुःखहा ॥ 13॥
सर्वानन्दस्सर्वरूपः सारङ्गः सर्वकारणः ।
सर्वातिशायी सूत्रात्मा सूत्रकृत् सद्गुणःसुखी ॥ 14॥
सूक्ष्मः सौदामिनीकान्तः सिन्धुशायी सनातनः ।
सङ्कर्षणः सुरसखः स्वर्णदीजनकः स्वराट् ॥ 15॥
सेव्यसेवितपादाब्जः सत्यगोप्ता सदात्मकः ।
सम्पत्प्रदः समः सत्यसङ्कल्पः सत्यकामहा ॥ 16॥
सत्यसन्धः सत्यरूपी सत्यवेद्यस्सदागतिः ।
स्थाणुः सत्येश्वरः स्थूलः स्थविष्ठः सुभगः स्थिरः ॥ 17॥
समुद्रः सम्मतः स्वामी सर्वपातकभञ्जनः ।
स्मृताघहारी सौभाग्यदायकः सदसत्पतिः ॥ 18॥
स्वर्णाध्यक्षः स्वर्णभूषः स्वाहाकारः सुधाकरः ।
सन्ध्यारुणजटाजूटः संसारार्णवतारकः ॥ 19॥
स्तुत्यः सभापतिः स्वस्थः सुधांशुरविलोचनः ।
सरसीरुहमध्यस्थः सुन्दरः सुन्दरीश्वरः ॥ 20॥
सुधाकुम्भधरस्सोमः सर्वव्यापी सदाशिवः ।
सर्ववेदान्तसंवेद्यः सुशीलः साधुकीर्तिदः ॥ 21॥
सुदर्शनः सुखकरः सुमनाः सूर्यतापनः ।
साम्बस्सोमधरः सौम्यः सम्भाव्यः स्वस्तिकृत् स्वरः ॥ 22॥
सहस्रशीर्षा सुमुखः सहस्राक्षः सहस्रपात् ।
स्वभक्तजनकल्याणः सर्वलोकेश्वरेश्वरः ॥ 23॥
सुवर्णः सूर्यबिम्बस्थः सत्यः संवत्सरात्मकः ।
सर्वास्त्रधारी सङ्ग्रामविजयी सर्वशास्त्रवित् ॥ 24॥
सहस्रबाहुः सरसः सर्वसत्वावलम्बनः ।
स्वभूः सीतापतिः सूरिः सर्वशास्त्रार्थकोविदः ॥ 25॥
स्वभावोदारचरितः सच्चिदानन्दविग्रहः ।
सरीसृपेन्द्रकटकः सुरेन्द्रात्मजसारथिः ॥ 26॥
सर्वंसहः सर्वधामा सनकादिमुनीडितः ।
स्मरारिः स्मेरवदनः सृष्टिस्थित्यन्तकारणः ॥ 27॥
सैरन्ध्रीपूजितपदः सामगानाधिकप्रियः ।
सिन्धुरेन्द्राजिनधरः सीरपाणिः समीरणः ॥ 28॥
सद्गतिः सङ्गरहितः साधुकृत् सत्पतीश्वरः ।
हंसो हरिःहयारूढो हृषीकेशो हविष्पतिः ॥ 29॥
हिरण्यगर्भभूर्होता हविर्भोक्ता हिरण्मयः ।
हरिकेशो हरोहारी हव्यवाहो हरीश्वरः ॥ 30॥
हर्यक्षरूपी हितकृत् हयग्रीवो हतान्तकः ।
हरित्पालो हिरण्याक्षरिपुर्हरिहरात्मकः ॥ 31॥
हस्तीन्द्रवरदो हंसवाहनो हरिणाङ्कधृक् ।
हेमांशुको हेममाली हेमाङ्गो हेमकुण्डलः ॥ 32॥
हालाहलाङ्कितगळो हली हानिविवर्जितः ।
ळपञ्चलक्षभूतेशो ळाप्तेजोवायुखेश्वरः ॥ 33॥
क्षमाभृत् क्षपणः क्षेमः क्षेत्रज्ञः क्षेत्रनायकः ।
क्षौमाम्बरः क्षौद्रवाक्च क्षाळिताघः क्षितीश्वरः ॥ 34॥
क्षेमङ्करः क्ष्वेळहरः क्षीराम्बुनिधिकेतनः ।
अनन्तलक्षणोनन्तोस् नीशोस् नीहोस् व्ययोपरः ॥ 35॥
अतीन्द्रियो भयोस्चिन्त्योस्चलोद्भुत पराक्रमः ।
अणिमादिगुणाधारोस्ग्रगण्योस्चिन्त्यशक्तिमान् ॥ 36॥
अभिरामोस्नवद्याङ्गोस्निर्देश्योस्मृतविग्रहः ।
अजोद्रितनयानाथोस्प्रमेयोस्मित विक्रमः ॥ 37॥
अशेषदेवतानाथो घोरोस्विद्याधिनाशनः ।
अप्रतर्क्योपरिच्छेद्योजातः शत्रुरनामयः ॥ 38॥
अनादिमध्यनिधनोस्नङ्गशत्रुरधोक्षजः ।
अकल्मषोभिरूपोभिरामोस्नर्घ्य गुणोस्च्युतः ॥ 39॥
अकारादिक्षकारान्तमातृकावीतविग्रहः ।
आनन्दरूप आनन्द आनन्दघन आश्रयः ॥ 40॥
आराध्य आयतापाङ्ग आपन्नार्तिविनाशनः ।
इन्द्रादिदेवताधीश इष्टापूर्तिफलप्रदः ॥ 41॥
इतिहासपुराणज्ञ इच्छाशक्तिपरायणः ।
इळापतिरिळानाथ इन्दिराजानिरिन्दुभाः ॥ 42॥
इन्दीवरदळश्याम इद्धतेजा इभाननः ।
ईश ईश्वर ईशान ईतिभीतिनिवारणः ॥ 43॥
ईक्षाकृतजगत्सृष्टिरीड्य ईहाविवर्जितः ।
उत्कृष्टशक्तिरुत्कृष्ट उदिताम्बरमार्गणः ॥ 44॥
उपेन्द्र उरगाकल्प उत्पत्तिस्थितिनाशकृत् ।
उमापतिरादाराङ्ग उष्ण उत्पत्तिवर्जितः ॥ 45॥
उष्णांशुरुज्वलगुण उन्नतांस उरुक्रमः ।
उपप्लवभिदुद्गीथ उमाप्रिय उदद्रवः ॥ 46॥
उत्साहशक्तिरुद्दामकीर्तिरुद्धृतभूधरः ।
ऊर्ध्वरेता ऊर्ध्वपदः ऊर्वीकृतचराचरः ॥ 47॥
ऋद्धिकर्ता ऋतुकरो ऋणत्रयविमोचनः ।
ऋग्यजुःसामवेदात्मा ऋजुमार्गप्रदर्शनः ॥ 48॥
एक एकान्तनिलय एजिताशेषपातकः ।
एणाङ्कचूड एकात्मा एधनीयस्सुखाकरः ॥ 49॥
ऐङ्कार ऐश्वर्यकर ऐहिकामुष्मिकप्रदः ।
ओङ्कारमूर्तिरोङ्कार ओङ्कारार्थप्रकाशकः ॥ 50॥
औदार्यनिधिरौन्नत्यप्रद औषधनायकः ।
अम्बिकापतिरम्भोजदृगम्बुजसमद्युतिः ॥ 51॥
अञ्जनासुतसेनव्याङ्घ्रिरन्धकष्नोङ्गदाश्रयः ।
अम्बरात्माङ्गनार्था0गो अम्बरीषवरप्रदः ॥ 52॥
अस्थिमालोक्षयनिधिरष्टैश्वर्यप्रदोक्षरः ।
अष्टाङ्गयोगसाध्योष्टमूर्तिरष्टवसुस्तुतः ॥ 53॥
कपर्दी कौस्तुभधरः कालकालः कलानिधिः ।
कर्पूरधवळः कृष्णः कपाली कंसमर्दनः ॥ 54॥
कैलासवासी कमठः कृत्तिवासः कृपानिधिः ।
कामेशः केशवः कुल्यः कैवल्यफलदायकः ॥ 55॥
कुबेरबन्धुः कौन्तेयसारथिः कनकार्चितः ।
कैटभारिः क्रतुध्वंसी क्रतुभुक्क्रतुपालकः ॥ 56॥
कल्पहारहितः कर्ता कर्मबन्धहरः कृतिः ।
कोदण्डपाणिः कवची कुण्डलीकळभूषणः ॥ 57॥
किरातविग्रहः कल्की किङ्किणीजालभूषणः ।
कौशेयवसनः क्रान्तः कुशलः कीर्तिवर्धनः ॥ 58॥
कृशानुरेताः काळीयभञ्जनः क्षेशनाशनः ।
कदम्बवासी कल्याणदायी कमललोचनः ॥ 59॥
कुप्यः कुक्षिस्थभुवनः क्रान्ताशेषचराचरः ।
कोटिवैश्रवणश्रीदः कोटिमन्मथसुन्दरः ॥ 60॥
कोटीन्दुजगदानन्दी कोटिब्रह्माण्डपालकः ।
कोटिसूर्यप्रतीकाशः कोटियज्ञ समाह्वयुः ॥ 61॥
कोटिब्रह्मसृगैश्वर्यः कोटिशक्तिपरीवृतः ।
खण्डेन्दुशेखरः खण्डी खट्वाङ्गी खगवाहनः ॥ 62॥
ख्यातितः ख्यातिमान् खस्थः खेचरः खेचरेडितः ।
खरारिः खण्डपरशुः खण्डेन्दुनिटिलोज्वलः ॥ 63॥
खण्डितप्रणताघौघः खेदहृत् खेटकायुधः ।
गङ्गाधरो गिरिधरो गिरिध्वनी गदाधरः ॥ 64॥
गङ्गाप्रबोधो गोविन्दो गौरीशो गरुडध्वजः ।
गिरीशो गोपतिर्गोप्ता गोमान्तो गोक्षिगौरवः ॥ 65॥
गोवर्धनधरो गोप्यो गिरिबन्धुर्गुहाश्रयः ।
गम्भीरो गगनाकारो गद्यपद्यपरिष्कृतः ॥ 66॥
गरीयान् ग्रामणिर्गण्यो गोपालो गोधनप्रदः ।
गुरुर्गानप्रियो गोष्ठी गुणातीतो गुणाग्रणिः ॥ 67॥
गायत्रीवल्लभो गेयो गन्धर्वकुलवन्दितः ।
ग्रहपीडाहरो गोधो गतिभ्रष्टगतिपदः ॥ 68॥
घनाघनो घनश्यामो घण्टाकर्णवरप्रदः ।
घण्टाविभूषणो घोरो घस्मरो घसृणान्तकः ॥ 69॥
घृणीर्घृणानिधिर्घोषो घातिताखिलपातकः ।
घूर्णिताशेषभुवनो घटकेशो घृतप्रियः ॥ 70॥
ङान्तसारस्वरमयो ङान्तसामार्थतत्ववित् ।
चन्द्रपीडश्चन्द्रपाणिः चन्द्रकान्तश्चतुर्भुजः ॥ 71॥
चराचरपिता चण्डश्चण्डीशश्चण्डविक्रमः ।
चिद्रूपश्चेतनाधीशश्चिन्तितार्थप्रदायकः ॥ 72॥
चिरन्तनश्चिराराध्यश्चित्रवेषश्चिदम्बरः ।
चिद्घनश्चिन्मयश्चित्रः चिदानन्दश्चिदम्बुधिः ॥ 73॥
चन्द्रायुधश्चन्द्रमुखश्चन्द्रिकाधवळस्मितः ।
चित्रभानुश्चित्ररूपः चित्रवीर्यश्चराचरः ॥ 74॥
चित्रकर्माश्चित्रगतिः चन्द्रश्चाणूरमर्दनः ।
चतुरः चतुरास्येड्यः चतुर्वर्गफलप्रदः ॥ 75॥
चार्वङ्गश्चर्वणपरश्चारुचन्दनचर्चितः ।
चामीकरगृहान्तस्थश्चामरानिलसेवितः ॥ 76॥
चिन्तामणिश्छिन्नतपश्चूर्णितापन्महाचलः ।
छन्दोमयः छिन्नपाशः छन्दोगश्छिन्नसंशयः ॥ 77॥
छेदितासुरशस्त्रास्त्रः छेदिताखिलपातकः ।
छादितात्मप्रभावश्च छत्रीकृतफणीश्वरः ॥ 78॥
जगद्धर्ता जगद्भर्ता जगज्ज्येष्ठो जनार्दनः ।
जगत्प्राणो जगद्भाव्यो जगज्योतिर्जगन्मयः ॥ 79॥
जगद्भन्धुर्जगत्साक्षी जगदादिर्जगत्पतिः ।
जन्हुजालङ्कृतजटो जाह्नवीजनको जयः ॥ 80॥
जैत्रो जलन्धरहरो जरामृत्यु निवारणः ।
जानकीवल्लभो जेता जितक्रोधो जितेन्द्रियः ॥ 81॥
जितात्मा जितपञ्चेषुर्जितासुर्जीवितेश्वरः ।
जाड्यहारी जन्महरो ज्योतिर्मूर्तिर्जलेश्वरः ॥ 82॥
झल्लरीवाद्यमुदितो झषकेतनदर्पहा ।
ज्ञानगम्यो ज्ञानपालो ज्ञानात्मा ज्ञानसागरः ॥ 83॥
ज्ञातृज्ञानश्लेयरूपो ज्ञानदो ज्ञानदीपकः ।
टङ्काक्षसूत्रहस्ताब्जष्टङ्कीकृतरसातलः ॥ 84॥
ठकारयुक्तमन्त्रेड्यष्टान्तमन्त्रप्रसादकः ।
डमरुव्यसहस्ताग्रो डिम्बिकासुरनाशनः ॥ 85॥
डाकिनीगणसंवीतो डोलाखेलनलालसः ।
डिण्डीरपुञ्जधवळो डिण्डिमध्वनिसेवितः ॥ 86॥
ढक्कानिनादसंप्रीतो डुण्ढिविघ्नेशपूजितः ।
णपञ्चलक्षसंप्रीतो णान्तव्याकरणार्थवित् ॥ 87॥
त्रिगुणात्मा त्रिकालज्ञस्त्रिपुरारिविक्रमः ।
त्रिलोचनस्तीर्थपादास्त्रिलोकेशस्त्रयीमयः ॥ 88॥
त्रयीवेद्यस्त्रयीश्वासस्त्रिशूली तार्क्ष्यकेतनः ।
तेजोमण्डलदुर्धर्षस्तापत्रयनिवारणः ॥ 89॥
स्तुत्यः स्तोत्रप्रियस्तुष्टस्तपस्तोमफलप्रदः ।
तपनस्तापसस्तापहारी तापसवल्लभः ॥ 90॥
तारकस्ताटङ्कारातिस्तारकब्रह्ममन्त्रवित् ।
थबीजमन्त्रसन्तुष्टस्थवर्णप्रतिपादकः ॥ 91॥
दुर्वासा दौपदीवन्द्यो दुःखाब्दि बडबानलः ।
दैत्यारिर्दक्षिणामूर्तिर्दुग्धाम्भोनिधिसंश्रयः ॥ 92॥
दारिद्र्यवनदावाग्निर्दत्तात्रेयो दुरासदः ।
देवदेवो दृढप्रज्ञोदान्तो दुर्लभदर्शनः ॥ 93॥
दामोदरो दानशीलो दयाळुर्दीनवत्सलः ।
दक्षो दक्षाध्वरध्वंसी दुःशासनकुलान्तकः ॥ 94॥
दुरन्तमहिमा दूरो दुष्पारो दुष्ट्रधर्षणः ।
दुर्ज्ञेयो दुर्जयो दीर्घबाहुर्दुष्टनिबर्हणः ॥ 95॥
दिगीशो दितिसम्पूज्यो दिग्वासा दिविषस्पतिः ।
दशकण्ठासुरश्रेणिपूजिताङ्घ्रिसरोरुहः ॥ 96॥
दण्डकारण्यसञ्चारी दण्डपाणिसमर्चितः ।
दण्डितासुरदोर्दण्डो दशश्चन्दननन्दनः ॥ 97॥
दहराकाशमध्यस्थो देहकृद्भयनाशनः ।
दरहासो दयामूर्तिर्दिव्यकीर्तिर्दिवस्पतिः ॥ 98॥
ध्यानगम्यो ध्येयमूर्तिर्ध्यानातीतो धुरन्धरः ।
धन्वी धर्मो धनाध्यक्षो ध्यातृपापनिषूदनः ॥ 99॥
धृष्टिर्धृतिप्रदो धाता धार्मिको धर्मपालकः ।
धूर्जटिर्धेनुकरिपुर्धत्तूरकुसुमप्रियः ॥ 100॥
धूष्पतिर्धूतपापौघो धनदो धन्यसेवितः ।
नटेशो नाट्यकुशलो नीलकण्ठो निरामयः ॥ 101॥
नित्यदो नित्यसन्तुष्टो नित्यानन्दो निराश्रयः ।
निर्विकारो निराधारो निष्प्रपञ्चो निरुत्तरः ॥ 102॥
निरञ्जनो निर्विकल्पो निर्लेपो निरुपद्रवः ।
नरो नियन्त्रकल्याणो नरसिंहो नरेष्टदः ॥ 103॥
नारायणो नराधीशो निवृत्तात्मानिगूढगः ।
नन्दीशो नन्दतनयो नाकेशो नरकान्तकः ॥ 104॥
पिनाकी पङ्कजकरः पूर्णः पूर्णार्थकारकः ।
पुराणपुरुषः पुण्यः पटुः पशुपतिः परः ॥ 105॥
प्रियंवदः प्रियकरः प्रणवः प्रणवार्थकः ।
परमात्मा परब्रह्मा परञ्ज्योतिः परन्तपः ॥ 106॥
परार्थः परमार्थज्ञः परतत्त्वावबोधकः ।
परानन्दः पराव्यक्तः परन्धामा परोदयः ॥ 107॥
पद्मार्चितः पद्मनाभः पद्मेशः पद्मबान्धवः ।
परेशः पार्थवरदः पशुपाशविमोचकः ॥ 108॥
पार्वतीशः पीतवासाः पुरन्दरसुरार्चितः ।
पुण्डरीकाजिनधरः पुण्डरीकदळेक्षणः ॥ 109॥
पुण्डरीकपुराध्यक्षः पुण्डरीकसमप्रभः ।
पुण्यशीलः पुण्यकीर्तिः पुण्यगम्यः पुरान्तकः ॥ 110॥
पूतनाजीवितहरः पूतनामा पुरातनः ।
फणिभूषः फणिपतिः फणिकुण्डलमण्डितः ॥ 111॥
फणीन्द्रशायी फालाक्षः फलभुक् फलदायकः ।
ब्रह्माङ्गहा बलिध्वंसी ब्रह्मविद् ब्रह्मवित्तमः ॥ 112॥
ब्रह्मज्योतिर्ब्रह्मकृतिः ब्रह्मण्यो ब्रह्मवन्दितः ।
ब्रह्मेन्द्रवरदो ब्रह्मपारगो ब्रह्मवत्सलः ॥ 113॥
ब्रह्माण्डविग्रहो ब्रह्म बृहत्तेजो बृहत्तपः ।
बहुशक्तिर्बालरूपो बलोन्माथिर्बलोत्कटः ॥ 114॥
बन्धुरो बाणवरदो बुध्यो बोधात्मको बुधः ।
भगो भूतपतिर्भीमो भीष्ममुक्तिप्रदो भवः ॥ 115॥
भाग्यदो भगवान् भोगी भवो भीतभयापहः ।
भगनेत्रहरो भद्रो भस्मोद्धूळितविग्रहः ॥ 116॥
भस्मशायी भवानीशो भूतात्मा भूतनायकः ।
भार्गवो भार्गवगुरुः भुक्तिमुक्तिफलप्रदः ॥ 117॥
भवप्रियो भवद्वेषी भोक्ता भुवनपालकः ।
महेश्वरो महायोगी महावीरो महामनाः ॥ 118॥
महाकर्मा महाकीर्तिर्महौजा महिमोद्धतः ।
महौषधिर्महीभर्ता महोदारो महामतिः ॥ 119॥
महानन्दो महापुण्यो महाभाग्यो महागुणः ।
महारथो महाधन्वी महाविद्यो महोदयः ॥ 120॥ 120॥
महापातकविध्वंसी महोरगवरप्रदः ।
महालिङ्गो महाशृङ्गो महामोहप्रभञ्जनः ॥ 121॥
महाप्रभावो महिमान् मणिमाणिक्यभूषणः ।
मृत्युञ्जयो मधुध्वंसी मायेशो माधवो मुनिः ॥ 122॥
मोहहर्ता मोक्षदाता मुकुन्दो मदनान्तकः ।
मुरारिर्मङ्गलकरो मङ्गलेशो मनोहरः ॥ 123॥
मार्ताण्डमण्डलान्तस्थो मार्कण्डेयशरण्यदः ।
मन्युमान् मन्युफलदो मन्युर्मन्युपतिर्महान् ॥ 124॥
यशस्वी यज्ञवाराहो यज्ञाङ्गो यज्ञसारथिः ।
यजमानो यज्ञपालो यज्ञो यज्ञफलप्रदः ॥ 125॥
यन्त्रिताफौघसञ्चारो यमभीतिहरो यमि ।
योगीयोगजनानन्दू योगीशो योगदर्शकः ॥ 126॥
यतात्मा यादवपतिः यक्षो यक्षसखो युवा ।
रामार्चितो रमानाथो रुद्रो रुद्रविमोहनः ॥ 127॥
राज्यप्रदो रामभद्रो रम्यो रामो रणाग्रणिः ।
राजराजार्चितपदो रावणारी रणोद्धतः ॥ 128॥
रथाङ्गपाणी रुचिरो रत्नग्रैवेयकाङ्गदः ।
रत्नसिंहासनासीनो रजताद्रिनिकेतनः ॥ 129॥
रत्नाकरो राजहंसो रोचिष्णू रोगभेषजः ।
राकेन्दुवदनो रौद्रो रूपो रौरवतारकः ॥ 130॥
लोकबन्धुर्लोकसाक्षी लोकनाथो लयातिगः ।
लक्ष्यो लक्षपतिर्लक्ष्मीः लक्ष्मणो लक्ष्मणाग्रजः ॥ 131॥
लावण्यजलधिर्लोलकुण्डलो ललिताकृतिः ।
ललाटोद्भूतदहनो लाभो लङ्केशपालकः ॥ 132॥
विश्वामरेश्वरो विद्वान् वरदो वासवानुजः ।
वामदेवो वासुदेवो वन्द्यो विष्णुर्वृषाकपिः ॥ 133॥
वैकुण्ठवासी विश्वात्मा विश्वभृद्विश्वभावनः ।
विश्वनाथो विश्वधामा विश्वसृग्विश्वपालकः ॥ 134॥
विश्वमूर्तिर्विश्वरूपो विश्वदीप्तिर्विचक्षणः ।
विरूपाक्षो विशालाक्षो वृषाङ्को वृषभान्तकः ॥ 135॥
वीतरागो वीतमदो वीतभीतिर्विमत्सरः ।
वियतात्मा विधुर्वैद्यो व्योमकेशो वियत्पदः ॥ 136॥
वाक्पतिर्वातरशनो वनमाली वनेश्वरः ।
वल्लभो वल्लवीनाथो वर्यो वासुकिकङ्कणः ॥ 137॥
विष्वक्सेनो वषट्कारो वरिष्ठो वरदक्षकः ।
वाग्मी विज्ञानजलधिर्वाक्प्रदो वाङ्मयो विभुः ॥ 138॥
विधिर्विधातृजनको वागतीतो वशंवदः ।
वदान्यो विविधाकारो वर्णी वर्णाश्रमाधिपः ॥ 139॥
व्यासो व्याघ्राजिनधरो वज्रपाणिर्विरोचनः ।
विभावसुर्विविक्तात्मा विशोको विजरो विराट् ॥ 140॥
वेदान्तवेद्यो वेदात्मा वराहो विषमेक्षणः ।
वृन्दारजनमन्दारो वाञ्छितार्थफलप्रदः ॥ 141॥
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्ररयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्विमोकः ।
ध्यानम् –
ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्
बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत् कराब्जम् ।
व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं
गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
इति ते कथितं दिव्यं नामसाहस्रमुत्तमम् ।
रहस्यं सर्वमन्त्राणां स्तोत्राणामुत्तमोत्तमम् ॥ 1॥
सर्वपापहरं पुण्यं सर्वरोगैकभेषजम् ।
सर्वसम्पत्करं नृणां सर्वाभीष्टप्रदायकम् ॥ 2॥
पठतां शृण्वतां नित्यं भक्तियुक्तेन चेतसा ।
समस्तरोगशमनं दुःखदारिद्र्यनाशनम् ॥ 3॥
एतन्नामसहस्रेण तुल्यमन्यन्न विद्यते ।
शम्भोः पञ्चशतानि स्युः विष्णोः पञ्चशतानि च ॥ 4॥
यत्र नामानि राजन्ते क्रमात्सम्मिळितानि च ।
मौक्तिकान्तरितेन्द्राक्षमालेयं हृदयङ्गमा ॥ 5॥
पुण्यं नामसहस्रेण भक्त्या सम्पूजयन्ति ये ।
पुष्पैर्नानाविधैः पत्रैः बिल्वैश्च तुलसीदळैः ॥ 6॥
लिङ्गरूपिणमीशानं नारायणमनामयम् ।
तेषां सञ्जायतेभीष्टमचिरान्नात्र संशयः ॥ 7॥
स कृत्वा भक्तिभावेन तेषां फलमिदं शृणु ।
अग्निष्टोमसहस्राणि वाजपेयशतानि च ॥ 8॥
काश्यादिपुण्यक्षेत्रेषु कुर्वतां यत्फलं लभेत् ।
कुरुक्षेत्रेषु गोकर्णे प्रभासे च महोदये ॥ 9॥
चन्द्रसूर्योपरागेषु स्वर्णभारशतानि च ।
कपिलागोसहस्राणि ब्राह्मणेभ्यो यथाविधि ॥ 10॥
श्रोत्रियेभ्यः कुटुम्बिभ्यः ददतां यत्फलं लभेत् ।
तत्फलं कोटिगुणितं लभ्यते तैर्न संशयः ॥ 11॥
स्वर्गादिपुण्यलोकेषु भुक्त्वा भोगान्यनेकशः ।
अदैतज्ञानमासाद्य सर्वमोहनिकृन्तनम् ॥ 12॥
कैवल्यमाप्यते साक्षाच्छिवश्रीशप्रसादतः ।
शत्रुभिः पीडितो राजा जयकामस्तु कारयेत् ॥ 13॥
अर्प्यान्नामसहस्रेण बिल्वपत्रैश्च कोमलैः ।
तुळसीमञ्जरीभिश्च द्रोणार्ककुसुमैस्तथा ॥ 14॥
तत्कालोद्भवैः पष्पैः शिवकेशवमन्वहम् ।
लक्षपत्रैर्लक्षपुष्पैर्मासं मासद्वयं तु वा ॥ 15॥
शत्रवस्तस्य नश्यन्ति राज्यं निष्कण्टकं भवेत् ।
यं यं कामं समुद्दिश्य नामसाहस्रपूजनम् ॥ 16॥
करोति शङ्करं श्रीशं तन्तमाप्नोति मानवः ।
षोडशैर्नाममन्त्रैस्तु द्वादशार्णमथापि वा ॥ 17॥
सहस्रं प्रत्यहं जप्त्वापठेन्नामसहस्रकम् ।
तस्य सिद्धिकरं चैव नात्र कार्या विचारणा ॥ 18॥
प्रदोषे यः पठेद्भक्त्या नामसाहस्रमुत्तमम् ।
प्रसन्नो मनुते साक्षात् स्कन्दवक्त्रं महेश्वरः ॥ 19॥
बहुनात्र किमुक्तेन सर्वाभीष्टप्रदं मुने ।
भुक्तिदं मुक्तिदं पुण्यं स्तोत्रनामसहस्रकम् ॥ 20॥
शिवविष्णुप्रियकरं कथितं तव पुत्रक ।
स्कन्दाय कथितं पूर्वं कैलासे किल शम्भुना ॥ 21॥
तेन मे मेरुशिखरे प्राप्तपुण्यप्रभावतः ।
अद्योपदिष्टं ते पुत्र सर्वलोकहिताय हि ॥ 22॥
इत्युक्त्वापूजितो ब्रह्मा नारदेन महर्षिणा ।
प्रहृष्ट मानसैर्देवैः संस्तुतः कमलासनः ।
ध्यायन् देवं महादेवमद्वयं करुणार्णवम् ॥ 23॥
॥ इति श्रीस्कान्दपुराणे सह्याद्रिखण्डे सनत्कुमारसंहितायां ब्रह्मनारद संवादे श्रीशङ्करनारायण सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
॥ श्रीशङ्करनारायण सहस्रनामावलिः ॥
Click to show/hide
ध्यानम् –
ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात्
बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत् कराब्जम् ।
व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं
गौरीलक्ष्मीसमेतं स्फटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
ॐ शङ्कराय नमः ।
ॐ श्रीधराय नमः ।
ॐ श्रीदाय नमः ।
ॐ श्रीकराय नमः ।
ॐ श्रीदबान्धवाय नमः ।
ॐ श्रीवत्सकौस्तुभधराय नमः ।
ॐ श्रीनाथाङ्गपरिष्कृताय नमः ।
ॐ श्रीसदोपास्यपादाब्जाय नमः ।
ॐ श्रीनिधये नमः ।
ॐ श्रीविभावनाय नमः । (10)
ॐ श्रीकण्ठाय नमः ।
ॐ शाश्वताय नमः ।
ॐ शान्ताय नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ शर्वाय नमः ।
ॐ शुभोदयाय नमः ।
ॐ शशाङ्कशेखराय नमः ।
ॐ श्यामाय नमः ।
ॐ शूलिने नमः ।
ॐ शङ्खधराय नमः । (20)
ॐ शिवाय नमः ।
ॐ शुचये नमः ।
ॐ शुचिकराय नमः ।
ॐ श्रीमते नमः ।
ॐ शरणागतपालकाय नमः ।
ॐ शिपिविष्टाय नमः ।
ॐ शिवनुताय नमः ।
ॐ शेषशायिने नमः ।
ॐ शुभङ्कराय नमः ।
ॐ शिवेतरघ्नाय नमः । (30)
ॐ शान्तात्मने नमः ।
ॐ शान्तिदाय नमः ।
ॐ शक्तिभृत्पित्रे नमः ।
ॐ श्रुतिगम्याय नमः ।
ॐ शतधृतये नमः ।
ॐ शतानन्दाय नमः ।
ॐ श्रुतिस्थितये नमः ।
ॐ शम्बरारिपित्रे नमः ।
ॐ शूराय नमः ।
ॐ शासिताशेषपातकायु नमः । (40)
ॐ शबराय नमः ।
ॐ शिवदाय नमः ।
ॐ शिष्टाय नमः ।
ॐ शिष्टेष्टाय नमः ।
ॐ शिष्टरक्षकाय नमः ।
ॐ शरण्याय नमः ।
ॐ शरजन्मात्मने नमः ।
ॐ शशाङ्कन्यर्ककोटिभाय नमः ।
ॐ शर्वरीशधराय नमः ।
ॐ शौरये नमः । (50)
ॐ शिशिराय नमः ।
ॐ श्रोत्रियप्रियाय नमः ।
ॐ शम्भवे नमः ।
ॐ शक्रार्तिहरणाय नमः ।
ॐ शैलावासाय नमः ।
ॐ शुचिस्मिताय नमः ।
ॐ शिवारम्भाय नमः ।
ॐ शिवतमाय नमः ।
ॐ शरभाय नमः ।
ॐ शैशवाकृतये नमः । (60)
ॐ शरद्घनसमुच्छायाय नमः ।
ॐ शिशुपालशिरोहराय नमः ।
ॐ षडक्षरात्मने नमः ।
ॐ षट्कोणाय नमः ।
ॐ सुदर्शनकराम्बुजाय नमः ।
ॐ पड्भावधर्मरहिताय नमः ।
ॐ षड्गुणैश्वर्यसंयुताय नमः ।
ॐ षडङ्गरूपिणे नमः ।
ॐ षट्कोशाय नमः ।
ॐ षट्त्रिंशाय नमः । (70)
ॐ षण्मुखाश्रयाय नमः ।
ॐ षोडशस्त्रीप्रियाय नमः ।
ॐ षड्जप्रमुखाय नमः ।
ॐ स्वररञ्जिताय नमः ।
ॐ षड्विंशकाय नमः ।
ॐ षडाधारनिलयाय नमः ।
ॐ षट्कलात्मकाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगाय नमः ।
ॐ साक्षिणे नमः । (80)
ॐ सर्वपूज्याय नमः ।
ॐ सुरेश्वराय नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वभृते नमः ।
ॐ सर्वस्मै नमः ।
ॐ सर्वेशाय नमः ।
ॐ सर्वशक्तिमते नमः ।
ॐ सर्वाधाराय नमः ।
ॐ सर्वसाराय नमः ।
ॐ सर्वात्मने नमः । (90)
ॐ सर्वभावनाय नमः ।
ॐसर्वावासाय नमः ।
ॐ सर्वशास्त्रे नमः ।
ॐ सर्वदृशे नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ सर्वजिते नमः ।
ॐ सर्वतोभद्राय नमः ।
ॐ सर्वार्थाय नमः ।
ॐ सर्वदुःखघ्ने नमः ।
ॐ सर्वानन्दाय नमः । (100)
ॐ सर्वरूपाय नमः ।
ॐ सारङ्गाय नमः ।
ॐ सर्वकारणाय नमः ।
ॐ सर्वातिशायिने नमः ।
ॐ सूत्रात्मने नमः ।
ॐ सूत्रकृते नमः ।
ॐ सद्गुणाय नमः ।
ॐ सुखिने नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सौदामिनीकान्ताय नमः । (110)
ॐ सिन्धुशायिने नमः ।
ॐ सनातनाय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ सुरसखाय नमः ।
ॐ स्वर्णदीजनकाय नमः ।
ॐ स्वराजे नमः ।
ॐ सेव्यसेवितपादाब्बाय नमः ।
ॐ सत्यगोप्त्रे नमः ।
ॐ सदात्मकाय नमः ।
ॐ सम्पत्प्रदाय नमः । (120)
ॐ समाय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सत्यकामघ्ने नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ सत्यरूपिणे नमः ।
ॐ सत्यवेद्याय नमः ।
ॐ सदागतये नमः ।
ॐ स्थाणवे नमः ।
ॐ सत्येश्वराय नमः ।
ॐ स्थूलाय नमः । (130)
ॐ स्थविष्टाय नमः ।
ॐ सुभगाय नमः ।
ॐ स्थिराय नमः ।
ॐ समुद्राय नमः ।
ॐ समन्ताय नमः ।
ॐ स्वामिने नमः ।
ॐ सर्वपातकभञ्जनाय नमः ।
ॐ स्मृताघहारिणे नमः ।
ॐ सौभाग्यदायकाय नमः ।
ॐ सदसत्पतये नमः । (140)
ॐ स्वर्णाध्यक्षाय नमः ।
ॐ स्वर्णभूषाय नमः ।
ॐ स्वाहाकाराय नमः ।
ॐ सुधाकराय नमः ।
ॐ सन्ध्यारुणजटाजूटाय नमः ।
ॐ संसारार्णवतारकाय नमः ।
ॐ स्तुत्याय नमः ।
ॐ सभापतये नमः ।
ॐ स्वस्थाय नमः ।
ॐ सुधांशुरविलोचनाय नमः । (150)
ॐ सरसीरुहमध्यस्थाय नमः ।
ॐ सुन्दराय नमः ।
ॐ सुन्दरीश्वराय नमः ।
ॐ सुधाकुम्भधराय नमः ।
ॐ सोमाय नमः ।
ॐ सर्वव्यापिने नमः ।
ॐ सदाशिवाय नमः ।
ॐ सर्ववेदान्तसंवेद्याय नमः ।
ॐ सुशीलाय नमः ।
ॐ साधुकीर्तिदाय नमः । (160)
ॐ सुदर्शनाय नमः ।
ॐ सुखकराय नमः ।
ॐ सुमनसे नमः ।
ॐ सूर्यतापनाय नमः ।
ॐ साम्बाय नमः ।
ॐ सोमधराय नमः ।
ॐ सौम्याय नमः ।
ॐ सम्भाव्याय नमः ।
ॐ स्वस्तिकृते नमः ।
ॐ स्वराय नमः । (170)
ॐ सहस्रशीर्षाय नमः ।
ॐ सुमुखाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपादे नमः ।
ॐ स्वभक्तजनकल्याणाय नमः ।
ॐ सर्वलोकेश्वरेश्वराय नमः ।
ॐ सुवर्णाय नमः ।
ॐ सूर्यबिम्बस्थाय नमः ।
ॐ सत्याय नमः ।
ॐ संवत्सरात्मकाय नमः । (180)
ॐ सर्वास्त्रधारिणे नमः ।
ॐ सङ्ग्रामविजयिने नमः ।
ॐ सर्वशास्त्रविदे नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सरसाय नमः ।
ॐ सर्वसत्वावलम्बनाय नमः ।
ॐ स्वभुवे नमः ।
ॐ सीतापतये नमः ।
ॐ सूरये नमः ।
ॐ सर्वशास्त्रर्थकोविदाय नमः । (190)
ॐ स्वभावोदारचरिताय नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ सरीसृपेन्द्रकटकाय नमः ।
ॐ सुरेन्द्रात्मजसारथये नमः ।
ॐ सर्वंसहाय नमः ।
ॐ सर्वधाम्ने नमः ।
ॐ सनाकादिमुनीडिताय नमः ।
ॐ स्मरारये नमः ।
ॐ स्मेरवदनाय नमः ।
ॐ सृष्टिस्थित्यन्तकारणाय नमः । (200)
ॐ सैरन्ध्रीपूजितपदाय नमः ।
ॐ सामगानाधिकप्रियाय नमः ।
ॐ सिन्धुरेन्द्राजिनधराय नमः ।
ॐ सीरपाणये नमः ।
ॐ समीरणाय नमः ।
ॐ सद्गतये नमः ।
ॐ सङ्गरहिताय नमः ।
ॐ साधुकृते नमः ।
ॐ सत्पतीश्वराय नमः ।
ॐ हंसाय नमः । (210)
ॐ हरये नमः ।
ॐ हयारूढाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ हविष्पतये नमः ।
ॐ हिरण्यगर्भभुवे नमः ।
ॐ होत्रे नमः ।
ॐ हविर्भोक्त्रे नमः ।
ॐ हिरण्मयाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ हराय नमः । (220)
ॐ हारिणे नमः ।
ॐ हव्यवाहाय नमः ।
ॐ हरीश्वराय नमः ।
ॐ हर्यक्षरूपिणे नमः ।
ॐ हितकृते नमः ।
ॐ हयग्रीवायु नमः ।
ॐ हतान्तकायु नमः ।
ॐ हरित्पालाय नमः ।
ॐ हिरिण्याक्षरिपवे नमः ।
ॐ हरिहरात्मकाय नमः । (230)
ॐ हस्तीन्द्रवरदाय नमः ।
ॐ हंसवाहनाय नमः ।
ॐ हरिणाङ्कधृशे नमः ।
ॐ हेमांशुकाय नमः ।
ॐ हेममालिने नमः ।
ॐ हेमाङ्गाय नमः ।
ॐ हेमकुण्डलाय नमः ।
ॐ हालाहलाङ्कितगलाय नमः ।
ॐ हलिने नमः ।
ॐ हानिविवर्जिताय नमः । (240)
ॐ ळपञ्चलक्षभूतेशाय नमः ।
ॐ ळाप्तेजोवायुखेश्वराय नमः ।
ॐ क्षमाभृते नमः ।
ॐ क्षपणाय नमः ।
ॐ क्षेमाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रनायकाय नमः ।
ॐ क्षौमाम्बराय नमः ।
ॐ क्षौद्रवाचे नमः ।
ॐ क्षालिताघाय नमः । (250)
ॐ क्षितीश्वराय नमः ।
ॐ क्षेमङ्कराय नमः ।
ॐ क्षेलहराय नमः ।
ॐ क्षीराम्बुनिधिकेतनाय नमः ।
ॐ अनन्तलक्षणाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अनीशाय नमः ।
ॐ अनीहाय नमः ।
ॐ अव्ययाय नमः ।
ॐ अपराय नमः । (260)
ॐ अतीन्द्रियाय नमः ।
ॐ अभयाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ अचलाय नमः ।
ॐ अद्भुतपराक्रमाय नमः ।
ॐ अणिमादिगुणाधाराय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अचिन्त्यशक्तिमते नमः ।
ॐ अभिरामाय नमः ।
ॐ अनवद्याङ्गाय नमः । (270)
ॐ अनिर्देश्याय नमः ।
ॐ अमृतविग्रहाय नमः ।
ॐ अजाय नमः ।
ॐ अद्रितनयानाथाय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ अशेषदेवतानाथाय नमः ।
ॐ अघोराय नमः ।
ॐ अविद्याधिनाशनाय नमः ।
ॐ अप्रतर्क्याय नमः । (280)
ॐ अपरिच्छेद्याय नमः ।
ॐ अजाताय नमः ।
ॐ अशत्रवे नमः ।
ॐ अनामयाय नमः ।
ॐ अनादिमध्यनिधनाय नमः ।
ॐ अनङ्गशत्रवे नमः ।
ॐ अधोक्षजाय नमः ।
ॐ अकल्मषाय नमः ।
ॐ अभिरूपाय नमः ।
ॐ अभिरामाय नमः । (290)
ॐ अनर्घ्यगुणाय नमः ।
ॐ अच्युताय नमः ।
ॐ अकारादिक्षकारान्त नमः ।
ॐ मातृकावीतविग्रहाय नमः ।
ॐ आनन्दरूपाय नमः ।
ॐ आनन्दाय नमः ।
ॐ आनन्दघनाय नमः ।
ॐ आश्रयाय नमः ।
ॐ आराध्याय नमः ।
ॐ आयतापाङ्गाय नमः । (300)
ॐ आपन्नार्तिविनाशनाय नमः ।
ॐ इन्द्रादिदेवताधीशाय नमः ।
ॐ इष्टापूर्तिफलप्रदाय नमः ।
ॐ इतिहासपुराणज्ञाय नमः ।
ॐ इच्चाशक्तिपरायणाय नमः ।
ॐ इलापतये नमः ।
ॐ इलानाथाय नमः ।
ॐ इन्दिराजानये नमः ।
ॐ इन्दुभासे नमः ।
ॐ इन्दीवरदलश्यामाय नमः । (310)
ॐ इद्धतेजसे नमः ।
ॐ इभाननाय नमः ।
ॐ ईशाय नमः ।
ॐ ईश्वराय नमः ।
ॐ ईशानाय नमः ।
ॐ ईतिभीतिनिवारणाय नमः ।
ॐ ईक्षाकृतजगत्सृष्टये नमः ।
ॐ ईड्याय नमः ।
ॐ ईहाविवर्जिताय नमः ।
ॐ उत्कृष्टशक्तये नमः । (320)
ॐ उत्कृष्टाय नमः ।
ॐ उदिताम्बरमार्गणाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ उरगाकल्पाय नमः ।
ॐ उत्पत्तिस्थितिनाशकृते नमः ।
ॐ उमापतये नमः ।
ॐ उदाराङ्गाय नमः ।
ॐ उष्णाय नमः ।
ॐ उत्पत्तिवर्जिताय नमः ।
ॐ उष्णांशवे नमः । (330)
ॐ उज्वलगुणाय नमः ।
ॐ उन्नतांसाय नमः ।
ॐ उरुक्रमाय नमः ।
ॐ उपप्लवभिदे नमः ।
ॐ उद्गीथाय नमः ।
ॐ उमाप्रियाय नमः ।
ॐ उदद्धवाय नमः ।
ॐ उत्साहशक्तये नमः ।
ॐ उद्दामकीर्तये नमः ।
ॐ उद्धृतभूधराय नमः । (340)
ॐ ऊर्ध्वरेतसे नमः ।
ॐ ऊर्ध्वपदाय नमः ।
ॐ ऊर्वीकृतचराचराय नमः ।
ॐ ऋद्धिकर्ते नमः ।
ॐ ऋतुकराय नमः ।
ॐ ऋणत्रयविमोचनाय नमः ।
ॐ ऋग्यजुस्सामवेदात्मने नमः ।
ॐ ऋजुमार्गप्रदर्शनाय नमः ।
ॐ एकाय नमः ।
ॐ एकान्तनिलयाय नमः । (350)
ॐ एजिताशेषपातकाय नमः ।
ॐ एणाङ्कचूडाय नमः ।
ॐ एकात्मने नमः ।
ॐ एधनीयसुखाकराय नमः ।
ॐ ऐङ्काराय नमः ।
ॐ ऐश्वर्यकराय नमः ।
ॐ ऐहिकामुष्मकप्रदाय नमः ।
ॐ ओङ्कारमूर्तये नमः ।
ॐ ओङ्काराय नमः ।
ॐ ओङ्कारार्थप्रकाशकाय नमः ।(360)
ॐ औदार्यनिधये नमः ।
ॐ औन्नत्यप्रदाय नमः ।
ॐ औषधनायकाय नमः ।
ॐ अम्बिकापतये नमः ।
ॐ अम्भोजदृशे नमः ।
ॐ अम्बुसमद्युतये नमः ।
ॐ अञ्जनासुतसेव्याङ्घ्रये नमः ।
ॐ अन्धकघ्नाय नमः ।
ॐ अङ्गदाश्रयाय नमः ।
ॐ अम्बरात्मने नमः । (370)
ॐ अङ्गनार्थाङ्गाय नमः ।
ॐ अम्बरीषवरप्रदाय नमः ।
ॐ अस्थिमाल्याय नमः ।
ॐ अक्षयनिधये नमः ।
ॐ अष्टैश्वर्यप्रदाय नमः ।
ॐ अक्षराय नमः ।
ॐ अष्टाङ्गयोगसाध्याय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ अष्टवसुस्तुताय नमः ।
ॐ कपर्दिने नमः । (380)
ॐ कौस्तुभधराय नमः ।
ॐ कालकालाय नमः ।
ॐ कलानिधये नमः ।
ॐ कर्पूरधवलाय नमः ।
ॐ कृष्णाय नमः ।
ॐ कपालिने नमः ।
ॐ कंसमर्दनाय नमः ।
ॐ कैलासवासिने नमः ।
ॐ कमठाय नमः ।
ॐ कृत्तिवासाय नमः । (390)
ॐ कृपानिधये नमः ।
ॐ कामेशाय नमः ।
ॐ केशवाय नमः ।
ॐ कुल्याय नमः ।
ॐ कैवल्यफलदायकाय नमः ।
ॐ कुबेरबन्धवे नमः ।
ॐ कौन्तेयसारथये नमः ।
ॐ कनकार्चिताय नमः ।
ॐ कैटभारये नमः ।
ॐ क्रतुध्वंसिने नमः । (400)
ॐ क्रतुभुजे नमः ।
ॐ क्रतुपालकाय नमः ।
ॐ कल्पहारहिताय नमः ।
ॐ कर्त्रे नमः ।
ॐ कर्मबन्धहरायु नमः ।
ॐ कृतये नमः ।
ॐ कोदण्डपाणये नमः ।
ॐ कवचिने नमः ।
ॐ कुण्डलिने नमः ।
ॐ कलभूषणाय नमः ।
ॐ किरातविग्रहाय नमः ।
ॐ कल्किने नमः ।
ॐ किङ्किणीजालभूषणाय नमः ।
ॐ कौशेयवसनाय नमः ।
ॐ क्रान्ताय नमः ।
ॐ कुशलाय नमः ।
ॐ कीर्तिवर्धनाय नमः ।
ॐ कृशानुरेतसे नमः ।
ॐ कालीयभञ्जनाय नमः ।
ॐ क्षेशनाशनाय नमः । (420)
ॐ कदम्बवासिने नमः ।
ॐ कल्याणदायिने नमः ।
ॐ कमललोचनाय नमः ।
ॐ कुप्याय नमः ।
ॐ कुक्षिस्थभुवनाय नमः ।
ॐ क्रान्ताशेषचराचराय नमः ।
ॐ कोटिवैश्रवणश्रीदाय नमः ।
ॐ कोटिमन्मथसुन्दराय नमः ।
ॐ कोटीन्दुजगदानन्दिने नमः ।
ॐ कोटिब्रह्माण्डपालकाय नमः । (430)
ॐ कोटिसूर्यप्रतीकाशाय नमः ।
ॐ कोटियज्ञसमाह्वयाय नमः ।
ॐ कोटिब्रह्मसृगैश्वर्याय नमः ।
ॐ कोटिशक्तिपरीवृताय नमः ।
ॐ खण्डेन्दुशेखराय नमः ।
ॐ खण्डिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ खगवाहनाय नमः ।
ॐ ख्यातिताय नमः ।
ॐ ख्यातिमते नमः । (440)
ॐ खस्थाय नमः ।
ॐ खेचराय नमः ।
ॐ खेचरेडिताय नमः ।
ॐ खरारये नमः ।
ॐ खण्डपरशवे नमः ।
ॐ खण्डेन्दुनिटिलोज्वलाय नमः ।
ॐ खण्डितप्रणताघौघाय नमः ।
ॐ खेदहृते नमः ।
ॐ खेटकायुधाय नमः ।
ॐ गङ्गाधराय नमः । (450)
ॐ गिरिधराय नमः ।
ॐ गिरिधन्विने नमः ।
ॐ गदाधराय नमः ।
ॐ गङ्गाप्रबोधाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ गौरीशाय नमः ।
ॐ गरुडध्वजाय नमः ।
ॐ गिरीशाय नमः ।
ॐ गोपतये नमः ।
ॐ गोप्त्रे नमः । (460)
ॐ गोमान्ताय नमः ।
ॐ गोक्षिगौरवाय नमः ।
ॐ गोवर्धनधराय नमः ।
ॐ गोप्याय नमः ।
ॐ गिरिबन्धवे नमः ।
ॐ गुहाश्रयाय नमः ।
ॐ गम्भीराय नमः ।
ॐ गगनाकाराय नमः ।
ॐ गद्यपद्यपरिष्कताय नमः ।
ॐ गरीयसे नमः । (470)
ॐ ग्रामणये नमः ।
ॐ गण्याय नमः ।
ॐ गोपालाय नमः ।
ॐ गोधनप्रदाय नमः ।
ॐ गुरवे नमः ।
ॐ गानप्रियाय नमः ।
ॐ गोष्ठिने नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणाग्रणये नमः ।
ॐ गायत्रीवल्लभाय नमः । (480)
ॐ गेयाय नमः ।
ॐ गन्धर्वकुलवन्दिताय नमः ।
ॐ ग्रहपीडाहराय नमः ।
ॐ गोधाय नमः ।
ॐ गतिभ्रष्टगतिप्रदाय नमः ।
ॐ घनाघनाय नमः ।
ॐ घनश्यामाय नमः ।
ॐ घण्टाकर्णवरप्रदाय नमः ।
ॐ घण्टाविभूषणाय नमः ।
ॐ घोराय नमः । (490)
ॐ घस्मराय नमः ।
ॐ घसृणान्तकाय नमः ।
ॐ घृणिने नमः ।
ॐ घृणानिधये नमः ।
ॐ घोषाय नमः ।
ॐ घातिताखिलपातकाय नमः ।
ॐ घूर्णिताशेषभुवनाय नमः ।
ॐ घटकेशाय नमः ।
ॐ घृतप्रियाय नमः ।
ॐ ङान्तसारस्वरमयाय नमः । (500)
ॐ ङान्तसामार्थतत्त्वविदे नमः ।
ॐ चन्द्रपीडाय नमः ।
ॐ चन्द्रपाणये नमः ।
ॐ चन्द्रकान्ताय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ चराचरपित्रे नमः ।
ॐ चण्डाय नमः ।
ॐ चण्डीशाय नमः ।
ॐ चण्डविक्रमाय नमः ।
ॐ चिद्रूपाय नमः । (510)
ॐ चेतनाधीशाय नमः ।
ॐ चिन्तितार्थप्रदायकाय नमः ।
ॐ चिरन्तनाय नमः ।
ॐ चिराराध्याय नमः ।
ॐ चित्रवेषाय नमः ।
ॐ चिदम्बराय नमः ।
ॐ चिद्घनाय नमः ।
ॐ चिन्मयाय नमः ।
ॐ चित्राय नमः ।
ॐ चिदानन्दाय नमः । (520)
ॐ चिदम्बुधये नमः ।
ॐ चन्द्रायुधाय नमः ।
ॐ चन्द्रमुखाय नमः ।
ॐ चन्द्रिकाधवलस्मिताय नमः ।
ॐ चित्रभानवे नमः ।
ॐ चित्ररूपाय नमः ।
ॐ चित्रवीर्याय नमः ।
ॐ चराचराय नमः ।
ॐ चित्रकर्मणे नमः ।
ॐ चित्रगतये नमः । (530)
ॐ चन्द्राय नमः ।
ॐ चाणूरमर्दनाय नमः ।
ॐ चतुराय नमः ।
ॐ चतुरास्येड्याय नमः ।
ॐ चतुर्वर्गफलप्रदाय नमः ।
ॐ चार्वङ्गाय नमः ।
ॐ चर्वणपराय नमः ।
ॐ चारुचन्दनचर्चिताय नमः ।
ॐ चामीकरगृहान्तस्थाय नमः ।
ॐ चामरानिलसेविताय नमः । (540)
ॐ चिन्तामणये नमः ।
ॐ छिन्नतपसे नमः ।
ॐ चूर्णितापन्महाचलाय नमः ।
ॐ छन्दोमयाय नमः ।
ॐ छिन्नपाशाय नमः ।
ॐ छन्दोगाय नमः ।
ॐ छिन्नसंशयाय नमः ।
ॐ छेदितासुरशस्त्रास्त्राय नमः ।
ॐ छेदिताखिलपातकाय नमः ।
ॐ छादितात्मप्रभावाय नमः । (550)
ॐ छत्रीकृतफणीश्वराय नमः ।
ॐ जगद्धर्ते नमः ।
ॐ जगद्भर्त्रे नमः ।
ॐ जगज्ज्येष्ठाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ जगत्प्राणाय नमः ।
ॐ जगद्भाव्याय नमः ।
ॐ जगज्ज्योतये नमः ।
ॐ जगन्मयाय नमः ।
ॐ जगद्भन्धवे नमः । (560)
ॐ जगत्साक्षिणे नमः ।
ॐ जगदादये नमः ।
ॐ जगत्पतये नमः ।
ॐ जह्नुजालङ्कृतजटाय नमः ।
ॐ जाह्नवीजनकाय नमः ।
ॐ जयाय नमः ।
ॐ जैत्राय नमः ।
ॐ जलन्धरहराय नमः ।
ॐ जरामृत्युनिवारणाय नमः ।
ॐ जानकीवल्लभाय नमः । (570)
ॐ जेत्रे नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितात्मने नमः ।
ॐ जितपञ्चेषवे नमः ।
ॐ जितासवे नमः ।
ॐ जीवितेश्वराय नमः ।
ॐ जाड्यहारिणे नमः ।
ॐ जन्महराय नमः ।
ॐ ज्योतिर्मूर्तये नमः । (580)
ॐ जलेश्वराय नमः ।
ॐ झल्लरीवाद्यमुदिताय नमः ।
ॐ झषकेतनदर्पघ्ने नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानपालाय नमः ।
ॐ ज्ञानात्मने नमः ।
ॐ ज्ञानसागराय नमः ।
ॐ ज्ञातृज्ञानज्ञेयरूपाय नमः ।
ॐ ज्ञानदाय नमः ।
ॐ ज्ञानदीपकाय नमः । (590)
ॐ टङ्काक्षसूत्रहस्ताब्जाय नमः ।
ॐ टङ्कीकृतरसातलाय नमः ।
ॐ ठकारयुक्तमन्त्रेड्याय नमः ।
ॐ ठान्तमन्त्रप्रसादकाय नमः ।
ॐ डमरुव्यस्तहस्ताग्राय नमः ।
ॐ डिम्बिकासुरनाशनाय नमः ।
ॐ डाकिनीगणसंवीताय नमः ।
ॐ डोलाखेलनलालसाय नमः ।
ॐ डिण्डीरपुञ्जधवलाय नमः ।
ॐ डिण्डिमध्वनिसेविताय नमः । (600)
ॐ ढक्कानिनादसंप्रीताय नमः ।
ॐ डुण्ढिविघ्नेशपूजिताय नमः ।
ॐ णपञ्चलक्षसंप्रीताय नमः ।
ॐ णान्तवाक्यरणार्थविदे नमः ।
ॐ त्रिगुणात्मने नमः ।
ॐ त्रिकालज्ञाय नमः ।
ॐ त्रिपुरारये नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ तीर्थपादाय नमः । (610)
ॐ त्रिलोकेशाय नमः ।
ॐ त्रयीमयाय नमः ।
ॐ त्रयीवेद्याय नमः ।
ॐ त्रयीश्वासाय नमः ।
ॐ त्रिशूलिने नमः ।
ॐ तार्क्ष्यकेतनाय नमः ।
ॐ तेजोमण्डलदुर्धर्षाय नमः ।
ॐ तापत्रयनिवारणाय नमः ।
ॐ स्तुत्याय नमः ।
ॐ स्तोत्रप्रियाय नमः । (620)
ॐ तुष्टाय नमः ।
ॐ तपस्तोमफलप्रदाय नमः ।
ॐ तपनाय नमः ।
ॐ तापसाय नमः ।
ॐ तापहारिणे नमः ।
ॐ तापसवल्लभाय नमः ।
ॐ तारकाय नमः ।
ॐ ताटकारातये नमः ।
ॐ तारकब्रह्ममन्त्रविदे नमः ।
ॐ थबीजमन्त्रसन्तुष्टाय नमः । (630)
ॐ थवर्णप्रतिपादकाय नमः ।
ॐ दुर्वाससे नमः ।
ॐ दौपदीवन्द्याय नमः ।
ॐ दुःखाब्धिबडबानलाय नमः ।
ॐ दैत्यारये नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ दुग्धाम्भोनिधिसंश्रयाय नमः ।
ॐ दारिद्र्यवनदावाग्नये नमः ।
ॐ दत्तात्रेयाय नमः ।
ॐ दुरासदाय नमः । (640)
ॐ देवदेवाय नमः ।
ॐ दृढप्रज्ञाय नमः ।
ॐ दान्ताय नमः ।
ॐ दुर्लभदर्शनाय नमः ।
ॐ दामोदराय नमः ।
ॐ दानशीलाय नमः ।
ॐ दयालवे नमः ।
ॐ दीनवत्सलाय नमः ।
ॐ दक्षाय नमः ।
ॐ दक्षाध्वरध्वंसिने नमः । (650)
ॐ दुश्यासनकुलान्तकाय नमः ।
ॐ दुरन्तमहिम्ने नमः ।
ॐ दूराय नमः ।
ॐ दुष्पाराय नमः ।
ॐ दुष्प्रधर्षणाय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ दुर्जयाय नमः ।
ॐ दीर्घबाहवे नमः ।
ॐ दुष्टनिबर्हणाय नमः ।
ॐ दिगीशायु नमः । (660)
ॐ दितिसम्पूज्याय नमः ।
ॐ दिग्वाससे नमः ।
ॐ दिविषस्पतये नमः ।
ॐ दशकण्ठासुरश्रेणिपूजिताङ्घ्रि-सरोरुहाय नमः ।
ॐ दण्डकारण्यसञ्चारिणे नमः ।
ॐ दण्डपाणिसमर्चिताय नमः ।
ॐ दण्डितासुरदोर्दण्डाय नमः ।
ॐ दशश्चन्दननन्दनाय नमः ।
ॐ दहराकाशमध्यस्थाय नमः ।
ॐ देहकृद्भयनाशनाय नमः । (670)
ॐ दरहासाय नमः ।
ॐ दयामूर्तये नमः ।
ॐ दिव्यकीर्तये नमः ।
ॐ दिवस्पतये नमः ।
ॐ ध्यानगम्याय नमः ।
ॐ ध्येयमूर्तये नमः ।
ॐ ध्यानातीताय नमः ।
ॐ धुरन्धराय नमः ।
ॐ धन्विने नमः ।
ॐ धर्माय नमः । (680)
ॐ धनाध्यक्षाय नमः ।
ॐ धातृपापनिषूदनाय नमः ।
ॐ धृष्णये नमः ।
ॐ धृतिप्रदाय नमः ।
ॐ धात्रे नमः ।
ॐ धार्मिकाय नमः ।
ॐ धर्मपालकाय नमः ।
ॐ धूर्जटये नमः ।
ॐ धेनुकरिपवे नमः ।
ॐ धत्तूरकुसुमप्रियाय नमः । (690)
ॐ धूष्पतये नमः ।
ॐ धूतपापौघाय नमः ।
ॐ धनदाय नमः ।
ॐ धन्यसेविताय नमः ।
ॐ नटेशाय नमः ।
ॐ नाट्यकुशलाय नमः ।
ॐ नीलकण्ठाय नमः ।
ॐ निरामयाय नमः ।
ॐ नित्यदाय नमः ।
ॐ नित्यसन्तुष्टाय नमः । (700)
ॐ नित्यानन्दाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निराधाराय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निरुत्तराय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निरुपद्रवाय नमः । (710)
ॐ नराय नमः ।
ॐ नियन्त्रकल्याणाय नमः ।
ॐ नरसिंहाय नमः ।
ॐ नरेष्टदाय नमः ।
ॐ नारायणाय नमः ।
ॐ नराधीशाय नमः ।
ॐ निवृत्यात्मने नमः ।
ॐ निगूढगाय नमः ।
ॐ नन्दीशाय नमः ।
ॐ नन्दतनयाय नमः । (720)
ॐ नाकेशाय नमः ।
ॐ नरकान्तकाय नमः ।
ॐ पिनाकिने नमः ।
ॐ पङ्कजकराय नमः ।
ॐ पूर्णाय नमः ।
ॐ पूर्णार्थकारकाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ पुण्याय नमः ।
ॐ पटवे नमः ।
ॐ पशुपतये नमः । (730)
ॐ पराय नमः ।
ॐ प्रियंवदाय नमः ।
ॐ प्रियकराय नमः ।
ॐ प्रणवाय नमः ।
ॐ प्रणवार्थकाय नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परञ्ज्योतये नमः ।
ॐ परन्तपाय नमः ।
ॐ परार्थाय नमः । (740)
ॐ परमार्थज्ञाय नमः ।
ॐ परतत्त्वावबोधकाय नमः ।
ॐ परानन्दाय नमः ।
ॐ पराव्यक्ताय नमः ।
ॐ परन्धाम्ने नमः ।
ॐ परोदयाय नमः ।
ॐ पद्रार्चिताय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ पद्मेशाय नमः ।
ॐ पद्मबान्धवाय नमः । (750)
ॐ परेशाय नमः ।
ॐ पार्थवरदाय नमः ।
ॐ पशुपाशविमोचनाय नमः ।
ॐ पार्वतीशाय नमः ।
ॐ पीतवाससे नमः ।
ॐ पुरन्दरसुरार्चिताय नमः ।
ॐ पुण्डरीकाजिनधराय नमः ।
ॐ पुण्डरीकदलेक्षणाय नमः ।
ॐ पुण्डरीकपुराध्यक्षाय नमः ।
ॐ पुण्डरीकसमप्रभाय नमः । (760)
ॐ पुण्यशीलाय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुण्यगम्याय नमः ।
ॐ पुरान्तकाय नमः ।
ॐ पूतनाजीवितहराय नमः ।
ॐ पूतनाम्ने नमः ।
ॐ पुरातनाय नमः ।
ॐ फणिभूषाय नमः ।
ॐ फणिपतये नमः ।
ॐ फणिकुण्डलमण्डिताय नमः । (770)
ॐ फणीन्द्रशायिने नमः ।
ॐ फालाक्षाय नमः ।
ॐ फलभुजे नमः ।
ॐ फलदायकाय नमः ।
ॐ ब्रह्माङ्गघ्ने नमः ।
ॐ बलिध्वंसिने नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मवित्तमाय नमः ।
ॐ ब्रह्मज्योतये नमः ।
ॐ ब्रह्मकृतये नमः । (780)
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मवन्दिताय नमः ।
ॐ ब्रह्मेन्द्रवरदाय नमः ।
ॐ ब्रह्मपारगाय नमः ।
ॐ ब्रह्मवत्सलाय नमः ।
ॐ ब्रह्माण्डविग्रहाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ बृहत्तेजसे नमः ।
ॐ बृहत्तपसे नमः ।
ॐ बहुशक्तये नमः । (790)
ॐ बालरूपाय नमः ।
ॐ बलोन्माथिने नमः ।
ॐ बलोत्कटाय नमः ।
ॐ बन्धुराय नमः ।
ॐ बाणवरदाय नमः ।
ॐ बुधाय नमः ।
ॐ भगाय नमः ।
ॐ भूतपतये नमः ।
ॐ भीमाय नमः ।
ॐ भीष्ममुक्तिप्रदाय नमः । (800)
ॐ भवाय नमः ।
ॐ भाग्यदाय नमः ।
ॐ भगवते नमः ।
ॐ भोगिने नमः ।
ॐ भवाय नमः ।
ॐ भयायु नमः ।
ॐ भयापहाय नमः ।
ॐ भगनेत्रहराय नमः ।
ॐ भद्राय नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः । (810)
ॐ भस्मशायिने नमः ।
ॐ भवानीशाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतनायकाय नमः ।
ॐ भार्गवाय नमः ।
ॐ भार्गवगुरवे नमः ।
ॐ भुक्तिमुक्तिफलप्रदाय नमः ।
ॐ भवप्रियाय नमः ।
ॐ भवद्वेषिणे नमः ।
ॐ भोक्त्रे नमः । (820)
ॐ भुवनपालकाय नमः ।
ॐ महेश्वराय नमः ।
ॐ महायोगिने नमः ।
ॐ महावीराय नमः ।
ॐ महामनसे नमः ।
ॐ महाकर्मणे नमः ।
ॐ महाकीर्तये नमः ।
ॐ महौजसे नमः ।
ॐ महिमोद्धताय नमः ।
ॐ महौषधये नमः । (830)
ॐ महीभर्त्रे नमः ।
ॐ महोदाराय नमः ।
ॐ महामतये नमः ।
ॐ महानन्दाय नमः ।
ॐ महापुण्याय नमः ।
ॐ महाभाग्याय नमः ।
ॐ महागुणाय नमः ।
ॐ महारथाय नमः ।
ॐ महाधन्विने नमः ।
ॐ महाविद्याय नमः । (840)
ॐ महोदयाय नमः ।
ॐ महापातकविध्वंसिने नमः ।
ॐ महोरगवरप्रदाय नमः ।
ॐ महालिङ्गाय नमः ।
ॐ महाशृङ्गाय नमः ।
ॐ महामोहप्रभञ्जनाय नमः ।
ॐ महाप्रभावाय नमः ।
ॐ महिम्ने नमः ।
ॐ मणिमाणिक्यभूषणाय नमः ।
ॐ मृत्युञ्जययाय नमः । (850)
ॐ मधुध्वंसिने नमः ।
ॐ मायेशाय नमः ।
ॐ माधवाय नमः ।
ॐ मुनये नमः ।
ॐ मोहहर्त्रे नमः ।
ॐ मोक्षदात्रे नमः ।
ॐ मुकुन्दाय नमः ।
ॐ मदनान्तकाय नमः ।
ॐ मुरारये नमः ।
ॐ मङ्गलकराय नमः । (860)
ॐ मङ्गलेशाय नमः ।
ॐ मनोहराय नमः ।
ॐ मार्ताण्डमण्डलाङ्कस्थाय नमः ।
ॐ मार्कण्डेयशरण्यदाय नमः ।
ॐ मन्युमते नमः ।
ॐ मन्युफलदाय नमः ।
ॐ मन्यवे नमः ।
ॐ मन्युपतये नमः ।
ॐ महते नमः ।
ॐ यशस्विने नमः । (870)
ॐ यज्ञवाराहाय नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ यज्ञसारथये नमः ।
ॐ यजमानाय नमः ।
ॐ यज्ञपालाय नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञफलप्रदाय नमः ।
ॐ यन्त्रिताघौघसञ्चाराय नमः ।
ॐ यमभीतिहराय नमः ।
ॐ यमिने नमः । (880)
ॐ योगिने नमः ।
ॐ योगजनानन्दाय नमः ।
ॐ योगीशाय नमः ।
ॐ योगदर्शकाय नमः ।
ॐ यतात्मने नमः ।
ॐ यादवपतये नमः ।
ॐ यक्षाय नमः ।
ॐ यक्षसख्यै नमः ।
ॐ यूने नमः ।
ॐ रामार्चिताय नमः । (890)
ॐ रमानाथाय नमः ।
ॐ रुद्राय नमः ।
ॐ रुद्रविमोहनाय नमः ।
ॐ राज्यप्रदाय नमः ।
ॐ रामभद्राय नमः ।
ॐ रम्याय नमः ।
ॐ रामाय नमः ।
ॐ रणाग्रणिने नमः ।
ॐ राजराजार्चितपदाय नमः ।
ॐ रावणारये नमः । (900)
ॐ रणोद्धताय नमः ।
ॐ रथाङ्गपाणये नमः ।
ॐ रुचिराय नमः ।
ॐ रत्नग्रैवेयकाङ्गदाय नमः ।
ॐ रत्नसिंहासनासीनाय नमः ।
ॐ रजताद्रिनिकेतनाय नमः ।
ॐ रत्नाकराय नमः ।
ॐ राजहंसाय नमः ।
ॐ रोचिष्णवे नमः ।
ॐ रोगभेषजाय नमः । (910)
ॐ राकेन्दुवदनाय नमः ।
ॐ रौद्ररूपाय नमः ।
ॐ रौरवतारकाय नमः ।
ॐ लोकबन्धवे नमः ।
ॐ लोकसाक्षिणे नमः ।
ॐ लोकनाथाय नमः ।
ॐ लयातिगाय नमः ।
ॐ लक्ष्याय नमः ।
ॐ लक्ष्यपतये नमः ।
ॐ लक्ष्मीलक्षणाय नमः । (920)
ॐ लक्ष्मणाग्रजाय नमः ।
ॐ लावण्यजलधये नमः ।
ॐ लोलकुण्डलाय नमः ।
ॐ ललिताकृतये नमः ।
ॐ ललामिभूतदहनाय नमः ।
ॐ लाभाय नमः ।
ॐ लङ्केशपालकाय नमः ।
ॐ विश्वामरेश्वराय नमः ।
ॐ विदुषे नमः ।
ॐ वरदाय नमः । (930)
ॐ वासवानुजाय नमः ।
ॐ वामदेवाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ वन्द्याय नमः ।
ॐ विष्णवे नमः ।
ॐ वृषाकपये नमः ।
ॐ वैकुण्ठवासिने नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वभृते नमः ।
ॐ विश्वभावनाय नमः । (940)
ॐ विश्वनाथाय नमः ।
ॐ विश्वधाम्ने नमः ।
ॐ विश्वसृजे नमः ।
ॐ विश्वपालकाय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विश्वदीप्तये नमः ।
ॐ विचक्षणाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विशालाक्षाय नमः । (950)
ॐ वृषाङ्काय नमः ।
ॐ वृषभान्तकाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतमदाय नमः ।
ॐ वीतभीतये नमः ।
ॐ विमत्सराय नमः ।
ॐ वियतात्मने नमः ।
ॐ विधवे नमः ।
ॐ वैद्याय नमः ।
ॐ व्योमकेशाय नमः । (960)
ॐ वियत्पदाय नमः ।
ॐ वाक्पतये नमः ।
ॐ वातरशनाय नमः ।
ॐ वनमालिने नमः ।
ॐ वनेश्वराय नमः ।
ॐ वल्लभाय नमः ।
ॐ वल्लवीनाथाय नमः ।
ॐ वर्याय नमः ।
ॐ वासुकिकङ्कणाय नमः ।
ॐ विष्वक्सेनाय नमः । (970)
ॐ वषट्काराय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदक्षकाय नमः ।
ॐ वाग्मिने नमः ।
ॐ विज्ञानजलधये नमः ।
ॐ वाक्प्रदाय नमः ।
ॐ वाङ्मयाय नमः ।
ॐ विभवे नमः ।
ॐ विधये नमः ।
ॐ विधातृजनकाय नमः । (980)
ॐ वागतीताय नमः ।
ॐ वशंवदाय नमः ।
ॐ वदान्याय नमः ।
ॐ विविधाकाराय नमः ।
ॐ वर्णिने नमः ।
ॐ वर्णाश्रमाधिपाय नमः ।
ॐ व्यासाय नमः ।
ॐ व्याघ्राजिनधराय नमः ।
ॐ वज्रपाणये नमः ।
ॐ विरोचनाय नमः । (990)
ॐ विभावसवे नमः ।
ॐ विविक्तात्मने नमः ।
ॐ विशोकाय नमः ।
ॐ विजराय नमः ।
ॐ विराजे नमः ।
ॐ वेदान्तवेद्याय नमः ।
ॐ वेदात्मने नमः ।
ॐ वराहाय नमः ।
ॐ विषमेक्षणाय नमः ।
ॐ वृन्दारजनमन्दाराय नमः । (1000)
ॐ वाञ्छितार्थफलप्रदाय नमः । (1001)
॥ इति श्री शङ्करनारायण सहस्रनामावलिः सम्पूर्णम् ॥
॥ श्रीशङ्करनारायण अष्टोत्तरशत नामावलिः ॥
Click to show/hide
ध्यानं –
दक्षाङ्गं विद्रुमाभं शशिधरजटिलं पद्मरुद्राक्षभूषम् ।
वामाङ्गं श्यामळाभं मणिमकुटयुतं पीतवैयाघ्रवासम् ॥
दक्षांशेऽभीकिमुद्रांशितसुपरशुंचादधानम् ।
कराभ्यां वन्देऽन्येशङ्खविद्युद्गद-करकमलं शङ्करं केशवार्धम् ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।
ॐ श्रीहरार्ध-हरिरूपाय नमः ।
ॐ पार्वती-कमलाप्रियाय नमः ।
ॐ शङ्ख-पद्मार्चित-शर्वमाधवार्ध-कळेबराय नमः ।
ॐ तमस्सत्वगुणात्मने नमः ।
ॐ शैव-वैष्णव-पूजिताय नमः ।
ॐ चर्मक्षौमाम्बरधराय नमः ।
ॐ ताटङ्क-मकरकुण्डलाय नमः ।
ॐ हरविष्णोर्भेदनाशाय नमः ।
ॐ सर्वसंहार-रक्षकाय नमः ।
ॐ सितार्कवकुळ-स्रग्विणे नमः । (10)
ॐ पञ्चपालन–कृत्यकृते नमः ।
ॐ गोपिस्थ–नेत्रतिलकाय नमः ।
ॐ भस्मचन्द–लेपनाय नमः ।
ॐ परश्वथलसत्-कम्बुपाणिने नमः ।
ॐ भवकेशवाय नमः ।
ॐ जटार्ध-रत्नमकुटाय नमः ।
ॐ गानतुम्बुरु-नारदाय नमः ।
ॐ क्षिप्रदीर्घ-प्रसादिने नमः ।
ॐ सितासित-महातनवे नमः ।
ॐ अभीतिसिम्हाश्रवण-मुद्राङ्कित-कराम्बुजाय नमः । (20)
ॐ भुजङ्ग-कौस्तुभधराय नमः ।
ॐ गरश्रीवत्सलाञ्चनाय नमः ।
ॐ भस्मशेषसुतल्पाय नमः ।
ॐ श्यालजामातृ-रुपवते नमः ।
ॐ शुभ्रनीलाभरसनाय नमः ।
ॐ गजास्य-पितृमातुलाय नमः ।
ॐ कङ्काळ-रत्नहाराड्याय नमः ।
ॐ तुलसी-बिल्व-पूजिताय नमः ।
ॐ कैलासदुग्ध-जलाधिवासाय नमः ।
ॐ विमलनीलकाय नमः । (30)
ॐ कैटभान्तक–हारिणे नमः ।
ॐ वृषपक्षीन्द्र–वाहनाय नमः ।
ॐ गौरीरमा–वल्लभाय नमः ।
ॐ गिर्यब्धिश्व–शुरार्चिताय नमः ।
ॐ उमालक्ष्मी–स्वभार्याय नमः ।
ॐ शिवनारायणाह्वाय नमः ।
ॐ नारदागस्त्य-सेव्याय नमः ।
ॐ नामाष्ट-द्वादशान्विताय नमः ।
ॐ मद्ध्वन्धकासुर-द्वेषिणे नमः ।
ॐ मल्लशार्दूल-भञ्जनाय नमः । (40)
ॐ मुरभस्मासुर-च्चेदिने नमः ।
ॐ विरूपाब्ज-विलोचनाय नमः ।
ॐ पिनाक-शार्ङ्गधन्वने नमः ।
ॐ बलिदक्षमाखान्त-कृते नमः ।
ॐ सुब्रह्मण्य-ब्रह्मताताय नमः ।
ॐ रुद्रविष्णु-मनुस्तुताय नमः ।
ॐ मोक्षभोग-प्रदाय नमः ।
ॐ ज्ञानकर्म-फलप्रदाय नमः ।
ॐ भीमवामन-रूपाय नमः ।
ॐ दामरुद्राक्ष-मौक्तिकाय नमः । (50)
ॐ वामोरुस्थरमापर्णाय नमः ।
ॐ रुद्रमाधव-विग्रहाय नमः ।
ॐ मुक्तेन्द्र-नीलवर्णाय नमः ।
ॐ लिङ्गविग्रह-रूपभृते नमः ।
ॐ कपाल-शङ्ख-हस्ताब्जाय नमः ।
ॐ कृत्तिपीताम्शुका-वृताय नमः ।
ॐ श्मशान-द्वारका-वासिने नमः ।
ॐ भ्राह्मण-क्षत्रियात्मकाय नमः ।
ॐ चन्द्रखण्ड-शिखण्डोद्य-ज्जटामणि-किरीटभृते नमः ।
ॐ शरच्चन्द्र-निभार्धाङ्ग-कालमेघ-निभाकृतये नमः । (60)
ॐ भस्म-त्रिपुण्ड्र-कस्तूरी-तिलकाळि-कमण्डलाय नमः ।
ॐ शिलादपुत्र-सेनेश-विष्वक्सेन-निषेविताय नमः ।
ॐ सुब्रह्मण्य-मनोजात-जनकाय नमः ।
ॐ वेणुशूलभृते नमः ।
ॐ भक्तपत्नीस्वरूपाय नमः ।
ॐ पर्वताब्धि-सुताधिपाय नमः ।
ॐ दारु-बृन्दावनचराय नमः ।
ॐ गिरिदुग्धाब्धि-वासकाय नमः ।
ॐ नागकुण्डल-माणिक्यकुण्डल-श्रवणोज्वलाय नमः ।
ॐ सर्पभोगि-मणि-प्रोद्यन्मेखला-कटिशोभिताय नमः । (70)
ॐ उष्णार्द्ध-शीतळार्द्धाङ्गाय नमः ।
ॐ गजशिक्षण-रक्षणाय नमः ।
ॐ विराड्विक्रम-रूपाय नमः ।
ॐ तीक्ष्णशीताम्शु-सुप्रभाय नमः ।
ॐ पशुपालपतये नमः ।
ॐ त्रिपुर-त्रितलातिगाय नमः ।
ॐ व्रषतार्क्ष्य-द्ध्वजोपेताय नमः ।
ॐ गुरुशिष्य-स्वभावकाय नमः ।
ॐ पूज्यपुजक-भावाय नमः ।
ॐ वन्द्यवन्दन-तत्पराय नमः । (80)
ॐ यज्ञेशयज्ञ-पुरुषाय नमः ।
ॐ मूकमारीच-भञ्जनाय नमः ।
ॐ किरात-गोपवेषाय नमः ।
ॐ पिष्टदुग्द्धरसोत्सुखाय नमः ।
ॐ मोहमोहिनी-रूपाड्याय नमः ।
ॐ शास्त्रतात-महाप्रसुवे नमः ।
ॐ मृगचक्रलसत्-पाणिने नमः ।
ॐ अनाद्यादि-समुद्भवाय नमः ।
ॐ जगत्-बीजाचलायिताय नमः ।
ॐ कङ्कणायित-नागाधिप-सुखतल्प-शेषकाय नमः । (90)
ॐ प्रळयाग्नि-शिखापद्म-धारकाय नमः ।
ॐ द्वत्रिलोचनाय नमः ।
ॐ आनन्दानन्द-बोधाय नमः ।
ॐ नित्यानित्यावतारकाय नमः ।
ॐ पितृमातृ-स्वरूपाय नमः ।
ॐ नित्यस्थान्त-दिनावधये नमः ।
ॐ परेशजीवरूपाय नमः ।
ॐ जगत्कारण-कार्यकाय नमः ।
ॐ उद्यन्मुखैक-पञ्चास्याय नमः ।
ॐ मुक्तिकाम्य-फलप्रदाय नमः । (100)
ॐ ब्रह्मशीर्ष-हरोत्पत्ति-स्थानाय नमः ।
ॐ विश्वाति-रूपभागवे नमः ।
ॐ प्रथिवीतनु-भोक्ताय नमः ।
ॐ पार्थाभीष्टदसारथये नमः ।
ॐ विश्वेश-विश्वरूपाय नमः ।
ॐ मोक्षभोग-फलप्रदाय नमः ।
ॐ श्रीशङ्करनारायणस्वामिने नमः । (107)
॥ इति श्रीशङ्करनारायण अष्टोत्तरशत नामावलिः सम्पुर्णम् ॥
॥ श्री गोमत्यम्बा अष्टकम् ॥
Click to show/hide
भूकैलासे मनोज्ञे भुवनवनवृते नागतीर्थोपकण्ठे
रत्नप्रकारमध्ये रविचन्द्रमहायोगपीठे निषण्णम् ।
संसारव्याधिवैद्यं सकलजननुतं शङ्खपद्मार्चिताङ्घ्रिं
गोमत्यम्बासमेतं हरिहरवपुषं शङ्करेशं नमामि ॥
लक्ष्मीवाणीनिषेविताम्बुजपदां लावण्यशोभां शिवां
लक्ष्मीवल्लभपद्मसम्भवनुतां लम्बोदरोल्लासिनीम् ।
नित्यं कौशिकवन्द्यमानचरणां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 1 ॥
देवीं दानवराजदर्पहरिणीं देवेन्द्रसम्पत्प्रदां
गन्धर्वोरगयक्षसेवितपदां श्रीशैलमध्यस्थिताम् ।
जातीचम्पकमल्लिकादिकुसुमैः संशोभिताङ्घ्रिद्वयां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 2 ॥
उद्यत्कोटिविकर्तनद्युतिनिभां मौर्वीं भवाम्भोनिधेः
उद्यत्तारकनाथतुल्यवदनामुद्योतयन्तीं जगत् ।
हस्तन्यस्तशुकप्रणाळसहितां हर्षप्रदामम्बिकां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 3 ॥
कल्याणीं कमनीयमूर्तिसहितां कर्पूरदीपोज्ज्वलां
कर्णान्तायतलोचनां कळरवां कामेश्वरीं शङ्करीम् ।
कस्तूरितिलकोज्ज्वलां सकरुणां कैवल्यसौख्यप्रदां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 4 ॥
वैडूर्यादिसमस्तरत्नखचिते कल्याणसिंहासने
स्थित्वाऽशेषजनस्य पालनकरीं श्रीराजराजेश्वरीम् ।
भक्ताभीष्टफलप्रदां भयहरां भण्डस्य युद्धोत्सुकां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 5 ॥
शैलाधीशसुतां सरोजनयनां सर्वाघविध्वंसिनीं
सन्मार्गस्थितलोकरक्षणपरां सर्वेश्वरीं शाम्भवीम् ।
नित्यं नारदतुम्बुरुप्रभृतिभिर्वीणाविनोदस्थितां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 6 ॥
पापारण्यदवानलां प्रभजतां भाग्यप्रदां भक्तिदां
भक्तापत्कुलशैलभेदनपविं प्रत्यक्षमूर्तिं पराम् ।
मार्कण्डेयपराशरादिमुनिभिः संस्तूयमानामुमां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 7 ॥
श्वेतारण्यनिवासिनीं प्रतिदिनं स्तोत्रेण पूर्णाननां
त्वत्पादाम्बुजसक्तपूर्णमनसां स्तोकेतरेष्टप्रदाम् ।
नानावाद्यवैभवशोभितपदां नारायणस्यानुजां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ 8 ॥
॥ इति श्रीगोमत्यम्बाष्टकं सम्पूर्णम् ॥
॥ श्रीशिव अष्टोत्तरशत दिव्यस्थानीयनाम स्तोत्रम् ॥
Click to show/hide
अष्टोत्तरशतं भूमौ स्थितं क्षेत्रं वदाम्यहम्।
कैवल्यशैले श्रीकण्ठः केदारो हिमवत्यपि॥ 1 ॥
काशीपुर्यां विश्वनाथः श्रीशैले मल्लिकार्जुनः।
प्रयागे नीलकण्ठेशो गयायां रुद्रनामकः॥ 2 ॥
नीलकण्ठेश्वरः साक्षात् कालञ्जरपुरे शिवः।
द्राक्षारामे तु भीमेशो मायूरे चाम्बिकेश्वरः॥ 3 ॥
ब्रह्मावर्ते देवलिङ्गः प्रभासे शशिभूषणः।
वृषध्वजाभिधः श्रीमतिश्श्वेतहस्तिपुरेश्वरः॥ 4 ॥
गोकर्णेशस्तु गोकर्णे सोमेशः सोमनाथके।
श्रीरूपाख्ये त्यागराजो वेदे वेदपुरीश्वरः॥ 5 ॥
भीमारामे तु भीमेशो मन्थने कालिकेश्वरः।
मधुरायां चोक्कनाथो मानसे माधवेश्वरः॥ 6 ॥
श्रीवाञ्छके चम्पकेशः पञ्चवट्यां वटेश्वरः।
गजारण्ये तु वैद्येशस्तीर्थाद्रौ तीर्थकेश्वरः॥ 7 ॥
कुम्भकोणे तु कुम्भेशो लेपाक्ष्यां पापनाशनः।
कण्वपुर्यां तु कण्वेशो मध्ये मध्यार्जुनेश्वरः॥ 8 ॥
हरिहरपुरे श्रीशङ्करनारायणेश्वरः।
विरञ्चिपुर्यां मार्गेशः पञ्चनद्यां गिरीश्वरः॥ 9 ॥
पम्पापुर्यां विरूपाक्षः सोमाद्रौ मल्लिकार्जुनः।
त्रिमकूटे त्वगस्त्येशः सुब्रह्मण्येऽहिपेश्वरः॥ 10 ॥
महाबलेश्वरःसाक्षान्महाबलशिलोच्चये।
रविणा पूजितो दक्षिणावर्तेऽर्केश्वरः स्वयम्॥ 11॥
वेदारण्ये महापुण्ये वेदारण्येश्वराभिधः।
मूर्तित्रयात्मकः सोमपुर्यां सोमेश्वराभिधः॥ 12 ॥
अवन्त्यां रामलिङ्गेशः काश्मीरे विजयेश्वरः।
महानन्दिपुरे साक्षान्महानन्दिपुरेश्वरः॥ 13 ॥
कोटितीर्थे तु कोटीशो वृद्धे वृद्धाचलेश्वरः।
महापुण्ये तत्र ककुद्गिरौ गङ्गाधरेश्वरः॥ 14 ॥
चामराज्याख्यनगरे चामराजेश्वरः स्वयम्।
नन्दीश्वरो नन्दिगिरौ चण्डेशो बधिराचले॥ 15 ॥
नञ्जुण्डेशो गरपुरे शतशृङ्गे।
घनानन्दाचले सोमो नल्लूरे विमलेश्वरः॥ 16 ॥
नीडानाथपुरे साक्षान्नीडानाथेश्वरः स्वयम्।
एकान्ते रामलिङ्गेशः श्रीनागे कुण्डलीश्वरः॥ 17 ॥
श्रीकन्यायां त्रिभङ्गीश उत्सङ्गे राघवेश्वरः।
मत्स्यतीर्थे तु तीर्थेशस्त्रिकूटे ताण्डवेश्वरः॥ 18 ॥
प्रसन्नाख्यपुरे मार्गसहायेशो वरप्रदः।
गण्डक्यां शिवनाभस्तु श्रीपतौ श्रीपतीश्वरः॥ 19 ॥
धर्मपुर्यां धर्मलिङ्गः कन्याकुब्जे कलाधरः।
वाणिग्रामे विरिञ्चेशो नेपाले नकुलेश्वरः॥ 20 ॥
मार्कण्डेयो जगन्नाथे स्वयम्भूर्नर्मदातटे।
धर्मस्थले मञ्जुनाथो व्यासेशस्तु त्रिरूपके॥ 21 ॥
स्वर्णावत्यां कलिङ्गेशो निर्मले पन्नगेश्वरः।
पुण्डरीके जैमिनीशोऽयोध्यायां मधुरेश्वरः॥ 22 ॥
सिद्धवट्यां तु सिद्धेशः श्रीकूर्मे त्रिपुरान्तकः।
मणिकुण्डलतीर्थे तु मणिमुक्तानदीश्वरः॥ 23 ॥
वटाटव्यां कृत्तिवासास्त्रिवेण्यां सङ्गमेश्वरः।
स्तनिताख्ये तु मल्लेश इन्द्रकीलेऽर्जुनेश्वरः॥ 24 ॥
शेषाद्रौ कपिलेशस्तु पुष्पे पुष्पगिरीश्वरः।
भुवनेशश्चित्रकूटे तूज्जिन्यां कालिकेश्वरः॥ 25 ॥
ज्वालामुख्यां शूलटङ्को मङ्गल्यां सङ्गमेश्वरः।
बृहतीशस्तञ्जापुर्यां रामेशो वह्निपुष्करे॥ 26 ॥
लङ्काद्वीपे तु मत्स्येशः कूर्मेशो गन्धमादने।
विन्ध्याचले वराहेशो नृसिंहः स्यादहोबिले॥ 27 ॥
कुरुक्षेत्रे वामनेशस्ततः कपिलतीर्थके।
तथा परशुरामेशः सेतौ रामेश्वराभिधः॥ 28 ॥
साकेते बलरामेशो बौद्धेशो वारणावते।
तत्त्वक्षेत्रे च कल्कीशः कृष्णेशः स्यान्महेन्द्रके॥ 29 ॥
॥ इति श्रीललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशत दिव्यस्थानीयनाम स्तोत्रं सम्पूर्णम्॥
॥ श्रीशिव अष्टोत्तरशत दिव्यस्थानीय नामावलिः ॥
Click to show/hide
ओं कैवल्यशैले श्रीकण्ठाय नमः ।
ओं हिमवति केदाराय नमः ।
ओं काशीपुर्यां विश्वनाथाय नमः ।
ओं श्रीशैले मल्लिकार्जुनाय नमः ।
ओं प्रयागे नीलकण्ठेशाय नमः ।
ओं गयायां रुद्राय नमः ।
ओं कालञ्जरपुरे नीलकण्ठेश्वराय नमः ।
ओं द्राक्षारामे भीमेशाय नमः ।
ओं मायूरे अम्बिकेश्वराय नमः ।
ओं ब्रह्मावर्ते देवलिङ्गाय नमः । (10)
ओं प्रभासे शशिभूषणाय नमः ।
ओं श्वेतहस्तिपुरे श्रीमते वृषध्वजाय नमः ।
ओं गोकर्णे गोकर्णेशाय नमः ।
ओं सोमनाथके सोमेशाय नमः ।
ओं श्रीरूपे त्यागराजाय नमः ।
ओं वेदे वेदपुरीश्वराय नमः ।
ओं भीमारामे भीमेशाय नमः ।
ओं मन्थने कालिकेश्वराय नमः ।
ओं मधुरायां चोक्कनाथाय नमः ।
ओं मानसे माधवेश्वराय नमः । (20)
ओं श्रीवाञ्छके चम्पकेशाय नमः ।
ओं पञ्चवट्यां वटेश्वराय नमः ।
ओं गजारण्ये वैद्येशाय नमः ।
ओं तीर्थाद्रौ तीर्थकेश्वराय नमः ।
ओं कुम्भकोणे कुम्भेशाय नमः ।
ओं लेपाक्ष्यां पापनाशनाय नमः ।
ओं कण्वपुर्यां कण्वेशाय नमः ।
ओं मध्ये मध्यार्जुनेश्वराय नमः ।
ओं हरिहरपुरे श्रीशङ्करनारायणेश्वराय नमः ।
ओं विरञ्चिपुर्यां मार्गेशाय नमः । (30)
ओं पञ्चनद्यां गिरीश्वराय नमः ।
ओं पम्पापुर्यां विरूपाक्षाय नमः ।
ओं सोमाद्रौ मल्लिकार्जुनाय नमः ।
ओं त्रिमकूटे अगस्त्येशाय नमः ।
ओं सुब्रह्मण्ये अहिपेश्वराय नमः ।
ओं महाबलशिलोच्चये महाबलेश्वराय नमः ।
ओं दक्षिणावर्ते अर्केश्वराय नमः ।
ओं महापुण्ये वेदारण्ये वेदारण्येश्वराय नमः ।
ओं सोमपुर्यां मूर्तित्रयात्मकाय सोमेश्वराय नमः ।
ओं अवन्त्यां रामलिङ्गेशाय नमः । (40)
ओं काश्मीरे विजयेश्वराय नमः ।
ओं महानन्दिपुरे महानन्दिपुरेश्वराय नमः ।
ओं कोटितीर्थे कोटीशाय नमः ।
ओं वृद्धे वृद्धाचलेश्वराय नमः ।
ओं महापुण्ये ककुद्गिरौ गङ्गाधरेश्वराय नमः ।
ओं चामराज्यनगरे चामराजेश्वराय नमः ।
ओं नन्दिगिरौ नन्दीश्वराय नमः ।
ओं बधिराचले चण्डेशाय नमः ।
ओं गरपुरे नञ्जुण्डेशाय नमः ।
ओं शतशृङ्गे अधिपेश्वराय नमः । (50)
ओं घनानन्दाचले सोमाय नमः ।
ओं नल्लूरे विमलेश्वराय नमः ।
ओं नीडानाथपुरे नीडानाथेश्वराय नमः ।
ओं एकान्ते रामलिङ्गेशाय नमः ।
ओं श्रीनागे कुण्डलीश्वराय नमः ।
ओं श्रीकन्यायां त्रिभङ्गीशाय नमः ।
ओं उत्सङ्गे राघवेश्वराय नमः ।
ओं मत्स्यतीर्थे तीर्थेशाय नमः ।
ओं त्रिकूटे ताण्डवेश्वराय नमः ।
ओं प्रसन्नपुरे मार्गसहायेशाय नमः । (60)
ओं गण्डक्यां शिवनाभाय नमः ।
ओं श्रीपतौ श्रीपतीश्वराय नमः ।
ओं धर्मपुर्यां धर्मलिङ्गाय नमः ।
ओं कन्याकुब्जे कलाधराय नमः ।
ओं वाणिग्रामे विरिञ्चेशाय नमः ।
ओं नेपाले नकुलेश्वराय नमः ।
ओं जगन्नाथे मार्कण्डेयाय नमः ।
ओं नर्मदातटे स्वयम्भुवे नमः ।
ओं धर्मस्थले मञ्जुनाथाय नमः ।
ओं त्रिरूपके व्यासेशाय नमः । (70)
ओं स्वर्णावत्यां कलिङ्गेशाय नमः ।
ओं निर्मले पन्नगेश्वराय नमः ।
ओं पुण्डरीके जैमिनीशाय नमः ।
ओं अयोध्यायां मधुरेश्वराय नमः ।
ओं सिद्धवट्यां सिद्धेशाय नमः ।
ओं श्रीकूर्मे त्रिपुरान्तकाय नमः ।
ओं मणिकुण्डलतीर्थे मणिमुक्तानदीश्वराय नमः ।
ओं वटाटव्यां कृत्तिवाससे नमः ।
ओं त्रिवेण्यां सङ्गमेश्वराय नमः ।
ओं स्तनितायां मल्लेशाय नमः । (80)
ओं इन्द्रकीले अर्जुनेश्वराय नमः ।
ओं शेषाद्रौ कपिलेशाय नमः ।
ओं पुष्पे पुष्पगिरीश्वराय नमः ।
ओं चित्रकूटे भुवनेशाय नमः ।
ओं उज्जिन्यां कालिकेश्वराय नमः ।
ओं ज्वालामुख्यां शूलटङ्काय नमः ।
ओं मङ्गल्यां सङ्गमेश्वराय नमः ।
ओं तञ्जापुर्यां बृहतीशाय नमः ।
ओं वह्निपुष्करे रामेशाय नमः ।
ओं लङ्काद्वीपे मत्स्येशाय नमः । (90)
ओं गन्धमादने कूर्मेशाय नमः ।
ओं विन्ध्याचले वराहेशाय नमः ।
ओं अहोबिले नृसिंहाय नमः ।
ओं कुरुक्षेत्रे वामनेशाय नमः ।
ओं कपिलतीर्थके परशुरामेशाय नमः ।
ओं सेतौ रामेश्वराय नमः ।
ओं साकेते बलरामेशाय नमः ।
ओं वारणावते बौद्धेशाय नमः ।
ओं तत्त्वक्षेत्रे कल्कीशाय नमः ।
ओं महेन्द्रके कृष्णेशाय नमः । (100)
॥ इति श्रीललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशत दिव्यस्थानीयनामावलिः सम्पूर्णम्॥