test

॥ श्री मङ्गल चण्डिका महामन्त्र जप क्रमः ॥

अस्य श्री मङ्गलचण्डिका महा मन्त्रस्य भैरव ऋषिः ।
त्रिष्टुप् छन्दः । श्री मङ्गल चण्डिकाम्बा देवता ।
ह्रीं बीजं । स्वाहा शक्तिः । क्लीं कीलकं ।

मम श्री मङ्गल चण्डिकाम्बा प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

करन्यासः

ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः

ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हूं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

ध्यानम्

देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।
सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम् ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ।
संसारसागरे घोरे पोतरूपां वरां भजे ॥

पञ्चपूजा

लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।

मन्त्रः – ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ऐं क्रूं फट् स्वाहा । (108 वारं)

अङ्गन्यासः

ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हूं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।

ॐ भूर्भुवसुवरों इति दिग्विमोकः ।