॥ श्री महाराज्ञी पूजा विधानम् ॥
॥ श्री महाराज्ञी महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री महाराज्ञी महामन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।
गायत्री छ्न्दः (मुखे) । श्री भूतेश्वरी महाराज्ञी देवता (हृदये) ।
ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।
मम श्री महाराज्ञी प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)॥
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
उत्कीलनम् – रां ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै स्वाहा ॐ॥ (दशवारं)
सञ्जीवनम् – हूं ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै स्वाहा फट् ॥ (दशवारं)
शापविमोचनं – ॐ रां सौः राज्ञी ब्रह्मशापं विमोचय चिमोचय स्वाहा ॥ (दशवारं)
ध्यानं –
उद्यद्दिवाकर सहस्ररुचिं त्रिनेत्रां
सिंहासनोपरि गतामुर गोपवीतिम् ।
खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीम्
भजामि विकसद्वदनारविन्दाम् ॥
चतुर्भुजां चन्द्रकलार्धशेखराम्
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह खड्गगधारिणीं राज्ञीम्
भजे चेतसि राज्यदायिनीम् ॥
अन्य ध्यानं –
अष्टाविंशतिनैजमान्यमुनिभिः भाव्यां महायोगिभिः
श्रीवाणीकरवीजितां सुमकुटां श्रीचक्रबिन्दुस्थिताम् ।
पञ्चब्रह्मसुतत्वमञ्चनिलयां साम्राज्यसिद्धिप्रदां
श्रीसिंहासनसुन्दरीं भगवतीं राजेश्वरीमाश्रये ॥
श्वेतछत्रसुवालवीजननुता मालाकिरीटोज्ज्वला
सन्मन्दस्मितसुन्दरी शशिधरा ताम्बूलपूर्णानना ।
श्रीसिंहासनसंस्थिता सुमशरा श्रीवीरवर्यासना
साम्राज्ञी मनुषोडशी भगवती मां पातु राजेश्वरी ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
मूलमन्त्रः – ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा ॥ (पञ्चदशाक्षरी) (108 वारं)
गायत्री मन्त्रः – ॐ राज्यप्रदायै विद्महे ह्रीं पञ्चदशाक्षर्यै धीमहि तन्नो महाराज्ञी प्रचोदयात् ॥ (108 वारं)
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानम् –
उद्यद्दिवाकर सहस्ररुचिं त्रिनेत्राम्
सिंहासनोपरि गतामुर गोपवीतिम् ।
खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीम्
भजामि विकसद्वदनारविन्दाम् ॥
चतुर्भुजां चन्द्रकलार्धशेखराम्
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह खड्गगधारिणीं राज्ञीम्
भजे चेतसि राज्यदायिनीम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
॥ श्री महाराज्ञी आवरण पूजा क्रमः ॥
Click to show/hide
मूलमन्त्र न्यासः –
ॐ नमः – ब्रह्मरन्ध्रे ।
ह्रीं नमः – शिरसि ।
श्रीं नमः – नेत्रयोः ।
रां नमः – कर्णयोः ।
क्लीं नमः – नासाग्रे ।
सौः नमः – मुखे ।
भं नमः – कण्ठे ।
गं नमः – भुजयोः ।
वं नमः – वक्षसि ।
त्यैं नमः – कुक्षौ ।
रां नमः – नाभौ ।
ज्ञ्यैं नमः – गुह्ये ।
ह्रीं नमः – जान्वोः ।
स्वां नमः – जङ्घयोः ।
हां नमः – सर्वाङ्गेषु ।
षडङ्गन्यासः –
ॐ ह्रां श्रां हृदयाय नमः ।
ॐ ह्रीं श्रीं शिरसे स्वाहा ।
ॐ ह्रूं श्रूं शिखायै वषट् ।
ॐ ह्रैं श्रैं कवचाय हुं ।
ॐ ह्रौं श्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः श्रः अस्त्राय फट् ।
ॐ रां अङ्गुष्ठाभ्यां नमः ।
ॐ रीं तर्जनीभ्यां नमः ।
ॐ रूं मध्यमाभ्यां नमः ।
ॐ रैं अनामिकाभ्यां नमः ।
ॐ रौं कनिष्ठिकाभ्यां नमः ।
ॐ रः करतलकरपृष्ठाभ्यां नमः ।
ॐ रां हृदयाय नमः ।
ॐ रीं शिरसे स्वाहा ।
ॐ रूं शिखायै वषट् ।
ॐ रैं कवचाय हुं ।
ॐ रौं नेत्रत्रयाय वौषट् ।
ॐ रः अस्त्राय फट् ।
ॐ सौः क्लां अङ्गुष्ठाभ्यां नमः ।
ॐ सौः क्लीं तर्जनीभ्यां नमः ।
ॐ सौः क्लूं मध्यमाभ्यां नमः ।
ॐ सौः क्लैं अनामिकाभ्यां नमः ।
ॐ सौः क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ सौः क्लः करतलकरपृष्ठाभ्यां नमः ।
पीठन्यासः –
ॐ ह्रीं जालन्धरपीठाय नमः – मूलाधारे ।
ॐ श्रीं उड्डीयानपीठाय नमः – स्वाधिष्ठाने ।
ॐ रां कामरूपपीठाय नमः – अनाहते ।
ॐ क्लीं मधुपुरीपीथाय नमः – मणिपूरे ।
ॐ सौः वाराणसीपीठाय नमः – विशुद्धौ ।
ॐ ह्रीं अनन्तपीठाय नमः – आज्ञायां ।
ॐ स्वाहा शारदापीठाय नमः – ब्रह्मरन्ध्रे ।
शुद्धमातृका न्यासः –
ॐ अं कं खं गं घं आं अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः ।
ॐ श्रीं उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः ।
ॐ रां एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं ओं पं फं बं भं औं कनिष्ठिकाभ्यां नमः ।
ॐ सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः ।
ॐ अं कं खं गं घं आं हृदयाय नमः ।
ॐ ह्रीं इं चं छं जं झं ञं ईं शिरसे स्वाहा ।
ॐ श्रीं उं टं ठं डं ढं णं ऊं शिखायै वषट् ।
ॐ रां एं तं थं दं धं नं ऐं कवचाय हुं ।
ॐ क्लीं ओं पं फं बं भं औं नेत्रत्रयाय वौषट् ।
ॐ सौः अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् ।
ॐ ह्रीं श्रीं रां क्लीं सौः अं नमः हंसः – शिरसि ।
ॐ ह्रीं श्रीं रां क्लीं सौः आं नमः हंसः – मुखवृते ।
ॐ ह्रीं श्रीं रां क्लीं सौः इं नमः हंसः – दक्षनेत्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ईं नमः हंसः – वामनेत्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः उं नमः हंसः – दक्षकर्णे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ऊं नमः हंसः – वामकर्णे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ऋं नमः हंसः – दक्षनासापुटे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ॠं नमः हंसः – वामनासापुटे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ऌं नमः हंसः – दक्षकपोले ।
ॐ ह्रीं श्रीं रां क्लीं सौः ॡं नमः हंसः – वामकपोले ।
ॐ ह्रीं श्रीं रां क्लीं सौः एं नमः हंसः – ऊर्ध्वोष्ठे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ऐं नमः हंसः – अधरोष्ठे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ओं नमः हंसः – ऊर्ध्वदन्तपङ्क्तौ ।
ॐ ह्रीं श्रीं रां क्लीं सौः औं नमः हंसः – अधोदन्तपङ्क्तौ ।
ॐ ह्रीं श्रीं रां क्लीं सौः अं नमः हंसः – जिह्वाग्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः अः नमः हंसः – कण्ठे ।
ॐ ह्रीं श्रीं रां क्लीं सौः कं नमः हंसः – दक्षबाहुमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः खं नमः हंसः – दक्षकूर्परे ।
ॐ ह्रीं श्रीं रां क्लीं सौः गं नमः हंसः – दक्षमणिबन्धे ।
ॐ ह्रीं श्रीं रां क्लीं सौः घं नमः हंसः – दक्षकराङ्गुलिमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः ङं नमः हंसः – दक्षकराङ्गुल्यग्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः चं नमः हंसः – वामबाहुमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः छं नमः हंसः – वामकूर्परे ।
ॐ ह्रीं श्रीं रां क्लीं सौः जं नमः हंसः – वाममणिबन्धे ।
ॐ ह्रीं श्रीं रां क्लीं सौः झं नमः हंसः – वामकराङ्गुलिमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः ञं नमः हंसः – वामकराङ्गुल्यग्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः टं नमः हंसः – दक्षोरुमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः ठं नमः हंसः – दक्षजानुनी ।
ॐ ह्रीं श्रीं रां क्लीं सौः डं नमः हंसः – दक्षगुल्फे ।
ॐ ह्रीं श्रीं रां क्लीं सौः ढं नमः हंसः – दक्षपादाङ्गुलिमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः णं नमः हंसः – दक्षपादाङ्गुल्यग्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः तं नमः हंसः – वामोरुमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः थं नमः हंसः – वामजानुनी ।
ॐ ह्रीं श्रीं रां क्लीं सौः दं नमः हंसः – वामगुल्फे ।
ॐ ह्रीं श्रीं रां क्लीं सौः धं नमः हंसः – वामपादाङ्गुलिमूले ।
ॐ ह्रीं श्रीं रां क्लीं सौः नं नमः हंसः – वामपादाङ्गुल्यग्रे ।
ॐ ह्रीं श्रीं रां क्लीं सौः पं नमः हंसः – दक्षपार्श्वे ।
ॐ ह्रीं श्रीं रां क्लीं सौः फं नमः हंसः – वामपार्श्वे ।
ॐ ह्रीं श्रीं रां क्लीं सौः बं नमः हंसः – पृष्ठे ।
ॐ ह्रीं श्रीं रां क्लीं सौः भं नमः हंसः – नाभौ ।
ॐ ह्रीं श्रीं रां क्लीं सौः मं नमः हंसः – जठरे ।
ॐ ह्रीं श्रीं रां क्लीं सौः यं नमः हंसः – हृदये ।
ॐ ह्रीं श्रीं रां क्लीं सौः रं नमः हंसः – दक्षकक्षे ।
ॐ ह्रीं श्रीं रां क्लीं सौः लं नमः हंसः – गलपृष्ठे ।
ॐ ह्रीं श्रीं रां क्लीं सौः वं नमः हंसः – वामकक्षे ।
ॐ ह्रीं श्रीं रां क्लीं सौः शं नमः हंसः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।
ॐ ह्रीं श्रीं रां क्लीं सौः षं नमः हंसः – हृदयादिवामकरान्ङ्गुल्यन्ते ।
ॐ ह्रीं श्रीं रां क्लीं सौः सं नमः हंसः – हृदयादिदक्षपादान्ङ्गुल्यन्ते ।
ॐ ह्रीं श्रीं रां क्लीं सौः हं नमः हंसः – हृदयादिवामपादान्ङ्गुल्यन्ते ।
ॐ ह्रीं श्रीं रां क्लीं सौः ळं नमः हंसः – कट्यादिपादाङ्गुल्यन्तं ।
ॐ ह्रीं श्रीं रां क्लीं सौः क्षं नमः हंसः – कट्यादिब्रह्मरन्ध्रान्तं ।
तत्त्वन्यासः –
ॐ आत्मतत्त्वाय अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विद्यातत्त्वाय तर्जनीभ्यां स्वाहा ।
ॐ श्रीं शिवतत्त्वाय मध्यमाभ्यां वषट् ।
ॐ रां शक्तितत्त्वाय अनामिकाभ्यां हुं ।
ॐ क्लीं शिवतत्त्वाय कनिष्ठिकाभ्यां नमः ।
ॐ सौः सर्वतत्त्वाय करतलकरपृष्ठाभ्यां फट् ।
ॐ आत्मतत्त्वाय हृदयाय नमः ।
ॐ ह्रीं विद्यातत्त्वाय शिरसे स्वाहा ।
ॐ श्रीं शिवतत्त्वाय शिखायै वषट् ।
ॐ रां शक्तितत्त्वाय कवचाय हुं ।
ॐ क्लीं शिवतत्त्वाय नेत्रेभ्यो नमः ।
ॐ सौः सर्वतत्त्वाय अस्त्राय फट् ।
पीठपूजा –
ॐ ह्रीं मण्डूकाय नमः ।
ॐ ह्रीं कालाग्निरुद्राय नमः ।
ॐ ह्रीं मूलप्रकृत्यै नमः ।
ॐ ह्रीं आधारशक्त्यै नमः ।
ॐ ह्रीं वराहाय नमः ।
ॐ ह्रीं कुर्माय नमः ।
ॐ ह्रीं अनन्ताय नमः ।
ॐ ह्रीं पृथिव्यै नमः ।
ॐ ह्रीं सुधाम्बुधये नमः ।
ॐ ह्रीं सुवर्णद्वीपाय नमः ।
ॐ ह्रीं कल्पवनाय नमः ।
ॐ ह्रीं मणिगेहाय नमः ।
ॐ ह्रीं रत्नवेदिकायै नमः ।
ॐ ह्रीं चिन्तामणिमण्डपाय नमः ।
ॐ ह्रीं श्मशानाय नमः ।
ॐ ह्रीं धर्माय नमः ।
ॐ ह्रीं ज्ञानाय नमः ।
ॐ ह्रीं वैराग्याय नमः ।
ॐ ह्रीं ऐश्वर्याय नमः ।
ॐ ह्रीं अधर्माय नमः ।
ॐ ह्रीं अज्ञानाय नमः ।
ॐ ह्रीं अवैराग्याय नमः ।
ॐ ह्रीं अनैश्वर्याय नमः ।
ॐ ह्रीं रं वह्निमण्डलाय नमः ।
ॐ ह्रीं अं अर्कमण्डलाय नमः ।
ॐ ह्रीं सों सोममण्डलाय नमः ।
ॐ ह्रीं तं तमसे नमः ।
ॐ ह्रीं रं रजसे नमः ।
ॐ ह्रीं सं सत्त्वाय नमः ।
ॐ ह्रीं सहस्रदलकमलाय नमः ।
ॐ ह्रीं संविन्नालाय नमः ।
ॐ ह्रीं प्रकृतिमयपत्रेभ्यो नमः ।
ॐ ह्रीं विकितुमयकेसरेभ्यो नमः ।
ॐ ह्रीं पञ्चाशद्बीजभूषितकर्णिकायै नमः ।
ॐ ह्रीं वामायै नमः ।
ॐ ह्रीं ज्येष्ठायै नमः ।
ॐ ह्रीं रौद्र्यै नमः ।
ॐ ह्रीं काल्यै नमः ।
ॐ ह्रीं कलविकरण्यै नमः ।
ॐ ह्रीं बलविकरण्यै नमः ।
ॐ ह्रीं बलप्रमथिण्यै नमः ।
ॐ ह्रीं सर्वभूतदमन्यै नमः ।
ॐ ह्रीं मनोन्मन्यै नमः ।
ॐ ह्रीं सकलगुणात्मक शक्तियुक्ताय संयोग योगपीठात्मिकायै नमः ।
श्री महाराज्ञी ध्यानं –
उद्यद्दिवाकर सहस्ररुचिं त्रिनेत्राम्
सिंहासनोपरि गतामुर गोपवीतिम् ।
खड्गाम्बुजाढ्यकलशामृतपात्रहस्तां राज्ञीम्
भजामि विकसद्वदनारविन्दाम् ॥
चतुर्भुजां चन्द्रकलार्धशेखराम्
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह खड्गगधारिणीं राज्ञीम्
भजे चेतसि राज्यदायिनीम् ॥
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञीं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी सन्निरुद्धो भव । सनिरुद्ध मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ जय जय जगन्माता यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । आसनं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । वस्त्राणि कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । आभरणनि कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । धूपं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । दीपं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । नैवेद्यं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञ्यै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।
अनुज्ञां महाराज्ञीं देहि परिवारार्चनाय मे ॥
लयाङ्ग तर्पणम् –
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम् (बिन्दौ) –
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्रीभूतेश्वर भूतेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्रीमहाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं राज्यप्रदायै नमः । श्रीराज्यप्रदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पञ्चदशाक्षर्यै नमः । श्रीपञ्चदशाक्षरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भूतेश्वराय नमः । भुतेश्वर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कलशाय नमः । कलश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सुधापात्राय नमः । सुधापात्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
द्वितीयावरणम् (त्रिकोणे) –
ॐ ह्रीं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं बालायै नमः । बाला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तृतीयावरणम् (षट्कोणे) –
ॐ ह्रीं दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शारिकायै नमः । शारिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वैखर्यै नमः । वैखरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शिवायै नमः । शिवा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कालिकायै नमः । कालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं त्रिपुरायै नमः । त्रिपुरा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
तुरीयावरणम् (अष्टदल) –
ॐ ह्रीं वासुकिने नमः । वासुकी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं नीलनागाय नमः । नीलनाग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं तक्षकाय नमः । तक्षक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पद्मनागाय नमः । पद्मनाग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कार्कोटकाय नमः । कार्कोटक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शङ्खपालाय नमः । शङ्खपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कुलिकाय नमः । कुलिक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शेषनागाय नमः । शेषनाग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं असिताङ्गभैरव युत ब्राह्म्यै नमः । असिताङ्ग भैरव युत ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं रुरुभैरव युत वैष्णव्यै नमः । रुरु भैरव युत वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं चण्ड भैरव युत रुद्राण्यै नमः । चण्ड भैरव युत रुद्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं क्रोध भैरव युत अपराजितायै नमः । क्रोध भैरव युत अपराजित श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं उन्मत्त भैरव युत कौमार्यै नमः । उन्मत्त भैरव युत कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भीषण भैरव युत चामुण्डायै नमः । भीषण भैरव युत चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कपालि भैरव युत वाहाह्यै नमः । कपालि भैरव युत वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं संहार भैरव युत नारसिंह्यै नमः । संहार भैरव युत नारसिंही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चमावरणम् (वृत्तत्रये) –
ॐ ह्रीं श्रीगुरुभ्यो नमः । श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं परमगुरुभ्यो नमः । परमगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं परापरगुरुभ्यो नमः । परापरगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं परमेष्ठिगुरुभ्यो नमः । परमेष्ठिगुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
षष्ठावरणम् (भुपुरे) –
ॐ ह्रीं गं गणपतये नमः । गणपति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं भीं भीमराजाय नमः । भीमराज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं कुं कुमाराय नमः । कुमार श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं क्षां निरृतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ ह्रीं श्रीं रां क्लीं सौः भगवत्यै राज्ञ्यै ह्रीं स्वाहा । श्री महाराज्ञी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवति सर्वदेवात्मिका श्री महाराज्ञी प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
॥ श्री महाराज्ञी त्रैलोक्य विजय कवच स्तोत्रम् ॥
Click to show/hide
श्री भैरव उवाच –
शृणु देवि प्रवक्ष्यामि राज्ञीकवचमुत्तमम् ।
त्रैलोक्यविजयं नाम दिव्यं भोगापवर्गदम् ॥ 1 ॥
मूलमन्त्रमयं मुख्यं अष्टसिद्धि प्रदायकम् ।
सर्वैश्वर्यप्रदं लोके सर्वागमविनिश्चितम् ॥ 2 ॥
पठनाद् धारणाद् देवि महापातक नाशनम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ 3 ॥
विरूपाक्षः शिवो देवि विष्णुर्नारायणो बली ।
ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः ॥ 4 ॥
महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी ।
रत्नाकरश्च जलधिः शेषश्चानन्ततां गतः ॥ 5 ॥
श्रीराज्ञ्याः कवचस्यास्य पठनाद् धारणात् सदा ।
बहुनोक्तेन देवेशि कवचस्यास्य धारणात् ॥ 6 ॥
मर्त्योऽप्यमरतां याति राज्ञीपदं अवाप्नुयात् ।
ऋषिरस्य महादेवि ब्रह्मा च्छन्दः समीरितम् ॥ 7 ॥
गायत्री देवता राज्ञी माया बीजमुदाहृतम् ।
शरच्छक्तिः कीलकं च कामराजः सुरेश्वरि ॥ 8 ॥
भोगापवर्गसिद्ध्यर्थे विनियोग इति स्मृतः ।
ॐ अस्य श्रीमहाराज्ञी त्रैलोक्यविजय कवच मन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।
गायत्री छन्दः (मुखे) । श्रीमहाराज्ञी देवता (हृदये) ।
ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।
मम श्रीमहाराज्ञी प्रसाद सिद्ध्यर्थे जपे विनियोगः (सर्वाङ्गे)।
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानं –
उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां
सिंहासनोपरिगतामुरगोपवीताम् ।
खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां
राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥
चतुर्भुजां चन्द्रकलार्धशेखरां
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह कड्गधारिणीं
राज्ञीं भजे चेतसि राज्यदायिनीम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
ॐ लक्ष्मीर्मे शिरः पातु ह्रीं ललाटं सरस्वती ।
श्रीं बाला पातु मां नेत्रं त्र्यश्रं पातु श्रुती मम ॥ 1 ॥
रां दुर्गा पातु मे नासां क्लीं मुखं पातु शारिका ।
सौः कण्ठं वैखरी पातु भं भुजौ पातु मे शिवा ॥ 2 ॥
गं हस्तौ पातु मे काली वं वक्षस्त्रिपुरावतु ।
षडश्रं पातु मे मध्यं वृत्तं पार्श्वौ ममावतु ॥ 3 ॥
त्यैं पृष्ठं पातु मे ब्राह्मी रां नाभिं पातु वैष्णवी ।
ज्ञ्यैं गुदं पातु रुद्राणी ह्रीं कटिं मेऽपराजिता ॥ 4 ॥
स्वां कौमारी पातु जानू हां जङ्घेऽवतु चण्डिका ।
स्वाहा गुल्फौ च वाराही ओं पादौ नारसिंहिका ॥ 5 ॥
विस्मारितं च यत् स्थानं यत् स्थानं नामवर्जितम् ।
तत् सर्वं पातु मे राज्ञी मूलविद्यामयी परा ॥ 6 ॥
वासुकिः पूर्वतः पातु नीलनागोऽनलेऽवतात् ।
तक्षको दक्षिणे पातु नैरृते पद्मनागकः ॥ 7 ॥
कार्कोटकः पश्चिमेऽव्याच्छङ्खपालस्तु वायुगे ।
कुलिकश्चोत्तरे पातु शेष ईशान मण्डले ॥ 8 ॥
ब्राह्मी ब्राह्ममुहूर्तेऽव्याद् दिनादौ वैष्णवी मम ।
रुद्राणी पातु मध्याह्ने सायं पात्वपराजिता ॥ 9 ॥
निशादौ पातु कौमारी निशीथे चण्डिकावतु ।
निशान्ते पातु वाराही सर्वदा नारसिंहिका ॥ 10 ॥
असिताङ्गः क्षितेः पातु पयसो रुरुभैरवः ।
चण्डो मां पवनात् पातु क्रोधेशः पातु मानलात् ॥ 11 ॥
उन्मत्तः सोमतः पातु भीषणः सूर्यतोऽवतु ।
याजकाच्च कपालीशो व्योम्नः संहारकोऽवतात् ॥ 12 ॥
सदा समन्ततः पातु वपुर्वसुदलं मम ।
गुरवः पान्तु सर्वत्र दिगीशाः पान्तु सर्वतः ॥ 13 ॥
वृत्तत्रयं पातु नित्यं धरागेहं सदावतु ।
श्रीचक्रं पातु भीतिभ्यो योगिन्यः पान्तु सर्वदा ॥ 14 ॥
ऊर्ध्वं चाधः सदा पातु देवो रामेश्वरः शिवः ।
सर्वत्र सर्वदा सत्यं वपुर्भूतेश्वरोऽवतात् ॥ 15 ॥
पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु ।
शिरसः पादपर्यन्तं राज्ञी पञ्चदशाक्षरी ॥ 16 ॥
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानं –
उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां
सिंहासनोपरिगतामुरगोपवीताम् ।
खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां
राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥
चतुर्भुजां चन्द्रकलार्धशेखरां
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह कड्गधारिणीं
राज्ञीं भजे चेतसि राज्यदायिनीम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
इतीदं कवचं राज्ञ्या मन्त्रगर्भं जयावहम् ।
त्रैलोक्यविजयं नाम दारिद्र्यभय नाशनम् ॥ 17 ॥
सर्वरोगहरं साक्षात् सिद्धिदं पापनाशनम् ।
महाभयहरं देवि मूलविद्यामयं परम् ॥ 18 ॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
यः पठेत् कवचं देवि रणे राजभये क्षणात् ॥ 19 ॥
सङ्ग्रामेषु रिपूञ्जित्वा विजयी गृहमेष्यति ।
पठनात् कवचस्यास्य राजकोपः प्रशाम्यति ॥ 20 ॥
द्यूते धनं लभेद् द्यूती श्मशाने सिद्धिमाप्नुयात् ।
त्रिवारं यः पठेद्रात्रौ रेतःस्रावे महेश्वरि ॥ 21 ॥
तस्य राज्ञी महाविद्या स्वप्नेऽभीष्टप्रदा भवेत् ।
स्वयम्भूकुसुमैः शुद्धै रेतसा चोभयाङ्कितैः ॥ 22 ॥
रसैर्भूर्जे लिखेद्वर्म रवौ प्रातर्महेश्वरि ।
चीनतन्तुभिरव्यक्तं लाक्षया वेष्टितं तथा ॥ 23 ॥
सुवर्णगुटिकान्तःस्थं पूजयेद्यन्त्रराजवत् ।
गुटिकैषा महाविद्या राज्ञी मूर्तिरिवापरा ॥ 24 ॥
मूलविद्यामयी देवि सर्वाभीष्टफलप्रदा ।
शिरःस्था धनदा देवि कण्ठस्था वाक्प्रदायिनी ॥ 25 ॥
वक्षःस्था पुत्रदा देवि कटिस्था भोगदायिनी ।
पृष्ठस्था बलदा नित्यं कुक्षिस्था रोगनाशिनी ॥ 26 ॥
सर्वार्थसाधिनी लोके यथाभीष्टफलप्रदा ।
गुटिकेयं शुभा राज्ञ्या न देया यस्य कस्यचित् ॥ 27 ॥
इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ।
सारस्वतप्रदं लक्ष्मीपुत्रपौत्र विवर्धनम् ॥ 28 ॥
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् ।
चतुष्षष्ट्यादितन्त्राणां सारमादाय वर्णितम् ॥ 29 ॥
श्मशाने यः पठेत् सायं महाचीनक्रमेश्वरः ।
स साधको महादेवि राज्ञीपुत्रो भविष्यति ॥ 30 ॥
इतीदं मम सर्वस्वं त्रैलोक्यविजयाभिधम् ।
कवचं मन्त्रगर्भं तु गोपनीयं स्वयोनिवत् ॥ 31 ॥
॥ इति श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी त्रैलोक्यविजयं कवच स्तोत्रं सम्पूर्णम् ॥
॥ श्रीमहाराज्ञी स्तोत्रम् ॥
Click to show/hide
श्री भैरव उवाच –
अधुना कथयिष्यामि स्तोत्रराजं परात्मकम् ।
मूलमन्त्रमयं दिव्यं तत्त्वभूतं मनोहरम् ॥ 1 ॥
राज्ञीप्रियं पापहरं लक्षपूजाफलप्रदम् ।
जपलक्षसमं स्तोत्रं ध्यानकोटिसमं प्रिये ॥ 2 ॥
राज्ञी स्तोत्रस्य देवेशि ब्रह्मा ऋषिरुदाहृतः ।
गायत्रं छन्द इत्युक्तं श्रीराज्ञी देवतेरिता ॥ 3 ॥
माया बीजं परा शक्तिः कामः कीलकमीश्वरि ।
भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ॥ 4 ॥
ॐ अस्य श्रीमहाराज्ञी स्तवराज मन्त्रस्य ब्रह्मा ऋषिः (शिरसि) ।
गायत्री छन्दः (मुखे) । श्रीभूतेश्वरी महाराज्ञी देवता (हृदये) ।
ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।
मम श्रीमहाराज्ञी प्रसादेन भोगापवर्गसिद्धर्थे जपे विनियोगः (सर्वाङ्गे)॥
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानं –
उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां
सिंहासनोपरिगतामुरगोपवीताम् ।
खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां
राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
ॐ तारमिन्दुकलिकावतंसितं वेदसागरमणिं मनोहरम् ।
यो जपेदुषसि रत्नमालया राज्यमाशु लभते स साधकः ॥ 5 ॥
भूतिमिन्दुनवबिन्दु मण्डितां नादबिन्दुललितां जपेत्तु यः ।
वारमेकमुरुवारणस्थितो जेष्यति स्मयमयानरीन् रणे ॥ 6 ॥
रमां जपेद्यो भुवनेशि मन्त्री त्वन्मन्त्रमध्ये मदनोपतप्तः ।
रम्भां समालिङ्ग्य विमानचारि लीलां भजेन्नन्दनवाटिकायाम् ॥ 7 ॥
वह्निबीजं अणिमादि सिद्धिदं बिन्दुबिम्ब शशिखण्ड मण्डितम् ।
यो जपेन्निशि धनाभिलाषवान् स क्षणाद्भवति वित्तदोपमः ॥ 8 ॥
कामराज ममराभिवन्दितो यो जपेन्निधुवनेऽक्षमालया ।
तस्य यान्ति वशतां सुराङ्गनाः किं पुनर्जगति भूभृदङ्गनाः ॥ 9 ॥
शक्तिं भक्त्या यो जपेच्छक्तिपूजाकाले कालीपाद पद्मार्पितान्तः ।
नक्तं तस्य स्मेरवक्त्रा घृताची वेश्या वश्या स्वर्गता वा शची च ॥ 10 ॥
भगवत्यै तथा राज्ञ्यै नाममन्त्रमिति स्मरेत् ।
यो देवि तस्य वश्याः स्युर्भैरवस्याष्टसिद्धयः ॥ 11 ॥
मायार्णमन्ते यदि साधकेन्द्रो जपेन्महेशानि शवालयस्थः ।
तत्रैव देवीं परमार्थ राज्ञीं पश्येत् स सद्यो वरसिद्धिदात्रीम् ॥ 12 ॥
ठद्वयं यदि जपेन्निशाक्षये क्षीरभुक् सुतटिनीतटस्थितः ।
जिष्णुविष्णुकमलासनेश्वरा यान्ति देवि वशतां तदा क्षणात् ॥ 13 ॥
भूगेह वृत्तत्रय नागपत्र षडश्रयोन्यश्रक बिन्दुबिम्बे ।
निषेदुषीं राजकुलाधिदेवीं राज्ञीं भजे राजकुलावतंसाम् ॥ 14 ॥
देवि श्रीभूतधात्रि प्रवरगुणमये निष्कले निर्गुणे मे
माये मातः शरण्ये गिरिवरतनये चिन्मये तत्त्वरूपे ।
दुर्गे चण्डि प्रमत्ते त्रिपुरविजयिनि स्मेरवक्त्रे वरेण्ये
कारुण्याढ्ये प्रशस्ते सुरदितिजनुते राज्ञि त्वं वै प्रसीद ॥ 15 ॥
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानं –
उद्यद्दिवाकरसहस्ररुचिं त्रिनेत्रां
सिंहासनोपरिगतामुरगोपवीताम् ।
खड्गाम्बुजाढ्य कलशामृत पात्रहस्तां
राज्ञीं भजामि विकसद्वदनारबिन्दाम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
इति स्तोत्रं मन्त्रस्फुरणकरुणानन्दनिलयं
पठेद्भक्त्या प्रातस्तव गिरिसुते यो निरलसम् ।
भवेत् सद्यो भूमौ नृपमुकुटनीराजितपदो
मृतो मुक्तिं मर्त्यस्तव भवनमाप्नोति वरदे ॥ 16 ॥
॥ इति श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी स्तोत्रं सम्पूर्णम् ॥
॥ श्री महाराज्ञी सहस्रनाम स्तोत्रम् ॥
Click to show/hide
ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
पार्वत्युवाच –
भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण ।
शरण्य सर्वलोकेश शरणागतवत्सल ॥ 1 ॥
कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् ।
मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ 2 ॥
श्रीशिव उवाच –
या देवी निष्कला राज्ञी भगवत्यमलेश्वरी ।
सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ 3 ॥
तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति ।
अवाच्यं दुर्लभं लोके दुःखदारिद्र्य नाशनम् ॥ 4 ॥
परमार्थप्रदं नित्यं परमैश्वर्यकारणम् ।
सर्वागमरहस्याढ्यं सकलार्थ प्रदीपनम् ॥ 5 ॥
समस्तशोक शमनं महापातक नाशनम् ।
सर्वमन्त्रमयं दिव्यं राज्ञीनाम सहस्रकम् ॥ 6 ॥
ॐ अस्य श्रीमहाराज्ञी नामसहस्रस्य ब्रह्मा ऋषिः (शिरसि) ।
गायत्री छन्दः (मुखे) । श्रीभूतेश्वरी महाराज्ञी देवता (हृदये) ।
ह्रीं बीजं (गुह्ये) । सौः शक्तिः (पादयोः) । क्लीं कीलकं (नाभौ) ।
मम श्रीमहाराज्ञी प्रसाद सिद्ध्यर्थे सहस्रनाम जपे विनियोगः (सर्वाङ्गे) ।
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानं –
या द्वादशार्कपरिमण्डितमूर्तिरेका
सिंहासनस्थितिमतीमुरगैर्वृतां च ।
देवीमनक्षगतिमीश्वरतां प्रपन्नां
तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥
चतुर्भुजां चन्द्रकलार्धशेखरां
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह कड्गधारिणीं
राज्ञीं भजे चेतसि राज्यदायिनीम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
ॐ ह्रीं श्रीं रां महाराज्ञी क्लीं सौः पञ्चदशाक्षरी ।
ह्रीं स्वाहा त्र्यक्षरी विद्या परा भगवती विभा ॥ 1 ॥
भास्वती भद्रिका भीमा भर्गरूपा मनस्विनी ।
माननीया मनीषा च मनोजा च मनोजवा ॥ 2 ॥
मानदा मन्त्रविद्या च महाविद्या षडक्षरी ।
षट्कूटा च त्रिकूटा च त्रयी वेदत्रयी शिवा ॥ 3 ॥
शिवाकारा विरूपाक्षी शशिखण्डावतंसिनी ।
महालक्ष्मीर्महोरस्का महौजस्का महोदया ॥ 4 ॥
मातङ्गी मोदकाहारा मदिरारुणलोचना ।
साध्वी शीलवती शाला सुधाकलशधारिणी ॥ 5 ॥
खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता ।
हृत्पद्मवासिनी हृद्या पानपात्रधरा परा ॥ 6 ॥
धराधरेन्द्रतनया दक्षिणा दक्षजा दया ।
दयावती महामेधा मोदिनी बोधिनी गदा ॥ 7 ॥
गदाधरार्चिता गोधा गङ्गा गोदावरी गया ।
महाप्रभावसहिता महोरगविभूषणा ॥ 8 ॥
महामुनिकृतातिथ्या माध्वी मानवती मघा ।
बाला सरस्वती लक्ष्मीर्दुर्गा दुर्गतिनाशिनी ॥ 9 ॥
शारी शरीरमध्यस्था वैखरी खेचरेश्वरी ।
शिवदा शिववक्षःस्था कालिका त्रिपुरेश्वरी ॥ 10 ॥
पुरारिकुक्षिमध्यस्था मुरारिहृदयेश्वरी ।
बलारिराज्यदा चण्डी चामुण्डा मुण्डधारिणी ॥ 11 ॥
मुण्डमालाञ्चिता मुद्रा क्षोभणा कर्षणक्षमा ।
ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ 12 ॥
रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी ।
नारसिंही भैरवेशी भैरवाकारभीषणा ॥ 13 ॥
नागालङ्कारशोभाढ्या नागयज्ञोपवीतिनी ।
नागकङ्कणकेयूरा नागहारा सुरेश्वरी ॥ 14 ॥
सुरारिघातिनी पूता पूतना डाकिनी क्रिया ।
क्रियावती कुरी कृत्या डाकिनी लाकिनी लया ॥ 15 ॥
लीलावती रसाकीर्णा नागकन्या मनोहरा ।
हारकङ्कणशोभाढ्या सदानन्दा शुभङ्करी ॥ 16 ॥
प्रहासिनी मधुमती सरसी स्मरमोहिनी ।
महोग्रवपुषी वार्ता वामाचारप्रिया सिरा ॥ 17 ॥
सुधामयी वेणुकरा वैरिघ्नी वीरसुन्दरी ।
वारिमध्यस्थिता वामा वामनेत्रा शशिप्रभा ॥ 18 ॥
शर्मदा शङ्करी सीता रवीन्दुशिखिलोचना ।
मदिरा वारुणी वीणा गीतिज्ञा मदिरावती ॥ 19 ॥
वटस्था वारुणशक्तिः वटजा वटवासिनी ।
वटुकी वीरसूर्वन्द्या स्तम्भिनी मोहिनी च मुत् ॥ 20 ॥
मुद्गराङ्कुशहस्ता च वराभयकरा कुटी ।
पाटीरद्रुमवल्ली च वटुका वटुकेश्वरी ॥ 21 ॥
इष्टदा कृषिभूः कीरी रेवती रमणप्रिया ।
रोहिणी रेवती रम्या रमणा रोमहर्षिणी ॥ 22 ॥
रसोल्लासा रसासारा सारिणी तारिणी तडित् ।
तरी तरित्रहस्ता च तोतुला तरणिप्रभा ॥ 23 ॥
रत्नाकरप्रिया रम्भा रत्नालङ्कारशोभिता ।
रुक्माङ्गदा गदाहस्ता गदाधरवरप्रदा ॥ 24 ॥
षड्रसा द्विरसा माला मालाभरणभूषिता ।
मालती मल्लिकामोदा मोदकाहारवल्लभा ॥ 25 ॥
वल्लभी मधुरा माया काशी काञ्ची ललन्तिका ।
हसन्तिका हसन्ती च भ्रमन्ती च वसन्तिका ॥ 26 ॥
क्षेमा क्षेमङ्करी क्षामा क्षौमवस्त्रा क्षणेश्वरी ।
क्षणदा क्षेमदा सीरा सीरपाणिसमर्चिता ॥ 27 ॥
क्रीता क्रीतातपा क्रूरा कमनीया कुलेश्वरी ।
कूर्चबीजा कुठाराढ्या कूर्मिर्णी कूर्मसुन्दरी ॥ 28 ॥
कारुण्या चैव काश्मीरी दूती द्वारवती ध्रुवा ।
ध्रुवस्तुता ध्रुवगतिः पीठेशी बगलामुखी ॥ 29 ॥
सुमुखी शोभना ज्योतिः रत्नज्वालामुखी नतिः ।
अलकोज्जयिनी भोग्या भङ्गी भोगावती बला ॥ 30 ॥
धर्मराजपुरी पूता पूर्ण सत्त्वाऽमरावती ।
अयोध्या बोधनीया च युगमाता च यक्षिणी ॥ 31 ॥
यज्ञेश्वरी योगगम्या योगिध्येया यशस्विनी ।
यशोवती च चार्वङ्गी चारुहासा चलाचला ॥ 32 ॥
हरीश्वरी हरेर्माया मायिनी वायुवेगिनी ।
अम्बालिकाऽम्बा भर्गेशी भृगुकूटा महामतिः ॥ 33 ॥
कोशेश्वरी च कमला कीर्तिदा कीर्तिवर्धिनी ।
कठोरवाक्कुहूमूर्तिः चन्द्रबिम्बसमानना ॥ 34 ॥
चन्द्रकुङ्कुमलिप्ताङ्गी कनकाचलवासिनी ।
मलयाचलसानुस्था हिमाद्रितनयातनुः ॥ 35 ॥
हिमाद्रिकुक्षिदेशस्था कुब्जिका कोसलेश्वरी ।
कारैकनिगडा गूढा गूढगुल्फातिगोपिता ॥ 36 ॥
तनुजा तनुरूपा च बाणचापधरा नुतिः ।
धुरीणा धूम्रवाराही धूम्रकेशाऽरुणानना ॥ 37 ॥
अरुणेशी रतिः स्वातिः गरिष्ठा च गरियसी ।
महानसी महाकारा सुरासुरभयङ्करी ॥ 38 ॥
अणुरूपा महज्ज्योतिरनिरुद्धा सरस्वती ।
श्यामा श्याममुखी शान्ता श्रान्तसन्तापहारिणी ॥ 39 ॥
गौर्गण्या गोमयी गुह्या गोमती गरुवागया ।
गीतसन्तोषसंसक्ता गृहिणी ग्राहिणी गुहा ॥ 40 ॥
गणप्रिया गजगतिर्गान्धारी गन्धमोदिनी ।
गन्धमादनसानुस्था सह्याचलकृतालया ॥ 41 ॥
गजाननप्रिया गव्या ग्राहिका ग्राहवाहना ।
गुहप्रसूर्गुहावासा ग्रहमालाविभूषणा ॥ 42 ॥
कौबेरी कुहका भ्रन्तिस्तर्कविद्या प्रियङ्करी ।
पीताम्बरा पटाकारा पताका सृष्टिजा सुधा ॥ 43 ॥
दाक्षायणी दक्षसुता दक्षयज्ञ विनाशिनी ।
ताराचक्रस्थिता तारा तुरी तुर्या तुटिस्तुला ॥ 44 ॥
सन्ध्यात्रयी सन्धिजरा सन्ध्या तारुण्यलालिता ।
ललिता लोहिता लम्पा चम्पा कम्पाकुला सृणिः ॥ 45 ॥
सृतिः सत्यवती स्वस्था समाना मानवर्धिनी ।
महोमयी मनस्तुष्टिः कामधेनुः सनातनी ॥ 46 ॥
सूक्ष्मरूपा सूक्ष्ममुखी स्थूलरूपा कलावती ।
तलातलाश्रया सिन्धुः त्र्यम्बिका लम्पिका जया ॥ 47 ॥
सौदामिनी सुधादेवी सनकदिसमर्चिता ।
मन्दाकिनी च यमुना विपाशा नर्मदानदी ॥ 48 ॥
गण्डक्यैरावती सिप्रा वितस्ता च सरस्वती ।
रेवा चैरावती चेक्षुमती सागरवासिनी ॥ 49 ॥
देवकी देवमाता च देवेशी देवसुन्दरी ।
दैत्यघ्नी दमनी दात्री दितिर्दितिजसुन्दरी ॥ 50 ॥
विद्याधरी च विद्येशी विद्याधरजसुन्दरी ।
मेनका चित्रलेखा च चित्रिणी च तिलोत्तमा ॥ 51 ॥
उर्वशी मोहिनी रम्भा चाप्सरोगणसुन्दरी ।
यक्षिणी यक्षलोकेशी नरवाहनपूजिता ॥ 52 ॥
यक्षेन्द्रतनया योग्या यक्षनायकसुन्दरी ।
गन्धवत्यर्चिता गन्धा सुगन्धा गीततत्परा ॥ 53 ॥
गन्धर्वतनया नम्रा गीतिर्गन्धर्वसुन्दरी ।
मन्दोदरी करालाक्षी मेघनादवरप्रदा ॥ 54 ॥
मेघवाहनसन्तुष्टा मेघमूर्तिश्च राक्षसी ।
रक्षोहन्त्री केकसी च रक्षोनायकसुन्दरी ॥ 55 ॥
किन्नरी कम्बुकण्ठी च कलकण्ठस्वना सुधा ।
किम्मुखी हयवक्त्रा च केला किन्नरसुन्दरी ॥ 56 ॥
पिशाची राजमातङ्गी उच्छिष्टपदसंस्थिता ।
महापिशाचिनी चान्द्री पिशाचकुलसुन्दरी ॥ 57 ॥
गुह्येश्वरी गुह्यरूपा गुर्वी गुह्यकसुन्दरी ।
सिद्धिप्रदा सिद्धवधूः सिद्धेशी सिद्धसुन्दरी ॥ 58 ॥
भूतेश्वरी भूतालया भूतधात्री भयापहा ।
भूतभीतिहरी भव्या भूतजा भूतसुन्दरी ॥ 59 ॥
पृथ्वी पार्थिवलोकेशी पृथा विष्णुसमर्चिता ।
वसुन्धरा वसुनता पृथिवी भूमिसुन्दरी ॥ 60 ॥
अम्भोधितनयाऽलुप्ता जलजाक्षी जलेश्वरी ।
अमूर्तिरम्मयी मारी जलस्था जलसुन्दरी ॥ 61 ॥
तेजस्विनी महोधात्री तैजसी सूर्यबिम्बगा ।
सूर्यकान्तिः सूर्यतेजाः तेजोरूपैकसुन्दरी ॥ 62 ॥
वायुवाहा वायुमुखी वायुलोकैकसुन्दरी ।
गगनस्था खेचरेशी शून्यरूपा निराकृतिः ॥ 63 ॥
निराभासा भासमाना द्युतिराकाशसुन्दरी ।
क्षितिमूर्तिधराऽनन्ता क्षितिभृल्लोकसुन्दरी ॥ 64 ॥
अब्धियाना रत्नशोभा वरुणेशी वरायुधा ।
पाशहस्ता पोषणा च वरुणेश्वरसुन्दरी ॥ 65 ॥
अनलैकरुचिर्ज्योतिः पञ्चानिलगतिस्थितिः ।
प्राणापानसमानेच्छा चोदानव्यानरूपिणी ॥ 66 ॥
पञ्चवातगतिर्नाडीरूपिणी वातसुन्दरी ।
अग्निरूपा वह्निशिखा वडवानलसन्निभा ॥ 67 ॥
हेतिर्हविर्हुतज्योतिरग्निजा वह्निसुन्दरी ।
सोमेश्वरी सोमकला सोमपानपरायणा ॥ 68 ॥
सौम्यानना सौम्यरूपा सोमस्था सोमसुन्दरी ।
सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ 69 ॥
याज्ञिकी यज्ञभागेच्छा यजमानवरप्रदा ।
याजकी यज्ञविद्या च यजमानैकसुन्दरी ॥ 70 ॥
आकाशगामिनी वन्द्या शब्दजाऽकाशसुन्दरी ।
मीनप्रिया मीननेत्रा च मीनास्या मीनसुन्दरी ॥ 71 ॥
कूर्मपृष्ठगता कूर्मी कूर्मजा कूर्मरूपिणी ।
वाराही वीरसूर्वन्द्या वरारोहा मृगेक्षणा ॥ 72 ॥
वराहमूर्तिर्वाचाला दंष्ट्रा वराहसुन्दरी ।
नरसिंहाकृतिर्देवी दुष्टदैत्यनिषूदिनी ॥ 73 ॥
प्रद्युम्नवरदा नारी नरसिंहैकसुन्दरी ।
वामजा वामनाकारा नारायण परायणा ॥ 74 ॥
बलिदानवदर्पघ्नी वाम्या वामनसुन्दरी ।
रामप्रिया रामकला क्षत्रवंशक्षयङ्करी ॥ 75 ॥
दनुपुत्री राजकन्या रामा परशुधारिणी ।
भार्गवी भार्गवेष्टा च जामदग्न्यवरप्रदा ॥ 76 ॥
कुठारधारिणी रात्रिर्जामदग्न्यैकसुन्दरी ।
सीतालक्ष्मणसेव्या च रक्षःकुलविनाशिनी ॥ 77 ॥
रामप्रिया च शत्रुघ्नी शत्रुघ्नभरतेष्टदा ।
लावण्यामृतधाराढ्या लवणासुरघातिनी ॥ 78 ॥
लोहितास्या प्रसन्नास्या स्वात्माराम रामसुन्दरी ।
कृष्णकेशा कृष्णमुखी यादवान्तकरी लया ॥ 79 ॥
यादोगणार्चिता योज्या राधा श्रीकृष्णसुन्दरी ।
बुद्धप्रसूर्बुद्धदेवी जिनमार्गपरायणा ॥ 80 ॥
जितक्रोधा जितालस्या जिनसेव्या जितेन्द्रिया ।
जिनवंशधरोग्रा च नीलान्ता बुद्धसुन्दरी ॥ 81 ॥
काली कोलाहलप्रीता प्रेतवाहा सुरेश्वरी ।
कल्किप्रिया कम्बुधरा कलिकालैकसुन्दरी ॥ 82 ॥
विष्णुमाया ब्रह्ममाया शाम्भवी शिववाहना ।
इन्द्रावरजवक्षःस्था स्थाणुपत्नी पलालिनी ॥ 83 ॥
जृम्भिणी जृम्भहर्त्री च जृम्भमाणालकाकुला ।
कुलाकुलपदेशानी पददानफलप्रदा ॥ 84 ॥
कुलवागीश्वरी कुल्या कुलजा कुलसुन्दरी ।
पुरन्दरेष्टा तारुण्यालया पुण्यजनेश्वरी ॥ 85 ॥
पुण्योत्साहा पापहन्त्री पाकशासनसुन्दरी ।
सूयर्कोटिप्रतीकाशा सूर्यतेजोमयी मतिः ॥ 86 ॥
लेखिनी भ्राजिनी रज्जुरूपिणी सूर्यसुन्दरी ।
चन्द्रिका च सुधाधारा ज्योत्स्ना शीतांशुसुन्दरी ॥ 87 ॥
लोलाक्षी च शताक्षी च सहस्राक्षी सहस्रपात् ।
सहस्रशीर्षा चेन्द्राक्षी सहस्रभुजवल्लिका ॥ 88 ॥
कोटिरत्नांशुशोभा च शुभ्रवस्त्रा शतानना ।
शतानन्दा श्रुतिधरा पिङ्गला चोग्रनादिनी ॥ 89 ॥
सुषुम्ना हारकेयूरनूपुरारावसङ्कुला ।
घोरनादाऽघोरमुखी चोन्मुखी चोल्मुकायुधा ॥ 90 ॥
गोपिता गूर्जरी गाथा गायत्री वेदवल्लभा ।
वल्लकीस्वननादा च नादविद्या नदीतटी ॥ 91 ॥
बिन्दुरूपा चक्रयोनिर्बिन्दुनादस्वरूपिणी ।
चक्रेश्वरी भैरवेशी महाभैरववल्लभा ॥ 92 ॥
कालभैरवभार्या च कल्पान्ते रङ्गनर्तकी ।
प्रलयानलधूम्राभा योनिमध्यकृतालया ॥ 93 ॥
भूचरी खेचरीमुद्रा नवमुद्राविलासिनी ।
वियोगिनी श्मशानस्था श्मशानार्चनतोषिता ॥ 94 ॥
भास्वराङ्गी भर्गशिखा भर्गवामाङ्गवासिनी ।
भद्रकाली विश्वकाली श्रीकाली मेघकालिका ॥ 95 ॥
नीरकाली कालरात्रिः काली कामेशकालिका ।
इन्द्रकाली पूर्वकाली पश्चिमाम्नायकालिका ॥ 96 ॥
श्मशानकालिका शुभ्रकाली श्रीकृष्णकालिका ।
क्रीङ्कारोत्तरकाली श्रीं हुं ह्रीं दक्षिणकालिका ॥ 97 ॥
सुन्दरी त्रिपुरेशानी त्रिकूटा त्रिपुरार्चिता ।
त्रिनेत्रा त्रिपुराध्यक्षा त्रिकुटा कूटभैरवी ॥ 98 ॥
त्रिलोकजननी नेत्रा महात्रिपुरसुन्दरी ।
कामेश्वरी कामकला कालकामेशसुन्दरी ॥ 99 ॥
त्र्यक्षरी त्र्यक्षरीदेवी भावना भुवनेश्वरी ।
एकाक्षरी चतुष्कूटा त्रिकूटेशी लयेश्वरी ॥ 100 ॥
चतुर्वर्णा च वर्णेशी वर्णाढ्या चतुरक्षरी ।
पञ्चाक्षरी च षड्वक्त्रा षट्कूटा च षडक्षरी ॥ 101 ॥
सप्ताक्षरी नवार्णेशी परमाष्टाक्षरेश्वरी ।
नवमी पञ्चमी षष्टिः नागेशी नवाक्षरी ॥ 102 ॥
दशाक्षरी दशास्येशी देविकैकादशाक्षरी ।
द्वादशादित्यसङ्काशा द्वादशी द्वादशाक्षरी ॥ 103 ॥
त्रयोदशी वेदगर्भा वाद्या त्रयोदशाक्षरी ।
चतुर्दशाक्षरी विद्या विद्यापञ्चदशाक्षरी ॥ 104 ॥
षोडशी सर्वविद्येशी महाश्रीषोडशाक्षरी ।
महाश्रीषोडशीरूपा चिन्तामणिमनुप्रिया ॥ 105 ॥
द्वाविंशत्यक्षरी श्यामा महाकालकुटुम्बिनी ।
वज्रतारा कालतारा नारीतारोग्रतारिणी ॥ 106 ॥
कामतारा शब्दतारा स्पर्शतारा रसाश्रया ।
रूपतारा गन्धतारा महानीलसरस्वती ॥ 107 ॥
कालज्वाला वह्निज्वाला ब्रह्मज्वाला जटाकुला ।
विष्णुज्वाला जिष्णुशिखा भद्रज्वाला करालिनी ॥ 108 ॥
विकरालमुखी देवी कराली भूतिभूषणा ।
चिताशयासना चिन्ती चितामण्डलमध्यगा ॥ 109 ॥
भूतभैरवसेव्या च भूतभैरवपालिनी ।
बन्धकी बद्धसन्मुद्रा भवबन्धविनाशिनी ॥ 110 ॥
भवानी देवदेवेशी दीक्षा दीक्षितपूजिता ।
साधकेशी सिद्धिदात्री साधकानन्दवर्धिनी ॥ 111 ॥
साधकाश्रयभूता च साधकेष्टफलप्रदा ।
रजोवती राजसी च रजकी च रजस्वला ॥ 112 ॥
पुष्पप्रिया पुष्पवती स्वयम्भूपुष्पमालिका ।
स्वयम्भूपुष्पगन्धाढ्या पुलस्त्यसुतनाशिनी ॥ 113 ॥
पात्रहस्ता परा पौत्री पीतास्या पीतभूषणा ।
पिङ्गानना पिङ्गकेशी पिङ्गला पिङ्गलेश्वरी ॥ 114 ॥
मङ्गला मङ्गलेशानी सर्वमङ्गलमङ्गला ।
पुरूरवेश्वरी पाशधरा चापधराऽधुरा ॥ 115 ॥
पुण्यधात्री पुण्यमयी पुण्यलोकनिवासिनी ।
होतृसेव्या हकारस्था सकारस्था सुखावती ॥ 116 ॥
सखी शोभावती सत्या सत्याचारपरायणा ।
सतीशानकलेशानी वामदेवकलाश्रिता ॥ 117 ॥
सद्योजातकलादेवी शिवाऽघोरकलाकृतिः ।
शर्वरी क्षीरसदृशी क्षीरनीरविवेकिनी ॥ 118 ॥
वितर्कनिलया नित्या नित्यक्लिन्ना पराम्बिका ।
पुरारिदयिता दीर्घा दीर्घनासाऽल्पभाषिणी ॥ 119 ॥
काशिका कौशिकी कोश्या कोशदा रूपवर्धिनी ।
तुष्टिः पुष्टिः प्रजाप्रीता पूजिता पूजकप्रिया ॥ 120 ॥
प्रजावती गर्भवती गर्भपोषणपोषिता ।
शुक्लवासाः शुक्लरूपा शुचिवासा जयावहा ॥ 121 ॥
जानकी जन्यजनका जनतोषणतत्परा ।
वादप्रिया वाद्यरता वादिनी वादसुन्दरी ॥ 122 ॥
वाक्स्तम्भिनी कीरवाणिः धीराधीरा धुरन्धरा ।
स्तनन्धयी सामिधेनी निरानन्दा निरालया ॥ 123 ॥
समस्तसुखदा सारा वारान्निधिवरप्रदा ।
वालुकी वीरपानेष्टा वसुधात्री वसुप्रिया ॥ 124 ॥
शुक्रानान्दा शुक्ररसा शुक्रपूज्या शुकप्रिया ।
शुकीश्च शुकहस्ता च समस्तनरकान्तका ॥ 125 ॥
समस्ततत्त्वनिलया भगरूपा भगेश्वरी ।
भगबिम्बा भगाहृद्या भगलिङ्गस्वरूपिणी ॥ 126 ॥
भगलिङ्गेश्वरी श्रीदा भगलिङ्गामृतस्रवा ।
क्षीराशना क्षीररुचिः आज्यपानपरायणा ॥ 127 ॥
मधुपानपरा प्रौढा पीवरांसा परावरा ।
पिलम्पिला पटोलेशा पाटलारुणलोचना ॥ 128 ॥
क्षीराम्बुधिप्रिया क्षीबा सरला सरलायुधा ।
सङ्ग्रामा सुनया स्रस्ता संसृतिः सनकेश्वरी ॥ 129 ॥
कन्या कनकरेखा च कान्यकुब्जनिवासिनी ।
काञ्चनोभतनुः काष्ठा कुष्ठरोगनिवारिणी ॥ 130 ॥
कठोरमूर्धजा कुन्ती कुन्तायुधधरा धृतिः ।
चर्माम्बरा क्रूरनखा चकोराक्षी चतुर्भुजा ॥ 131 ॥
चतुर्वेदप्रिया चाट्वी चतुर्वर्गफलप्रदा ।
ब्रह्माण्डचारिणी स्फुर्तिः ब्रह्माणी ब्रह्मसम्मता ॥ 132 ॥
सत्कारकारिणी सूतिः सूतिका लतिकालया ।
कल्पवल्ली कृषाङ्गी च कल्पपादपवासिनी ॥ 133 ॥
कल्पशाखा महाविद्या विद्याराज्ञी सुखाश्रया ।
भूतिराज्ञी विश्वराज्ञी लोकराज्ञी शिवाश्रया ॥ 134 ॥
ब्रह्मराज्ञी विष्णुराज्ञी रुद्रराज्ञी जटाश्रया ।
नागराज्ञी वंशराज्ञी वीरराज्ञी रजःप्रिया ॥ 135 ॥
सत्त्वराज्ञी तमोराज्ञी गणराज्ञी चलाचला ।
वसुराज्ञी सत्यराज्ञी तपोराज्ञी जपप्रिया ॥ 136 ॥
मन्त्रराज्ञी वेदराज्ञी तन्त्रराज्ञी श्रुतिप्रिया ।
वेदराज्ञी मन्त्रिराज्ञी दैत्यराज्ञी दयाकरा ॥ 137 ॥
कालराज्ञी प्रजाराज्ञी तेजोराज्ञी हराश्रया ।
पृथ्वीराज्ञी पयोराज्ञी वायुराज्ञी मदालसा ॥ 138 ॥
सुधाराज्ञी सुराराज्ञी भीमराज्ञी भयोज्झिता ।
तथ्यराज्ञी जयाराज्ञी महाराज्ञी कुलाकृतिः ॥ 139 ॥
वामराज्ञी चीनराज्ञी हरिराज्ञी हरीश्वरी ।
पराराज्ञी यक्षराज्ञी भूतराज्ञी शिवासना ॥ 140 ॥
वटुराज्ञी प्रेतराज्ञी शेषराज्ञी शमप्रदा ।
आकाशराज्ञी राजेशी राजराज्ञी रतिप्रिया ॥ 141 ॥
पातालराज्ञी भूराज्ञी प्रेतराज्ञी विषापहा ।
सिद्धराज्ञी विभाराज्ञी तेजोराज्ञी विभामयी ॥ 142 ॥
भास्वद्राज्ञी चन्द्रराज्ञी ताराराज्ञी सुवासिनी ।
ग्रहराज्ञी लताराज्ञी वृक्षराज्ञी मतिप्रदा ॥ 143 ॥
वीरराज्ञी मनोराज्ञी मनुराज्ञी च काश्यपी ।
मुनिराज्ञी रत्नराज्ञी युगराज्ञी मणिप्रभा ॥ 144 ॥
सिन्धुराज्ञी नदीराज्ञी नदराज्ञी दरीस्थिता ।
बिन्दुराज्ञी नादराज्ञी आत्मराज्ञी च सद्गतिः ॥ 145 ॥
पुत्रराज्ञी ध्यानराज्ञी लयराज्ञी सदेश्वरी ।
ईशानराज्ञी राजेशी स्वाहाराज्ञी महत्तरा ॥ 146॥
वह्निराज्ञी योगिराज्ञी यज्ञराज्ञी चिदाकृतिः ।
जगद्राज्ञी तत्त्वराज्ञी वाग्राज्ञी विश्वरूपिणी ॥ 147 ॥
पञ्चदशाक्षरीराज्ञी ॐ ह्रीं भूतेश्वरेश्वरी ।
इतीदं मन्त्रसर्वस्वं राज्ञीनामसहस्रकम् ॥ 148॥
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्वरों इति दिग्विमोकः ॥
ध्यानं –
या द्वादशार्कपरिमण्डितमूर्तिरेका
सिंहासनस्थितिमतीमुरगैर्वृतां च ।
देवीमनक्षगतिमीश्वरतां प्रपन्नां
तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥
चतुर्भुजां चन्द्रकलार्धशेखरां
सिंहासनस्थां भुजगोपवीतिनीम् ।
पाशाङ्कुशाम्भोरुह कड्गधारिणीं
राज्ञीं भजे चेतसि राज्यदायिनीम् ॥
पञ्चपूजा –
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै समस्तोपचार पूजान् कल्पयामि ।
पञ्चदशाक्षरीतत्त्वं मन्त्रसारं मनुप्रियम् ।
सर्वतत्त्वमयं पुण्यं महापातक नाशनम् ॥ 149 ॥
सर्वसिद्धिप्रदं लोके सर्वरोगनिबर्हणम् ।
सर्वोत्पातप्रशमनं ग्रहशान्तिकरं शुभम् ॥ 150 ॥
सर्वदेवप्रियं प्राज्यं सर्वशत्रु भयापहम् ।
सर्वदुःखौघशमनं सर्वशोक विनाशनम् ॥ 151 ॥
पठेद्वा पाठयेत् नाम्नां सहस्रं शक्तिसन्निधौ ।
दृरादेव पलायन्ते विपदः शत्रुभीतयः ॥ 152 ॥
राक्षसा भूतवेतालाः पन्नगा हरिणद्विषः ।
पठनाद्विद्रवन्त्याशु महाकालादिव प्रजाः ॥ 153 ॥
श्रवणात्पाताकं नश्येच्छ्रावयेद्यः स भाग्यवान् ।
नानाविधानि भोगानि सम्भूय पृथिवीतले॥ 154 ॥
गमिष्यति परां भूमिं त्वरितं नात्र संशयः ।
अश्वमेध सहस्रस्य वाजिपेयस्य कोटयः ॥ 155॥
गङ्गास्नानसहस्रस्य चान्द्रायणायुतस्य च ।
तप्तकृच्छ्रैक लक्षस्य राजसूयस्य कोटयः ॥ 156 ॥
सहस्रनाम पाठस्य कलां नार्हन्ति षोडशीम् ।
सर्वसिद्धीश्वरं साध्यं राज्ञीनामसहस्रकम् ॥ 157 ॥
मन्त्रगर्भं पठेद्यस्तु राज्यकामो महेश्वरि ।
वर्षमेकं शतावर्तं महाचीनक्रमाकुलः ॥ 158 ॥
शक्तिपूजापरो रात्रौ स लभेद्राज्यमीश्वरि ।
पुत्रकामो पठेत्सायं चिताभस्मानुलेपनः ॥ 159 ॥
दिगम्बरो मुक्तकेशः शतावर्तं महेश्वरि ।
श्मशाने तु लभेत्पुत्रं साक्षाद्वैश्रवणोपमम् ॥ 160 ॥
परदारार्चनरतो भगबिम्बं स्मरन् सुधीः ।
पठेन्नामसहस्रं तु वसुकामी लभेद्धनम् ॥ 161 ॥
रवौ वारत्रयं देवि पठेन्नामसहस्रकम् ।
मृदुविष्टरनिर्विष्टः क्षीरपानपरायणः ॥ 162 ॥
स्वप्ने सिंहासनां राज्ञीं वरदां भुवि पश्यति ।
क्षीरचर्वण सन्तृप्तो वीरपानरसाकुलः ॥ 163 ॥
यः पठेत्परया भक्त्या राज्ञी नामसहस्रकम् ।
स सद्यो मुच्यते घोरान्महापातकजाद्भयात् ॥ 164 ॥
यः पठेत्साधको भक्त्या शक्तिवक्षःकृतासनः ।
शुक्रोत्तरणकाले तु तस्य हस्तेऽष्टसिद्धयः ॥ 165 ॥
यः पठेन्निशि चक्राग्रे परस्त्री ध्यानतत्परः ।
सुरासवरसानन्दी स लभेत्संयुगे जयम् ॥ 166 ॥
इदं नामसहस्रं तु सर्वमन्त्रमयं शिवे ।
भूर्जत्वचि लिखेद्रात्रौ चक्रार्चन समागमे ॥ 167 ॥
अष्टगन्धेन पूतेन वेष्टयेत् स्वर्णपत्रके ।
धारयेत् कण्ठदेशे तु सर्वसिद्धिः प्रजायते ॥ 168 ॥
यो धारयेन्महारक्षां सर्वदेवातिदुर्लभाम् ।
रणे राजकुले द्यूते चौररोगाद्युपद्रवे ॥ 169 ॥
स प्राप्नोति जयं सद्यः साधको वीरनायकः ।
श्रीचक्रं पूजयेद्यस्तु धारयेद्वर्म मस्तके ॥ 170 ॥
पठेन्नामसहस्रं तु स्तोत्रं मन्त्रात्मकं तथा ।
किं किं न लभते कामं देवानामपि दुर्लभम् ॥ 171 ॥
सुरापानं ततः संविच्चर्वणं मीनमांसकम् ।
नवकन्या समायोगो मुद्रा वीणारवः प्रिये ॥ 172 ॥
सत्सङ्गो गुरुसान्निध्यं राज्ञी श्रीचक्रमग्रतः ।
यस्य देवि स एव स्याद्योगी ब्रह्मविदीश्वरः ॥ 173 ॥
इदं रहस्यं परमं भक्त्या तव मयोदितम् ।
अप्रकाश्यमदातव्यं न देयं यस्य कस्यचित् ॥ 174 ॥
अन्यशिष्याय दुष्टाय दुर्जनाय दुरात्मने ।
गुरुभक्तिविहीनाय सुरास्त्रीनिन्दकाय च ॥ 175 ॥
नास्तिकाय कुशीलाय न देयं तत्त्वदर्शिभिः ।
देयं शिष्याय शान्ताय भक्तायाद्वैतवादिने ॥ 176 ॥
दीक्षिताय कुलीनाय राज्ञीभक्तिरताय च ।
दत्त्वा भोगापवर्गे च लभेत्साधकसत्तमः ॥ 177 ॥
इति नामसहस्रं तु राज्ञ्याः शिवमुखोदितम् ।
अत्यन्तदुर्लभं गोप्यं गोपनीयं स्वयोनिवत् ॥ 178 ॥
॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञी सहस्रनामस्तोत्रम् सम्पूर्णम् ॥
॥ श्री महाराज्ञी सहस्रनामावलिः ॥
Click to show/hide
ॐ ह्रीं श्रीं रां महाराज्ञ्यै नमः ।
ॐ क्लीं सौः पञ्चदशाक्षर्यै नमः ।
ॐ ह्रीं स्वाहा त्र्यक्षरी विद्यायै नमः ।
ॐ पराभगवत्यै नमः ।
ॐ विभायै नमः ।
ॐ भास्वत्यै नमः ।
ॐ भद्रिकायै नमः ।
ॐ भीमायै नमः ।
ॐ भर्गरूपायै नमः ।
ॐ मनस्विन्यै नमः । (10)
ॐ माननीयायै नमः ।
ॐ मनीषायै नमः ।
ॐ मनोजायै नमः ।
ॐ मनोजवायै नमः ।
ॐ मानदायै नमः ।
ॐ मन्त्रविद्यायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ षडक्षर्यै नमः ।
ॐ षट्कूटायै नमः ।
ॐ त्रिकूटायै नमः । (20)
ॐ त्रय्यै नमः ।
ॐ वेदत्रय्यै नमः ।
ॐ शिवायै नमः ।
ॐ शिवाकारायै नमः ।
ॐ विरूपाक्ष्यै नमः ।
ॐ शशिखण्डावतंसिन्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महोरस्कायै नमः ।
ॐ महौजस्कायै नमः ।
ॐ महोदयायै नमः । (30)
ॐ मातङ्ग्यै नमः ।
ॐ मोदकाहारायै नमः ।
ॐ मदिरारुणलोचनायै नमः ।
ॐ साध्व्यै नमः ।
ॐ शीलवत्यै नमः ।
ॐ शालायै नमः ।
ॐ सुधाकलशधारिण्यै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्मायै नमः । (40)
ॐ पद्मकिञ्जल्करञ्जितायै नमः ।
ॐ हृत्पद्मवासिन्यै नमः ।
ॐ हृद्यायै नमः ।
ॐ पानपात्रधरायै नमः ।
ॐ धरायै नमः ।
ॐ धराधरेन्द्रतनयायै नमः ।
ॐ दक्षिणायै नमः ।
ॐ दक्षजायै नमः ।
ॐ दयायै नमः ।
ॐ दयावत्यै नमः । (50)
ॐ महामेधायै नमः ।
ॐ मोदिन्यै नमः ।
ॐ बोधिन्यै नमः ।
ॐ गदायै नमः ।
ॐ गदाधरार्चितायै नमः ।
ॐ गोधायै नमः ।
ॐ गङ्गायै नमः ।
ॐ गोदावर्यै नमः ।
ॐ गयायै नमः ।
ॐ महाप्रभावसहितायै नमः । (60)
ॐ महोरगविभूषणायै नमः ।
ॐ महामुनिकृतातिथ्यायै नमः ।
ॐ माध्व्यै नमः ।
ॐ मानवत्यै नमः ।
ॐ मघायै नमः ।
ॐ बालायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गतिनाशिन्यै नमः । (70)
ॐ शार्यै नमः ।
ॐ शरीरमध्यस्थायै नमः ।
ॐ वैखर्यै नमः ।
ॐ खेचरेश्वर्यै नमः ।
ॐ शिवदायै नमः ।
ॐ शिववक्षःस्थायै नमः ।
ॐ कालिकायै नमः ।
ॐ त्रिपुरेश्वर्यै नमः ।
ॐ पुरारिकुक्षिमध्यस्थायै नमः ।
ॐ मुरारिहृदयेश्वर्यै नमः । (80)
ॐ बलारिराज्यदायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ मुण्डधारिण्यै नमः ।
ॐ मुण्डमालाञ्चितायै नमः ।
ॐ मुद्रायै नमः ।
ॐ क्षोभणाकर्षणक्षमायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ देव्यै नमः । (90)
ॐ कौमार्यै नमः ।
ॐ अपराजितायै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ शच्यै नमः ।
ॐ इन्द्राण्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ वीरसुन्दर्यै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ भैरवेश्यै नमः ।
ॐ भैरवाकारभीषणायै नमः । (100)
ॐ नागालङ्कारशोभाढ्यायै नमः ।
ॐ नागयज्ञोपवीतिन्यै नमः ।
ॐ नागकङ्कणकेयूरायै नमः ।
ॐ नागहारायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ सुरारिघातिन्यै नमः ।
ॐ पूतायै नमः ।
ॐ पूतनायै नमः ।
ॐ डाकिनीक्रियायै नमः ।
ॐ क्रियावत्यै नमः । (110)
ॐ कुर्यै नमः ।
ॐ कृत्यायै नमः ।
ॐ डाकिन्यै नमः ।
ॐ लाकिन्यै नमः ।
ॐ लयायै नमः ।
ॐ लीलावत्यै नमः ।
ॐ रसाकीर्णायै नमः ।
ॐ नागकन्यामनोहरायै नमः ।
ॐ हारकङ्कणशोभाढ्यायै नमः ।
ॐ सदानन्दायै नमः । (120)
ॐ शुभङ्कर्यै नमः ।
ॐ प्रहासिन्यै नमः ।
ॐ मधुमत्यै नमः ।
ॐ सरस्यै नमः ।
ॐ स्मरमोहिन्यै नमः ।
ॐ महोग्रवपुष्यै नमः ।
ॐ वार्तायै नमः ।
ॐ वामाचारप्रियायै नमः ।
ॐ सिरायै नमः ।
ॐ सुधामय्यै नमः । (130)
ॐ वेणुकरायै नमः ।
ॐ वैरघ्न्यै नमः ।
ॐ वीरसुन्दर्यै नमः ।
ॐ वारिमध्यस्थितायै नमः ।
ॐ वामायै नमः ।
ॐ वामनेत्रायै नमः ।
ॐ शशिप्रभायै नमः ।
ॐ शर्मदायै नमः ।
ॐ शङ्कर्यै नमः ।
ॐ सीतायै नमः । (140)
ॐ रवीन्दुशिखिलोचनायै नमः ।
ॐ मदिरायै नमः ।
ॐ वारुण्यै नमः ।
ॐ वीणागीतिज्ञायै नमः ।
ॐ मदिरावत्यै नमः ।
ॐ वटस्थायै नमः ।
ॐ वारुणीशक्त्यै नमः ।
ॐ वटजायै नमः ।
ॐ वटवासिन्यै नमः ।
ॐ वटुक्यै नमः । (150)
ॐ वीरसुवे नमः ।
ॐ वन्द्यायै नमः ।
ॐ स्तम्भिन्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ चमवे नमः ।
ॐ मुद्गराङ्कुशहस्तायै नमः ।
ॐ वराभयकरायै नमः ।
ॐ कुट्यै नमः ।
ॐ पाटीरद्रुमवल्ल्यै नमः ।
ॐ वटुकायै नमः । (160)
ॐ वटुकेश्वर्यै नमः ।
ॐ इष्टदायै नमः ।
ॐ कृषिभुवे नमः ।
ॐ कीर्यै नमः ।
ॐ रेवतीरमणप्रियायै नमः ।
ॐ रोहिण्यै नमः ।
ॐ रेवत्यै नमः ।
ॐ रम्यायै नमः ।
ॐ रमणायै नमः ।
ॐ रोमहर्षिण्यै नमः । (170)
ॐ रसोल्लासायै नमः ।
ॐ रसासारायै नमः ।
ॐ सारिण्यै नमः ।
ॐ तारिण्यै नमः ।
ॐ तडिते नमः ।
ॐ तर्यै नमः ।
ॐ तरित्रहस्तायै नमः ।
ॐ तोतुलायै नमः ।
ॐ तरणिप्रभायै नमः ।
ॐ रत्नाकरप्रियायै नमः । (180)
ॐ रम्भायै नमः ।
ॐ रत्नालङ्कारशोभितायै नमः ।
ॐ रुक्माङ्गदायै नमः ।
ॐ गदाहस्तायै नमः ।
ॐ गदाधरवरप्रदायै नमः ।
ॐ षड्रसायै नमः ।
ॐ द्विरसायै नमः ।
ॐ मालायै नमः ।
ॐ मालाभरणभूषितायै नमः ।
ॐ मालत्यै नमः । (190)
ॐ मल्लिकामोदायै नमः ।
ॐ मोदकाहारवल्लभायै नमः ।
ॐ वल्लभ्यै नमः ।
ॐ मधुरायै नमः ।
ॐ मायायै नमः ।
ॐ काश्यै नमः ।
ॐ काञ्च्यै नमः ।
ॐ ललन्तिकायै नमः ।
ॐ हसन्तिकायै नमः ।
ॐ हसन्त्यै नमः । (200)
ॐ भ्रमन्त्यै नमः ।
ॐ वसन्तिकायै नमः ।
ॐ क्षेमायै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ क्षामायै नमः ।
ॐ क्षौमवस्त्रायै नमः ।
ॐ क्षणेश्वर्यै नमः ।
ॐ क्षणदायै नमः ।
ॐ क्षेमदायै नमः ।
ॐ सीरायै नमः । (210)
ॐ सीरपाणिसमर्चितायै नमः ।
ॐ क्रीतायै नमः ।
ॐ क्रीतातपायै नमः ।
ॐ क्रूरायै नमः ।
ॐ कमनीयायै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ कूर्चबीजायै नमः ।
ॐ कुठाराढ्यायै नमः ।
ॐ कूर्मिर्ण्यै नमः ।
ॐ कूर्मसुन्दर्यै नमः । (220)
ॐ कारुण्यायै नमः ।
ॐ काश्मीर्यै नमः ।
ॐ दूत्यै नमः ।
ॐ द्वारवत्यै नमः ।
ॐ ध्रुवायै नमः ।
ॐ ध्रुवस्तुतायै नमः ।
ॐ ध्रुवगत्यै नमः ।
ॐ पीठेश्यै नमः ।
ॐ बगलामुख्यै नमः ।
ॐ सुमुख्यै नमः । (230)
ॐ शोभनाज्योतिषे नमः ।
ॐ रत्नज्वालामुख्यै नमः ।
ॐ नत्यै नमः ।
ॐ अलकायै नमः ।
ॐ उज्जयिन्यै नमः ।
ॐ भोग्यायै नमः ।
ॐ भङ्ग्यै नमः ।
ॐ भोगावत्यै नमः ।
ॐ बलायै नमः ।
ॐ धर्मराजपुर्यै नमः । (240)
ॐ पूतायै नमः ।
ॐ पूर्णसत्त्वायै नमः ।
ॐ अमरावत्यै नमः ।
ॐ अयोध्यायै नमः ।
ॐ बोधनीयायै नमः ।
ॐ युगमात्रे नमः ।
ॐ यक्षिण्यै नमः ।
ॐ यज्ञेश्वर्यै नमः ।
ॐ योगगम्यायै नमः ।
ॐ योगिध्येयायै नमः । (250)
ॐ यशस्विन्यै नमः ।
ॐ यशोवत्यै नमः ।
ॐ चार्वङ्ग्यै नमः ।
ॐ चारुहासायै नमः ।
ॐ चलाचलायै नमः ।
ॐ हरीश्वर्यै नमः ।
ॐ हरेर्मायायै नमः ।
ॐ मायिन्यै नमः ।
ॐ वायुवेगिन्यै नमः ।
ॐ अम्बालिकायै नमः । (260)
ॐ अम्बायै नमः ।
ॐ भर्गेश्यै नमः ।
ॐ भृगुकूटायै नमः ।
ॐ महामत्यै नमः ।
ॐ कोशेश्वर्यै नमः ।
ॐ कमलायै नमः ।
ॐ कीर्तिदायै नमः ।
ॐ कीर्तिवर्धिन्यै नमः ।
ॐ कठोरवाचे नमः ।
ॐ कुहूमूर्त्यै नमः । (270)
ॐ चन्द्रबिम्बसमाननायै नमः ।
ॐ चन्द्रकुङ्कुमलिप्ताङ्ग्यै नमः ।
ॐ कनकाचलवासिन्यै नमः ।
ॐ मलयाचलसानुस्थायै नमः ।
ॐ हिमाद्रितनयातनवे नमः ।
ॐ हिमाद्रिकुक्षिदेशस्थायै नमः ।
ॐ कुब्जिकायै नमः ।
ॐ कोसलेश्वर्यै नमः ।
ॐ कारैकनिगलायै नमः ।
ॐ गूढायै नमः । (280)
ॐ गूढगुल्फातिगोपितायै नमः ।
ॐ तनुजायै नमः ।
ॐ तनुरूपायै नमः ।
ॐ बाणचापधरायै नमः ।
ॐ नुत्यै नमः ।
ॐ धुरीणायै नमः ।
ॐ धूम्रवाराह्यै नमः ।
ॐ धूम्रकेशायै नमः ।
ॐ अरुणाननायै नमः ।
ॐ अरुणेश्यै नमः । (290)
ॐ रत्यै नमः ।
ॐ स्वात्यै नमः ।
ॐ गरिष्ठायै नमः ।
ॐ गरीयस्यै नमः ।
ॐ महानस्यै नमः ।
ॐ महाकारायै नमः ।
ॐ सुरासुरभयङ्कर्यै नमः ।
ॐ अणुरूपायै नमः ।
ॐ महज्ज्योतिषे नमः ।
ॐ अनिरुद्धायै नमः । (300)
ॐ सरस्वत्यै नमः ।
ॐ श्यामायै नमः ।
ॐ श्याममुख्यै नमः ।
ॐ शान्तायै नमः ।
ॐ श्रान्तसन्तापहारिण्यै नमः ।
ॐ गवे नमः ।
ॐ गण्यायै नमः ।
ॐ गोमय्यै नमः ।
ॐ गुह्यायै नमः ।
ॐ गोमत्यै नमः । (310)
ॐ गुरुवागगयायै नमः ।
ॐ गीतसन्तोषसंसक्तायै नमः ।
ॐ गृहिण्यै नमः ।
ॐ ग्राहिण्यै नमः ।
ॐ गुहायै नमः ।
ॐ गणप्रियायै नमः ।
ॐ गजगत्यै नमः ।
ॐ गान्धार्यै नमः ।
ॐ गन्धमोदिन्यै नमः ।
ॐ गन्धमोहिन्यै नमः । (320)
ॐ गन्धमादनसानुस्थायै नमः ।
ॐ सह्याचलकृतालयायै नमः ।
ॐ गजाननप्रियायै नमः ।
ॐ गम्यायै नमः ।
ॐ ग्राहिकायै नमः ।
ॐ ग्राहवाहनायै नमः ।
ॐ गुहप्रसुवे नमः ।
ॐ गुहावासायै नमः ।
ॐ ग्रहमालाविभूषणायै नमः ।
ॐ कौबेर्यै नमः । (330)
ॐ कुहकायै नमः ।
ॐ भ्रान्त्यै नमः ।
ॐ तर्कविद्याप्रियङ्कर्यै नमः ।
ॐ पीताम्बरायै नमः ।
ॐ पटाकारायै नमः ।
ॐ पताकायै नमः ।
ॐ सृष्टिजायै नमः ।
ॐ सुधायै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दक्षसुतायै नमः । (340)
ॐ दक्षयज्ञविनाशिन्यै नमः ।
ॐ ताराचक्रस्थितायै नमः ।
ॐ तारायै नमः ।
ॐ तुर्यै नमः ।
ॐ तुर्यायै नमः ।
ॐ तुट्यै नमः ।
ॐ तुलायै नमः ।
ॐ सन्ध्यात्रय्यै नमः ।
ॐ सन्धिजरायै नमः ।
ॐ सन्ध्यायै नमः । (350)
ॐ तारुण्यलालितायै नमः ।
ॐ ललितायै नमः ।
ॐ लोहितायै नमः ।
ॐ लम्पायै नमः ।
ॐ चम्पायै नमः ।
ॐ कम्पाकुलायै नमः ।
ॐ सृण्यै नमः ।
ॐ सृत्यै नमः ।
ॐ सत्यवत्यै नमः ।
ॐ स्वस्थायै नमः । (360)
ॐ असमानायै नमः ।
ॐ मानवर्धिन्यै नमः ।
ॐ महोमय्यै नमः ।
ॐ मनस्तुष्ट्यै नमः ।
ॐ कामधेनवे नमः ।
ॐ सनातन्यै नमः ।
ॐ सूक्ष्मरूपायै नमः ।
ॐ सूक्ष्ममुख्यै नमः ।
ॐ स्थूलरूपायै नमः ।
ॐ कलावत्यै नमः । (370)
ॐ तलातलाश्रयायै नमः ।
ॐ सिन्धवे नमः ।
ॐ त्र्यम्बिकायै नमः ।
ॐ लम्पिकायै नमः ।
ॐ जयायै नमः ।
ॐ सौदामिन्यै नमः ।
ॐ सुधादेव्यै नमः ।
ॐ सनकादिसमर्चितायै नमः ।
ॐ मन्दाकिन्यै नमः ।
ॐ यमुनायै नमः । (380)
ॐ विपाशायै नमः ।
ॐ नर्मदानद्यै नमः ।
ॐ गण्डक्यै नमः ।
ॐ ऐरावत्यै नमः ।
ॐ सिप्रायै नमः ।
ॐ वितस्तायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ रेवायै नमः ।
ॐ इक्षुमत्यै नमः ।
ॐ सागरवासिन्यै नमः । (390)
ॐ देवक्यै नमः ।
ॐ देवमात्रे नमः ।
ॐ देवेश्यै नमः ।
ॐ देवसुन्दर्यै नमः ।
ॐ दैत्यघ्न्यै नमः ।
ॐ दमन्यै नमः ।
ॐ दात्र्यै नमः ।
ॐ दितये नमः ।
ॐ दितिजसुन्दर्यै नमः ।
ॐ विद्याधर्यै नमः । (400)
ॐ विद्येश्यै नमः ।
ॐ विद्याधरजसुन्दर्यै नमः ।
ॐ मेनकायै नमः ।
ॐ चित्रलेखायै नमः ।
ॐ चित्रिण्यै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ उर्वश्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ रम्भायै नमः ।
ॐ अप्सरोगणसुन्दर्यै नमः । (410)
ॐ यक्षिण्यै नमः ।
ॐ यक्षलोकेश्यै नमः ।
ॐ नरवाहनपूजितायै नमः ।
ॐ यक्षेन्द्रतनयायै नमः ।
ॐ योग्यायै नमः ।
ॐ यक्षनायकसुन्दर्यै नमः ।
ॐ गन्धवत्यर्चितायै नमः ।
ॐ गन्धायै नमः ।
ॐ सुगन्धायै नमः ।
ॐ गीततत्परायै नमः । (420)
ॐ गन्धर्वतनयायै नमः ।
ॐ नम्रायै नमः ।
ॐ गीत्यै नमः ।
ॐ गन्धर्वसुन्दर्यै नमः ।
ॐ मन्दोदर्यै नमः ।
ॐ करालाक्ष्यै नमः ।
ॐ मेघनादवरप्रदायै नमः ।
ॐ मेघवाहनसन्तुष्टायै नमः ।
ॐ मेघमूर्त्यै नमः ।
ॐ राक्षस्यै नमः । (430)
ॐ रक्षोहर्त्र्यै नमः ।
ॐ केकस्यै नमः ।
ॐ रक्षोनायकसुन्दर्यै नमः ।
ॐ किन्नर्यै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कलकण्ठस्वनायै नमः ।
ॐ सुधायै नमः ।
ॐ किम्मुख्यै नमः ।
ॐ हयवक्त्रायै नमः ।
ॐ खेलायै नमः । (440)
ॐ किन्नरसुन्दर्यै नमः ।
ॐ पिशाच्यै नमः ।
ॐ राजमातङ्ग्यै नमः ।
ॐ उच्छिष्टपदसंस्थितायै नमः ।
ॐ महापिशाचिन्यै नमः ।
ॐ चान्द्र्यै नमः ।
ॐ पिशाचकुलसुन्दर्यै नमः ।
ॐ गुह्येश्वर्यै नमः ।
ॐ गुह्यरूपायै नमः ।
ॐ गुर्व्यै नमः । (450)
ॐ गुह्यकसुन्दर्यै नमः ।
ॐ सिद्धिप्रदायै नमः ।
ॐ सिद्धवध्वै नमः ।
ॐ सिद्धेश्यै नमः ।
ॐ सिद्धसुन्दर्यै नमः ।
ॐ भूतेश्वर्यै नमः ।
ॐ भूतालयायै नमः ।
ॐ भूतधात्र्यै नमः ।
ॐ भयापहायै नमः ।
ॐ भूतभीतिहर्यै नमः । (460)
ॐ भव्यायै नमः ।
ॐ भूतजायै नमः ।
ॐ भूतसुन्दर्यै नमः ।
ॐ पृथ्व्यै नमः ।
ॐ पार्थिवलोकेश्यै नमः ।
ॐ प्रथायै नमः ।
ॐ विष्णुसमर्चितायै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ वसुनतायै नमः ।
ॐ पृथिव्यै नमः । (470)
ॐ भूमिसुन्दर्यै नमः ।
ॐ अम्भोधितनयायै नमः ।
ॐ अलुब्धायै नमः ।
ॐ जलजाक्ष्यै नमः ।
ॐ जलेश्वर्यै नमः ।
ॐ अमूर्त्यै नमः ।
ॐ अम्मय्यै नमः ।
ॐ मार्यै नमः ।
ॐ जलस्थायै नमः ।
ॐ जलसुन्दर्यै नमः । (480)
ॐ तेजस्विन्यै नमः ।
ॐ महोधात्र्यै नमः ।
ॐ तैजस्यै नमः ।
ॐ सूर्यबिम्बगायै नमः ।
ॐ सूर्यकान्त्यै नमः ।
ॐ सूर्यतेजसे नमः ।
ॐ तेजोरूपैकसुन्दर्यै नमः ।
ॐ वायुवाहायै नमः ।
ॐ वायुमुख्यै नमः ।
ॐ वायुलोकैकसुन्दर्यै नमः । (490)
ॐ गगनस्थायै नमः ।
ॐ खेचरेश्यै नमः ।
ॐ शून्यरूपायै नमः ।
ॐ शूररूपायै नमः ।
ॐ निराकृत्यै नमः ।
ॐ निराभासायै नमः ।
ॐ भासमानायै नमः ।
ॐ द्युत्यै नमः ।
ॐ आकाशसुन्दर्यै नमः ।
ॐ क्षितिमूर्त्यै नमः । (500)
ॐ धरायै नमः ।
ॐ अनन्तायै नमः ।
ॐ क्षितिभृल्लोकसुन्दर्यै नमः ।
ॐ अब्धियानायै नमः ।
ॐ रत्नशोभायै नमः ।
ॐ वरुणेश्यै नमः ।
ॐ वरायुधायै नमः ।
ॐ पाशहस्तायै नमः ।
ॐ पोषणायै नमः ।
ॐ वरुणेश्वरसुन्दर्यै नमः । (510)
ॐ अनलैकरुचये नमः ।
ॐ ज्योतिषे नमः ।
ॐ पञ्चानिलगतिस्थित्यै नमः ।
ॐ प्राणापानसमानेच्छायै नमः ।
ॐ उदानव्यानरूपिण्यै नमः ।
ॐ पञ्चवातगतये नमः ।
ॐ नाडीरूपिण्यै नमः ।
ॐ वातसुन्दर्यै नमः ।
ॐ अग्निरूपायै नमः ।
ॐ वह्निशिखायै नमः । (520)
ॐ वडवानलसन्निम्नायै नमः ।
ॐ हेतये नमः ।
ॐ हविषे नमः ।
ॐ हुतज्योतिषे नमः ।
ॐ अग्निजायै नमः ।
ॐ वह्निसुन्दर्यै नमः ।
ॐ सोमेश्वर्यै नमः ।
ॐ सोमकलायै नमः ।
ॐ सोमपानपरायणायै नमः ।
ॐ सौम्याननायै नमः । (530)
ॐ सौम्यरूपायै नमः ।
ॐ सोमस्थायै नमः ।
ॐ सोमसुन्दर्यै नमः ।
ॐ सूर्यप्रभायै नमः ।
ॐ सूर्यमुख्यै नमः ।
ॐ सूर्यजायै नमः ।
ॐ सूर्यसुन्दर्यै नमः ।
ॐ याज्ञिक्यै नमः ।
ॐ यज्ञभागेच्छायै नमः ।
ॐ यजमानवरप्रदायै नमः । (540)
ॐ याजक्यै नमः ।
ॐ यज्ञविद्यायै नमः ।
ॐ यजमानैकसुन्दर्यै नमः ।
ॐ आकाशगामिन्यै नमः ।
ॐ वन्द्यायै नमः ।
ॐ शब्दजायै नमः ।
ॐ आकाशसुन्दर्यै नमः ।
ॐ मीनप्रियायै नमः ।
ॐ मीननेत्रायै नमः ।
ॐ मीनास्यायै नमः । (550)
ॐ मीनसुन्दर्यै नमः ।
ॐ कूर्मपृष्ठगतायै नमः ।
ॐ कूर्म्यै नमः ।
ॐ कूर्मजायै नमः ।
ॐ कूर्मरूपिण्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ वीरसुवे नमः ।
ॐ वन्द्यायै नमः ।
ॐ वरारोहायै नमः ।
ॐ मृगेक्षणायै नमः । (560)
ॐ वराहमूर्तये नमः ।
ॐ वाचालायै नमः ।
ॐ दंष्ट्रायै नमः ।
ॐ वराहसुन्दर्यै नमः ।
ॐ नरसिंहाकृतये नमः ।
ॐ देव्यै नमः ।
ॐ दुष्टदैत्यनिषूदिन्यै नमः ।
ॐ प्रद्युम्नवरदायै नमः ।
ॐ नार्यै नमः ।
ॐ नरसिंहैकसुन्दर्यै नमः । (570)
ॐ वामजायै नमः ।
ॐ वामनाकारायै नमः ।
ॐ नारायणपरायणायै नमः ।
ॐ बलिदानवदर्पघ्न्यै नमः ।
ॐ वाम्यायै नमः ।
ॐ वामनसुन्दर्यै नमः ।
ॐ रामप्रियायै नमः ।
ॐ रामकलायै नमः ।
ॐ क्षत्रवंशक्षययङ्कर्यै नमः ।
ॐ दगुपुत्र्यै नमः । (580)
ॐ राजकन्यायै नमः ।
ॐ रामायै नमः ।
ॐ परशुधारिण्यै नमः ।
ॐ भार्गव्यै नमः ।
ॐ भार्गवेष्टायै नमः ।
ॐ जामदग्न्यवरप्रदायै नमः ।
ॐ कुठारधारिण्यै नमः ।
ॐ रात्र्यै नमः ।
ॐ जामदग्न्यैकसुन्दर्यै नमः ।
ॐ सीतालक्ष्मणसेव्यायै नमः । (590)
ॐ रक्षःकुलविनाशिन्यै नमः ।
ॐ रामप्रियायै नमः ।
ॐ शत्रुघ्न्यै नमः ।
ॐ शत्रुघ्नभरतेष्टदायै नमः ।
ॐ लावण्यामृतधाराढ्यायै नमः ।
ॐ लवणासुरघातिन्यै नमः ।
ॐ लोहितास्यायै नमः ।
ॐ प्रसन्नास्यायै नमः ।
ॐ स्वात्मारामायै नमः ।
ॐ रामसुन्दर्यै नमः । (600)
ॐ कृष्णकेशायै नमः ।
ॐ कृष्णमुख्यै नमः ।
ॐ यादवान्तकर्यै नमः ।
ॐ लयायै नमः ।
ॐ यादोगणार्चितायै नमः ।
ॐ योज्यायै नमः ।
ॐ राधायै नमः ।
ॐ श्रीकृष्णसुन्दर्यै नमः ।
ॐ बुद्धप्रसुवे नमः ।
ॐ बुद्धदेव्यै नमः । (610)
ॐ जिनमार्गपरायणायै नमः ।
ॐ जितक्रोधायै नमः ।
ॐ जितालस्यायै नमः ।
ॐ जिनसेव्यायै नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ जिनवंशधरायै नमः ।
ॐ उग्रायै नमः ।
ॐ नीलान्तायै नमः ।
ॐ बुद्धसुन्दर्यै नमः ।
ॐ काल्यै नमः । (620)
ॐ कोलाहलप्रीतायै नमः ।
ॐ प्रेतवाहायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ कल्किप्रियायै नमः ।
ॐ कम्बुधरायै नमः ।
ॐ कलिकालैकसुन्दर्यै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ ब्रह्ममायायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ शिववाहनायै नमः । (630)
ॐ इन्द्रावरजवक्षःस्थायै नमः ।
ॐ स्थाणुपत्न्यै नमः ।
ॐ पलालिन्यै नमः ।
ॐ जृम्भिण्यै नमः ।
ॐ जृम्भहर्त्र्यै नमः ।
ॐ जृम्भमाणालकाकुलायै नमः ।
ॐ कुलाकुलपदेशान्यै नमः ।
ॐ पददानफलप्रदायै नमः ।
ॐ कुलवागीश्वर्यै नमः ।
ॐ कुल्यायै नमः । (640)
ॐ कुलजायै नमः ।
ॐ कुलसुन्दर्यै नमः ।
ॐ पुरन्दरेष्टायै नमः ।
ॐ तारुण्यालयायै नमः ।
ॐ पुण्यजनेश्वर्यै नमः ।
ॐ पुण्योत्साहायै नमः ।
ॐ पापहन्त्र्यै नमः ।
ॐ पाकशासनसुन्दर्यै नमः ।
ॐ सूयर्कोटिप्रतीकाशायै नमः ।
ॐ सूर्यतेजोमय्यै नमः । (650)
ॐ मत्यै नमः ।
ॐ लेखिन्यै नमः ।
ॐ भ्राजिन्यै नमः ।
ॐ रज्जुरूपिण्यै नमः ।
ॐ सूर्यसुन्दर्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ सुधाधारायै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ शीतांशुसुन्दर्यै नमः ।
ॐ लोलाक्ष्यै नमः । (660)
ॐ शताक्ष्यै नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ सहस्रपदे नमः ।
ॐ सहस्रशीर्षायै नमः ।
ॐ इन्द्राक्ष्यै नमः ।
ॐ सहस्रभुजवल्लिकायै नमः ।
ॐ कोटिरत्नांशुशोभायै नमः ।
ॐ शुभ्रवस्त्रायै नमः ।
ॐ शताननायै नमः ।
ॐ शतानन्दायै नमः । (670)
ॐ श्रुतिधरायै नमः ।
ॐ पिङ्गलायै नमः ।
ॐ उग्रनादिन्यै नमः ।
ॐ सुषुम्नायै नमः ।
ॐ हारकेयूरनूपुरारावसङ्कुलायै नमः ।
ॐ घोरनादायै नमः ।
ॐ अघोरमुख्यै नमः ।
ॐ उन्मुख्यै नमः ।
ॐ उल्मुकायुधायै नमः ।
ॐ गोपीतायै नमः । (680)
ॐ गूर्जर्यै नमः ।
ॐ गाथायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ वेदवल्लभायै नमः ।
ॐ वल्लकीस्वननादायै नमः ।
ॐ नादविद्यायै नमः ।
ॐ नदीतट्यै नमः ।
ॐ बिन्दुरूपायै नमः ।
ॐ चक्रयोनये नमः ।
ॐ बिन्दुनादस्वरूपिण्यै नमः । (690)
ॐ चक्रेश्वर्यै नमः ।
ॐ भैरवेश्यै नमः ।
ॐ महाभैरववल्लभायै नमः ।
ॐ कालभैरवभार्यायै नमः ।
ॐ कल्पान्ते रङ्गनर्तक्यै नमः ।
ॐ प्रलयानलधूम्राभायै नमः ।
ॐ योनिमध्यकृतालयायै नमः ।
ॐ भूचर्यै नमः ।
ॐ खेचरीमुद्रायै नमः ।
ॐ नवमुद्राविलासिन्यै नमः । (700)
ॐ वियोगिन्यै नमः ।
ॐ श्मशानस्थायै नमः ।
ॐ श्मशानार्चनतोषितायै नमः ।
ॐ भास्वराङ्ग्यै नमः ।
ॐ भर्गशिखायै नमः ।
ॐ भर्गवामाङ्गवासिन्यै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ विश्वकाल्यै नमः ।
ॐ श्रीकाल्यै नमः ।
ॐ मेघकालिकायै नमः । (710)
ॐ नीरकाल्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ काल्यै नमः ।
ॐ कामेशकालिकायै नमः ।
ॐ इन्द्रकाल्यै नमः ।
ॐ पूर्वकाल्यै नमः ।
ॐ पश्चिमाम्नायकालिकायै नमः ।
ॐ श्मशानकालिकायै नमः ।
ॐ शुभ्रकाल्यै नमः ।
ॐ श्रीकृष्णकालिकायै नमः । (720)
ॐ क्रीङ्कारोत्तरकाल्यै नमः ।
ॐ श्रीं हुं ह्रीं दक्षिणकालिकायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ त्रिपुरेशान्यै नमः ।
ॐ त्रिकूटायै नमः ।
ॐ त्रिपुरार्चितायै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ त्रिपुराध्यक्षायै नमः ।
ॐ त्रिकुटायै नमः ।
ॐ कूटभैरव्यै नमः । (730)
ॐ त्रिलोकजनन्यै नमः ।
ॐ नेत्र्यै नमः ।
ॐ महात्रिपूरसुन्दर्यै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ कामकलायै नमः ।
ॐ कालकामेशसुन्दर्यै नमः ।
ॐ त्र्यक्षर्य्यै नमः ।
ॐ त्र्यक्षरीदेव्यै नमः ।
ॐ भावनायै नमः ।
ॐ भुवनेश्वर्यै नमः । (740)
ॐ एकाक्षर्यै नमः ।
ॐ चतुष्कूटायै नमः ।
ॐ त्रिकूटेश्यै नमः ।
ॐ लयेश्वर्यै नमः ।
ॐ चतुर्वर्णायै नमः ।
ॐ वर्णेश्यै नमः ।
ॐ वर्णाढ्यायै नमः ।
ॐ चतुरक्षर्यै नमः ।
ॐ पञ्चाक्षर्यै नमः ।
ॐ षड्वक्त्रायै नमः । (750)
ॐ षट्कूटायै नमः ।
ॐ षडक्षर्यै नमः ।
ॐ सप्ताक्षर्यै नमः ।
ॐ नवार्णेश्यै नमः ।
ॐ परमाष्टाक्षरेश्वर्यै नमः ।
ॐ नवम्यै नमः ।
ॐ पञ्चम्यै नमः ।
ॐ षष्ट्यै नमः ।
ॐ नागेश्यै नमः ।
ॐ नवाक्षर्यै नमः । (760)
ॐ दशाक्षर्यै नमः ।
ॐ दशास्येश्यै नमः ।
ॐ देविकायै नमः ।
ॐ एकादशाक्षर्यै नमः ।
ॐ द्वादशादित्यसङ्काशायै नमः ।
ॐ द्वादश्यै नमः ।
ॐ द्वादशाक्षर्यै नमः ।
ॐ त्रयोदश्यै नमः ।
ॐ वेदगर्भायै नमः ।
ॐ वाद्यायै नमः । (770)
ॐ त्रयोदशाक्षर्यै नमः ।
ॐ चतुर्दशाक्षरीविद्यायै नमः ।
ॐ पञ्चदशाक्षर्यै नमः ।
ॐ श्रीषोडश्यै नमः ।
ॐ सर्वविद्येश्यै नमः ।
ॐ महाश्रीषोडशाक्षर्यै नमः ।
ॐ महाश्रीषोडशीरूपायै नमः ।
ॐ चिन्तामणिमनुप्रियायै नमः ।
ॐ द्वाविंशत्यक्षर्यै नमः ।
ॐ श्यामायै नमः । (780)
ॐ महाकालकुटुम्बिन्यै नमः ।
ॐ वज्रतारायै नमः ।
ॐ कालतारायै नमः ।
ॐ नारीतारायै नमः ।
ॐ उग्रतारिण्यै नमः ।
ॐ कामतारायै नमः ।
ॐ शब्दतारायै नमः ।
ॐ स्पर्शतारायै नमः ।
ॐ रसाश्रयायै नमः ।
ॐ रूपतारायै नमः । (790)
ॐ गन्धतारायै नमः ।
ॐ महानीलसरस्वत्यै नमः ।
ॐ कालज्वालायै नमः ।
ॐ वह्निज्वालायै नमः ।
ॐ ब्रह्मज्वालायै नमः ।
ॐ जटाकुलायै नमः ।
ॐ विष्णुज्वालायै नमः ।
ॐ विष्णुशिखायै नमः ।
ॐ भद्रज्वालायै नमः ।
ॐ करालिन्यै नमः । (800)
ॐ विकरालमुखीदेव्यै नमः ।
ॐ कराल्यै नमः ।
ॐ भूतिभूषणायै नमः ।
ॐ चिताशयासनायै नमः ।
ॐ चिन्त्यायै नमः ।
ॐ चितामण्डलमध्यगायै नमः ।
ॐ भूतभैरवसेव्यायै नमः ।
ॐ भूतभैरवपालिन्यै नमः ।
ॐ बन्धक्यै नमः ।
ॐ बद्धसन्मुद्रायै नमः । (810)
ॐ भवबन्धविनाशिन्यै नमः ।
ॐ भवान्यै नमः ।
ॐ देवदेवेश्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ दीक्षितपूजितायै नमः ।
ॐ साधकेश्यै नमः ।
ॐ सिद्धिदात्र्यै नमः ।
ॐ साधकानन्दवर्धिन्यै नमः ।
ॐ साधकाश्रयभूतायै नमः ।
ॐ साधकेष्टफलप्रदायै नमः । (820)
ॐ रजोवत्यै नमः ।
ॐ राजस्यै नमः ।
ॐ रजक्यै नमः ।
ॐ रजस्वलायै नमः ।
ॐ पुष्पप्रियायै नमः ।
ॐ पुष्पवत्यै नमः ।
ॐ स्वयम्भू पुष्पमालिकायै नमः ।
ॐ स्वयम्भू पुष्पगन्धाढ्यायै नमः ।
ॐ पुलस्त्यसुतनाशिन्यै नमः ।
ॐ पात्रहस्तायै नमः । (830)
ॐ परायै नमः ।
ॐ पौत्र्यै नमः ।
ॐ पीतास्यायै नमः ।
ॐ पीतभूषणायै नमः ।
ॐ पिङ्गाननायै नमः ।
ॐ पिङ्गकेश्यै नमः ।
ॐ पिङ्गलायै नमः ।
ॐ पिङ्गलेश्वर्यै नमः ।
ॐ मङ्गलायै नमः ।
ॐ मङ्गलेशान्यै नमः । (840)
ॐ सर्वमङ्गलमङ्गलायै नमः ।
ॐ पुरूरवेश्वर्यै नमः ।
ॐ पाशधरायै नमः ।
ॐ चापधरायै नमः ।
ॐ अधुरायै नमः ।
ॐ पुण्यधात्र्यै नमः ।
ॐ पुण्यमय्यै नमः ।
ॐ पुण्यलोकनिवासिन्यै नमः ।
ॐ होतृसेव्यायै नमः ।
ॐ हकारस्थायै नमः । (850)
ॐ सकारस्थायै नमः ।
ॐ सुखावत्यै नमः ।
ॐ सख्यै नमः ।
ॐ शोभावत्यै नमः ।
ॐ सत्यायै नमः ।
ॐ सत्याचारपरायणायै नमः ।
ॐ सत्यै नमः ।
ॐ ईशानकलेशान्यै नमः ।
ॐ वामदेवकलाश्रितायै नमः ।
ॐ सद्योजातकलादेव्यै नमः । (860)
ॐ शिवायै नमः ।
ॐ अघोरकलाकृत्यै नमः ।
ॐ शर्वर्यै नमः ।
ॐ क्षीरसदृश्यै नमः ।
ॐ क्षीरनीरविवेचिन्यै नमः ।
ॐ वितर्कनिलयायै नमः ।
ॐ नित्यायै नमः ।
ॐ नित्यक्लिन्नायै नमः ।
ॐ पराम्बिकायै नमः ।
ॐ पुरारिदयितायै नमः । (870)
ॐ दीर्घायै नमः ।
ॐ दीर्घनासायै नमः ।
ॐ अल्पभाषिण्यै नमः ।
ॐ काशिकायै नमः ।
ॐ कौशिक्यै नमः ।
ॐ कोश्यायै नमः ।
ॐ कोशदायै नमः ।
ॐ रूपवर्धिन्यै नमः ।
ॐ तुष्ट्यै नमः ।
ॐ पुष्ट्यै नमः । (880)
ॐ प्रजाप्रीतायै नमः ।
ॐ पूजितायै नमः ।
ॐ पूजकप्रियायै नमः ।
ॐ प्रजावत्यै नमः ।
ॐ गर्भवत्यै नमः ।
ॐ गर्भपोषणपोषितायै नमः ।
ॐ शुक्लवाससे नमः ।
ॐ शुक्लरूपायै नमः ।
ॐ शुचिवासायै नमः ।
ॐ जयावहायै नमः । (890)
ॐ जानक्यै नमः ।
ॐ जन्यजनकायै नमः ।
ॐ जनतोषणतत्परायै नमः ।
ॐ वादप्रियायै नमः ।
ॐ वाद्यरतायै नमः ।
ॐ वादिन्यै नमः ।
ॐ वादसुन्दर्यै नमः ।
ॐ वाक्स्तम्भिन्यै नमः ।
ॐ कीरवाण्यै नमः ।
ॐ धीराधीरायै नमः । (900)
ॐ धुरन्धरायै नमः ।
ॐ स्तनन्धय्यै नमः ।
ॐ सामिधेन्यै नमः ।
ॐ निरानन्दायै नमः ।
ॐ निरालयायै नमः ।
ॐ समस्तसुखदायै नमः ।
ॐ सारायै नमः ।
ॐ वारान्निधिवरप्रदायै नमः ।
ॐ वालुक्यै नमः ।
ॐ वीरपानेष्टायै नमः । (910)
ॐ वसुधात्र्यै नमः ।
ॐ वसुप्रियायै नमः ।
ॐ शुक्रानन्दायै नमः ।
ॐ शुक्ररसायै नमः ।
ॐ शुक्रपूज्यायै नमः ।
ॐ शुकप्रियायै नमः ।
ॐ शुक्यै नमः ।
ॐ शुकहस्तायै नमः ।
ॐ समस्तनरकान्तकायै नमः ।
ॐ समस्ततत्त्वनिलयायै नमः । (920)
ॐ भगरूपायै नमः ।
ॐ भगेश्वर्यै नमः ।
ॐ भगबिम्बायै नमः ।
ॐ भगायै नमः ।
ॐ हृद्यायै नमः ।
ॐ भगलिङ्गस्वरूपिण्यै नमः ।
ॐ भगलिङ्गेश्वर्यै नमः ।
ॐ श्रीदायै नमः ।
ॐ भगलिङ्गामृतस्रवायै नमः ।
ॐ क्षीराशनायै नमः । (930)
ॐ क्षीररुच्यै नमः ।
ॐ आज्यपानपरायणायै नमः ।
ॐ मधुपानपरायै नमः ।
ॐ प्रौढायै नमः ।
ॐ पीवरांसायै नमः ।
ॐ परावरायै नमः ।
ॐ पिलम्पिलायै नमः ।
ॐ पटोलेशायै नमः ।
ॐ पाटलारुणलोचनायै नमः ।
ॐ क्षीराम्बुधिप्रियायै नमः । (940)
ॐ क्षिप्रायै नमः ।
ॐ सरलायै नमः ।
ॐ सरलायुधायै नमः ।
ॐ सङ्ग्रामायै नमः ।
ॐ सुनयायै नमः ।
ॐ स्रस्तायै नमः ।
ॐ संसृत्यै नमः ।
ॐ सनकेश्वर्यै नमः ।
ॐ कन्यायै नमः ।
ॐ कनकरेखायै नमः । (950)
ॐ कान्यकुब्जनिवासिन्यै नमः ।
ॐ काञ्चनोभतनवे नमः ।
ॐ काष्ठायै नमः ।
ॐ कुष्ठरोगनिवारिण्यै नमः ।
ॐ कठोरमूर्धजायै नमः ।
ॐ कुन्त्यै नमः ।
ॐ कृन्तायुधधरायै नमः ।
ॐ धृत्यै नमः ।
ॐ चर्माम्बरायै नमः ।
ॐ क्रूरनखायै नमः । (960)
ॐ चकोराक्ष्यै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ चतुर्वेदप्रियायै नमः ।
ॐ चाट्व्यै नमः ।
ॐ चतुर्वर्गफलप्रदायै नमः ।
ॐ ब्रह्माण्डचारिण्यै नमः ।
ॐ स्फुर्त्यै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मसम्मतायै नमः ।
ॐ सत्कारकारिण्यै नमः । (970)
ॐ सूत्यै नमः ।
ॐ सूतिकायै नमः ।
ॐ लतिकालयायै नमः ।
ॐ कल्पवल्ल्यै नमः ।
ॐ कृषाङ्ग्यै नमः ।
ॐ कल्पपादपवासिन्यै नमः ।
ॐ कल्पपाशायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ विद्याराज्ञ्यै नमः ।
ॐ सुखाश्रयायै नमः । (980)
ॐ भूतिराज्ञ्यै नमः ।
ॐ विश्वराज्ञ्यै नमः ।
ॐ लोकराज्ञ्यै नमः ।
ॐ शिवाश्रयायै नमः ।
ॐ ब्रह्मराज्ञ्यै नमः ।
ॐ विष्णुराज्ञ्यै नमः ।
ॐ रुद्रराज्ञ्यै नमः ।
ॐ जटाश्रयायै नमः ।
ॐ नागराज्ञ्यै नमः ।
ॐ वंशराज्ञ्यै नमः । (900)
ॐ वीरराज्ञ्यै नमः ।
ॐ रजःप्रियायै नमः ।
ॐ सत्त्वराज्ञ्यै नमः ।
ॐ तमोराज्ञ्यै नमः ।
ॐ गणराज्ञ्यै नमः ।
ॐ चलाचलायै नमः ।
ॐ वसुराज्ञ्यै नमः ।
ॐ सत्यराज्ञ्यै नमः ।
ॐ तपोराज्ञ्यै नमः ।
ॐ जपप्रियायै नमः । (1000)
ॐ मन्त्रराज्ञ्यै नमः ।
ॐ वेदराज्ञ्यै नमः ।
ॐ तन्त्रराज्ञ्यै नमः ।
ॐ श्रुतिप्रियायै नमः ।
ॐ वेदराज्ञ्यै नमः ।
ॐ मन्त्रिराज्ञ्यै नमः ।
ॐ दैत्यराज्ञ्यै नमः ।
ॐ दयाकरायै नमः ।
ॐ कालराज्ञ्यै नमः ।
ॐ प्रजाराज्ञ्यै नमः । (1010)
ॐ तेजोराज्ञ्यै नमः ।
ॐ हराश्रयायै नमः ।
ॐ पृथ्वीराज्ञ्यै नमः ।
ॐ पयोराज्ञ्यै नमः ।
ॐ वायुराज्ञ्यै नमः ।
ॐ मदालसायै नमः ।
ॐ सुधाराज्ञ्यै नमः ।
ॐ सुराराज्ञ्यै नमः ।
ॐ भीमराज्ञ्यै नमः ।
ॐ भयोज्झितायै नमः । (1020)
ॐ तथ्यराज्ञ्यै नमः ।
ॐ जयाराज्ञ्यै नमः ।
ॐ महाराज्ञ्यै नमः ।
ॐ कुलाकृत्यै नमः ।
ॐ वामराज्ञ्यै नमः ।
ॐ चीनराज्ञ्यै नमः ।
ॐ हरिराज्ञ्यै नमः ।
ॐ हरीश्वर्यै नमः ।
ॐ पराराज्ञ्यै नमः ।
ॐ यक्षराज्ञ्यै नमः । (1030)
ॐ भूतराज्ञ्यै नमः ।
ॐ शिवासनायै नमः ।
ॐ वटुराज्ञ्यै नमः ।
ॐ प्रेतराज्ञ्यै नमः ।
ॐ शेषराज्ञ्यै नमः ।
ॐ शमप्रदायै नमः ।
ॐ आकाशराज्ञ्यै नमः ।
ॐ राजेश्यै नमः ।
ॐ राजराज्ञ्यै नमः ।
ॐ रतिप्रियायै नमः । (1040)
ॐ पातालराज्ञ्यै नमः ।
ॐ भूराज्ञ्यै नमः ।
ॐ प्रेतराज्ञ्यै नमः ।
ॐ विषापहायै नमः ।
ॐ सिद्धराज्ञ्यै नमः ।
ॐ विभाराज्ञ्यै नमः ।
ॐ तेजोराज्ञ्यै नमः ।
ॐ विभामय्यै नमः ।
ॐ भास्वद्राज्ञ्यै नमः ।
ॐ चन्द्रराज्ञ्यै नमः । (1050)
ॐ ताराराज्ञ्यै नमः ।
ॐ सुवासिन्यै नमः ।
ॐ ग्रहराज्ञ्यै नमः ।
ॐ लताराज्ञ्यै नमः ।
ॐ वृक्षराज्ञ्यै नमः ।
ॐ मतिप्रदायै नमः ।
ॐ वीरराज्ञ्यै नमः ।
ॐ मनोराज्ञ्यै नमः ।
ॐ मनुराज्ञ्यै नमः ।
ॐ काश्यप्यै नमः । (1060)
ॐ मुनिराज्ञ्यै नमः ।
ॐ रत्नराज्ञ्यै नमः ।
ॐ युगराज्ञ्यै नमः ।
ॐ मणिप्रमायै नमः ।
ॐ सिन्धुराज्ञ्यै नमः ।
ॐ नदीराज्ञ्यै नमः ।
ॐ नदराज्ञ्यै नमः ।
ॐ दरीस्थितायै नमः ।
ॐ बिन्दुराज्ञ्यै नमः ।
ॐ नादराज्ञ्यै नमः । (1070)
ॐ आत्मराज्ञ्यै नमः ।
ॐ सद्गत्यै नमः ।
ॐ पुत्रराज्ञ्यै नमः ।
ॐ ध्यानराज्ञ्यै नमः ।
ॐ लयराज्ञ्यै नमः ।
ॐ सदेश्वर्यै नमः ।
ॐ ईशानराज्ञ्यै नमः ।
ॐ राजेश्यै नमः ।
ॐ स्वाहाराज्ञ्यै नमः ।
ॐ महत्तरायै नमः । (1080)
ॐ वह्निराज्ञ्यै नमः ।
ॐ योगिराज्ञ्यै नमः ।
ॐ यज्ञराज्ञ्यै नमः ।
ॐ चिदाकृत्यै नमः ।
ॐ जगद्राज्ञ्यै नमः ।
ॐ तत्त्वराज्ञ्यै नमः ।
ॐ वाग्राज्ञ्यै नमः ।
ॐ विश्वरूपिण्यै नमः ।
ॐ पञ्चदशाक्षरीराज्ञ्यै नमः ।
ॐ ह्रीं भूतेश्वरेश्वर्यै नमः । (1090)
॥ इति श्री महाराज्ञी सहस्रनामावलिः सम्पुर्णम् ॥
॥ श्री शक्त्यष्टोत्तरशत दिव्यस्थानीयनाम स्तोत्रम् ॥
Click to show/hide
दक्ष उवाच –
एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयाऽनघे ।
तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥
देव्युवाच –
देवीः सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।
सप्तलोकेषु यत्किञ्चिद्रहितं न मया हि तत् ॥
तथापि येषु स्थानेषु द्रष्टव्या सिद्धि मीप्सुभिः ।
स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललिता देवी कामाक्षी गन्धमादने ॥ 1 ॥
मानसे कुमुदा नाम विश्वकाया तथाम्बरे ।
गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ 2 ॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ॥ 3 ॥
एकाम्रके कीर्तिमती विश्वे विश्वेश्वरीं विदुः ।
पुष्करे पुरुहूतेति केदारे मार्गदायी ॥ 4 ॥
नन्दा हिमवतःपृष्ठे गोकर्णे भद्रकर्णिका ।
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका ॥ 5 ॥
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ।
जया वराहशैले तु कमला कमलालये ॥ 6 ॥
रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ ।
महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी ॥ 7 ॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
मायापुर्यां कुमारी तु सन्ताने ललिता तथा ॥ 8 ॥
उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ।
गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे ॥ 9 ॥
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।
नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी ॥ 10 ॥
विपुले विपुला नाम कल्याणी मलयाचले ।
कोटवी कोटितीर्थे तु सुगन्धा माधवे वने ॥ 11 ॥
कुब्जाम्रके त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।
शिवकुण्डे सुनन्दा तु नन्दिनी देविकातटे ॥ 12 ॥
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
देविका मथूरायां तु पाताले परमेश्वरी ॥ 13 ॥
चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ।
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥ 14 ॥
रमणा रामतीर्थे तु यमुनायां मृगावती ।
करवीरे महालक्ष्मीरुमादेवी विनायके ॥ 15 ॥
अरोगा वैद्यनाथे तु महाकाले महेश्वरी ।
अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ॥ 16 ॥
माण्डव्ये माण्डवी नाम स्वाहा महेश्वरे पुरे ।
छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके ॥ 17 ॥
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।
देवमाता सरस्वत्यां पारावारतटे मता ॥ 18 ॥
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।
सिंहिका कृतशौचे तु कार्तिकेये यशस्करी ॥ 19 ॥
उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।
माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे ॥ 20 ॥
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।
देवदारुवने पुष्टिर्मेधा काश्मीर मण्डले ॥ 21 ॥
भीमादेवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ।
कपालमोचने शुद्धिर्माता कायावरोहणे ॥ 22 ॥
शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।
काला तु चद्रभागायामच्चोदे शिवकारिणी ॥ 23 ॥
वेणायाममृता नाम बदर्यां उर्वशी तथा ।
औषधी चोत्तरकुरौ कृशद्वीपे कुशोदका ॥ 24 ॥
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ।
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥ 25 ॥
गायत्री वेदवदने पार्वती शिवसन्निधौ ।
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ॥ 26 ॥
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी तथा ।
अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥ 27 ॥
चित्ते ब्रह्मकलानामशक्तिः सर्वशरीरिणाम् ।
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ॥ 28 ॥
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ।
यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ 29 ॥
एषु तीर्थेषु यः कृत्वा स्नानं पश्यन्ति मां नरः ।
सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ॥ 30 ॥
॥ इति श्रीमत्स्यमहापुराणे श्रीशक्त्यष्टोत्तरशत दिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्॥
॥ श्री शक्त्यष्टोत्तरशत दिव्यस्थानीय नामावलिः ॥
Click to show/hide
ओं वाराणस्यां विशालाक्ष्यै नमः ।
ओं नैमिषे लिङ्गधारिण्यै नमः ।
ओं प्रयागे ललितादेव्यै नमः ।
ओं गन्धमादने कामाक्ष्यै नमः ।
ओं मानसे कुमुदायै नमः ।
ओं अम्बरे विश्वकायायै नमः ।
ओं गोमन्ते गोमत्यै नमः ।
ओं मन्दरे कामचारिण्यै नमः ।
ओं चैत्ररथे मदोत्कटायै नमः ।
ओं हस्तिनापुरे जयन्त्यै नमः । (10)
ओं कान्यकुब्जे गौर्यै नमः ।
ओं मलयपर्वते रम्भायै नमः ।
ओं एकाम्रके कीर्तिमत्यै नमः ।
ओं विश्वे विश्वेश्वर्यै नमः ।
ओं पुष्करे पुरुहूतायै नमः ।
ओं केदारे मार्गदायिन्यै नमः ।
ओं हिमवतःपृष्ठे नन्दायै नमः ।
ओं गोकर्णे भद्रकर्णिकायै नमः ।
ओं स्थानेश्वरे भवान्यै नमः ।
ओं बिल्वके बिल्वपत्रिकायै नमः । (20)
ओं श्रीशैले माधव्यै नमः ।
ओं भद्रेश्वरे भद्रायै नमः ।
ओं वराहशैले जयायै नमः ।
ओं कमलालये कमलायै नमः ।
ओं रुद्रकोट्यां रुद्राण्यै नमः ।
ओं कालञ्जरे गिरौ काल्यै नमः ।
ओं महालिङ्गे कपिलायै नमः ।
ओं मर्कोटे मुकुटेश्वर्यै नमः ।
ओं शालग्रामे महादेव्यै नमः ।
ओं शिवलिङ्गे जलप्रियायै नमः । (30)
ओं मायापुर्यां कुमार्यै नमः ।
ओं सन्ताने ललितायै नमः ।
ओं सहस्राक्षे उत्पलाक्ष्यै नमः ।
ओं कमलाक्षे महोत्पलायै नमः ।
ओं गङ्गायां मङ्गलायै नमः ।
ओं पुरुषोत्तमे विमलायै नमः ।
ओं विपाशायां अमोघाक्ष्यै नमः ।
ओं पुण्ड्रवर्धने पाटलायै नमः ।
ओं सुपार्श्वे नारायण्यै नमः ।
ओं विकूटे भद्रसुन्दर्यै नमः । (50)
ओं विपुले विपुलायै नमः ।
ओं मलयाचले कल्याण्यै नमः ।
ओं कोटितीर्थे कोटव्यै नमः ।
ओं माधवे वने सुगन्धायै नमः ।
ओं कुब्जाम्रके त्रिसन्ध्यायै नमः ।
ओं गङ्गाद्वारे रतिप्रियायै नमः ।
ओं शिवकुण्डे सुनन्दायै नमः ।
ओं देविकातटे नन्दिन्यै नमः ।
ओं द्वारवत्यां रुक्मिण्यै नमः ।
ओं वृन्दावने वने राधायै नमः । (50)
ओं मयूरायां देविकायै नमः ।
ओं पाताले परमेश्वर्यै नमः ।
ओं चित्रकूटे सीतायै नमः ।
ओं विन्ध्ये विन्ध्याधिवासिन्यै नमः ।
ओं सह्याद्रौ एकवीरायै नमः ।
ओं हरिश्चन्द्रे चन्द्रिकायै नमः ।
ओं रामतीर्थे रमणायै नमः ।
ओं यमुनायां मृगावत्यै नमः ।
ओं करवीरे महालक्ष्म्यै नमः ।
ओं विनायके उमादेव्यै नमः । (60)
ओं वैद्यनाथे अरोगायै नमः ।
ओं महाकाले महेश्वर्यै नमः ।
ओं उष्णतीर्थेषु अभयायै नमः ।
ओं विन्ध्यकन्दरे अमृतायै नमः ।
ओं माण्डव्ये माण्डव्यै नमः ।
ओं महेश्वरे पुरे स्वाहायै नमः ।
ओं छागलाण्डे प्रचण्डायै नमः ।
ओं मकरन्दके चण्डिकायै नमः ।
ओं सोमेश्वरे वरारोहायै नमः ।
ओं प्रभासे पुष्करावत्यै नमः । (70)
ओं सरस्वत्यां पारावारतटे देवमात्रे नमः ।
ओं महालये महाभागायै नमः ।
ओं पयोष्ण्यां पिङ्गलेश्वर्यै नमः ।
ओं कृतशौचे सिंहिकायै नमः ।
ओं कार्तिकेये यशस्कर्यै नमः ।
ओं उत्पलावर्तके लोलायै नमः ।
ओं शोणसङ्गमे सुभद्रायै नमः ।
ओं सिद्धपुरे मात्रे लक्ष्म्यै नमः ।
ओं भरताश्रमे अङ्गनायै नमः ।
ओं जालन्धरे विश्वमुख्यै नमः । (80)
ओं किष्किन्धपर्वते तारायै नमः ।
ओं देवदारुवने पुष्ट्यै नमः ।
ओं काश्मीर मण्डले मेधायै नमः ।
ओं हिमाद्रौ भीमादेव्यै नमः ।
ओं विश्वेश्वरे पुष्ट्यै नमः ।
ओं कपालमोचने शुद्ध्यै नमः ।
ओं कायावरोहणे मात्रे नमः ।
ओं शङ्खोद्धारे ध्वन्यै नमः ।
ओं पिण्डारके धृत्यै नमः ।
ओं चद्रभागायां कालायै नमः । (90)
ओं अच्चोदे शिवकारिण्यै नमः ।
ओं वेणायां अमृतायै नमः ।
ओं बदर्यां उर्वश्यै नमः ।
ओं उत्तरकुरौ औषध्यै नमः ।
ओं कृशद्वीपे कुशोदकायै नमः ।
ओं हेमकूटे मन्मथायै नमः ।
ओं मुकुटे सत्यवादिन्यै नमः ।
ओं अश्वत्थे वन्दनीयायै नमः ।
ओं वैश्रवणालये निधये नमः ।
ओं वेदवदने गायत्र्यै नमः । (100)
ओं शिवसन्निधौ पार्वत्यै नमः ।
ओं देवलोके इन्द्राण्यै नमः ।
ओं ब्रह्मास्येषु सरस्वत्यै नमः ।
ओं सूर्यबिम्बे प्रभायै नमः ।
ओं मातॄणां वैष्णव्यै नमः ।
ओं सतीनां अरुन्धत्यै नमः ।
ओं रामासु तिलोत्तमायै नमः ।
ओं सर्वशरीरिणां चित्ते ब्रह्मकलानामशक्त्यै नमः । (108)