pancadEvatA stuti – 3 of 5 – tripurasundarI stavaH

This is the third in the series of pancadEvatA stuti. Since there are multiple stavas for tripurasundari penned by Adi shankara and others, we have included all the mUlamantra stavAs. In addition, the ShOdashi makaranda stavaM from rudrayAmala is also included.  Since these stavarAja stOtras include the mUlamantra of lalitAmbA, it is not for public chanting. Only those qualified upAsakAs can chant this and please check with your Guru or jyEShTAs first.

मन्त्रमातृका पुष्पमाला स्तवः 

कल्लोलोल्लसितामृताम्धि लहरी मध्ये विराजन्मणि
द्वीपे कल्पक वाटिका परिवृते कादम्बवाट्युज्ज्वले।
रत्नस्तंभ सहस्र निर्मित सभामध्ये विमानोत्तमे
चिन्तारत्न विनिर्मितं जननि ते सिंहासनं भावये॥१॥

एणांकानल भानुमण्डल लसच्छ्रीचक्र मध्ये स्थितां
बालार्कद्धुति भासुरां करतलैः पाशांकुशौ बिभ्रतीं।
चापं बाणमपि प्रसन्नवदनां कौसुंभ वस्त्रान्वितां
तां त्वां चन्द्रकलावतंस मकुटां चारुस्मितां भावये॥ २॥

ईशानादिपदं शिवैक फलकं रत्नासनं ते शुभं
पाद्ध्यं कुंकुम चन्दनादि भरितैरर्घ्यं सरत्नाक्षतैः।
शुद्धै राचमनीयकं तवजलैर्भक्त्या माया कल्पितं।
कारुण्यामृत वारिधे तदखिलं सन्तुष्टये कल्पताम्॥ ३॥

लक्ष्ये उयोगिजनस्य रक्षितजगज्जले विशालेक्षणे
प्रालेयांबु पटीर कुंकुम लसत् कर्पूर मिश्रोदकैः।
गोक्षीरैरपि नालिकेर सलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धियामयैतदखिलं सन्तुष्टये कल्पताम्॥ ४॥

ह्रींकारंकित मन्त्रलक्षिततनो हेमाचलात् संचितैः
रत्नैरुज्ज्वल मुत्तरीय सहितं कौसुंभवर्णाशुकम्।
मुक्तासन्तति यज्ञसूत्र ममलं सौवर्ण तन्तूद्भवं
दत्तं देवि धिया मयैत दखिलं सन्तुष्टये कल्पताम्॥ ५॥

हंसैरप्यतिलोभनीयगमने हारावली मुज्ज्वलां
हिन्दोलद्ध्युति हीरपूरिततरे हेमाङ्गदे कङ्कणे
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दु चूडामणिं
नासा मौक्तिक मङ्गलीय कटकौ काञ्चीमपि स्वीकुरु॥६॥

सर्वाङ्गे धनसार कुंकुम घन श्रीगन्ध पङ्काङ्कितं
कस्तूरि तिलकङ्च फालफलके गोरोचनापत्रकम्॥
गण्डादर्शन मण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम्॥७॥

कल्हारोत्पल मल्लिका मरुवकैः सौवर्णपङ्केरुहैः
जातीचंपक मालती वकुलकैर्मन्दार कुन्दादिभिः।
केतक्या करवीरकैर्बहुविधैः क्लृप्ताः स्रजो मालिकाः
संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम्॥ ८॥

हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलैः
यैर्भृङ्गावलि नीलकुन्तलभरैर्बद्नासि तस्याशयम्।
तानीमानि तवाम्ब कोमलतराण्यामोद लीलागृहा
ण्यामोदाय दशाङ्ग गुग्गुलु घृतैर्धूपैरहं धूपये॥ ९॥

लक्ष्मी मुज्ज्वलयामि रत्न निवहोद्भास्वत्तरे मन्दिरे
मालारूप वलम्बितैर्मणिमय स्तम्भेषु सम्भावितैः।
चित्रैर्हाटक पुत्रिका करधृतैर्गव्यैर्ध्र्‌इतैर्वर्धितैर्
दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम्॥ १०॥

ह्रींकारेश्वरि तप्तहाटक कृतैः स्थाली सहस्रैर्भृतं
दिव्यन्नं घृतसूप शाक भरितं चित्रान्नभेदं तथा
दुग्धान्नं मधुशर्करा दधियुते माणिक्य पात्रे स्थिरं
माषापूप सहस्रमम्ब सफलं नैवेध्य मावेदये॥ ११॥

सच्चायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुनैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः।
मुक्ताचूर्ण विराजितैर्बहुविधैर्वक्त्राम्बुजामोदितैः
पूर्णारत्न कलाचिका तवमुदे न्यस्तापुरस्तादुमे॥ १२॥

कन्याभिः कमनीय कान्तिभिरलंकारामलारात्रिका
पात्रे मौक्तिक चित्र पङ्क्ति विलसत् कर्पूरदीपालिभिः।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत् पदाम्भोरुहं
मन्त्राराधन पूर्वकं सुनिहितं नीराजनं गृह्यताम्॥ १३॥

लक्ष्मीर्मौक्तिक लक्षकल्पित सितच्चत्रं तु धत्ते रसात्
इन्द्राणी च रतिश्च चामरवरे घत्ते स्वयं भारती।
वीणा मेण विलोचनाः सुमनसां नृत्यन्ति तद्रागवात्
भावैराङ्गिक सात्विकैः स्फुटरसं मातस्तदालोक्यताम्॥ १४॥

ह्रींकार त्रयसंपुटेन मनुनोपास्ये त्रयी मौलिभिः
वाक्येर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके।
सल्लाभाः स्तुतय प्रदक्षिण शतं सञ्चार एवास्तु ते
संवेशो मनसः समाधिरखिलं त्वत्प्रीतये कल्पताम्॥ १५॥

श्रीमन्त्राक्षर मालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः।
चित्तम्भोरुह मण्डपे गिरिसुता नृत्तं विधत्ते रसाद्
वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला॥ १६॥

इति गिरिवरपुत्री पादराजीवभूषा
भुवन ममलयन्ती सूक्ति सौरभ्य सारैः।
शिवपद मकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान् मातृका पुष्पमाला॥ १७॥

श्री राज राजेश्वरी तर्पण स्तोत्रम्

कल्याणायुत पूर्णबिम्बवदनां पूर्णेश्वरा नन्दिनीं
पूर्णापूर्ण परापरेशमहिषीं पूर्णामृतास्वादिनीम्।
सम्पूर्णां परमोत्तमामृतकलां विध्यावतीं भारतीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥१॥

एकानेकमनेककार्य विविधां कार्यैकचिद्रूपिणीं
चैतन्यात्मक एकचक्ररचितां चक्राण्क एकाकिनीम्।
भावाभाव विवर्द्धिनीं भयहरां सद्भक्तिचिन्तामणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥२॥

एशाधीश्वर योगवृन्दविदितां सानन्द भूतां परां
पश्यन्तीं तनुमध्यमां विलसितीं श्रीविष्णुसद्रूपिणीम्।
आत्मानात्मविचारिणीं त्रिवरणां विध्यात्रिबीजत्रयीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ३॥

लक्ष्मीलक्ष निरीक्षणां निरुपमां रुद्राक्षमालाधरां
साक्षात्करण दक्षवंशकलितां दीर्घाक्षदीर्घेश्वरीम्।
भद्रां भद्र वरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ४॥

ह्रिंबीजान्वितनाद बिन्दु भरितां ॐकारनादात्मिकां
ब्रह्मानन्द घनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम्।
इच्चाज्ञानक्रियावतीं जितवलीम् गन्धर्वसंसेवितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ५॥

हर्षोन्मत्त सुवर्ण पात्र भरितां पानोन्नताघूर्णितां
हुङ्कारप्रिय शब्द ब्रह्मनिरतां सारखतोल्लासिनीम्।
सारासार विचार वादचतुरां वर्णाश्रमाकारिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ६॥

सर्वज्ञानकलावतीं सकरुणां स्वंनादिनीं मादिनीं
सर्वान्तर्गतशालिनीं शिवतनुं सन्दीपिनीं दीपिनीं।
संयोग प्रियरूपिणीं प्रियवतीं प्रीतिप्रतापोन्नतां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ७॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
कारुण्यां तनुबुद्धिकर्मविरतां सिन्दुप्रियां शालिनीम्।
पञ्चब्रह्मसनातनान्तरगतां ज्ञेयाङ्गयोगान्वितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ८॥

हस्ते कुम्बनिभां पयोक्तभरितां पीनोन्नतां नौमितां
हीराढ्याभरणां सुरेन्द्रवनितां शृङ्गारपीठालयाम्।
योग्याकारिणीमुद्रितकरां नित्यामवर्णात्मिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ९॥

लक्ष्मीलक्षण पूर्ण भक्तिवरदां लीलाविनोदस्थितां
लक्ष्म्या रञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम्।
लोकालोकित लोककामजननीं लोकप्रियाञ्कस्थितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १०॥

ह्रींकारिं सुतरां करप्रियतनुं श्रीयोगपीठेश्वरीं
माङ्गल्यायतपञ्कजाभनयनां माङ्गल्य सिद्धिप्रदाम्।
तारुण्यान्तपसार्चितान्तरुणिकां तन्त्र्यर्चितां नर्तिनीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ११॥

सर्वेशाङ्गविहारिणीं सकरुणां सर्वेश्वरीं सर्वगां
सत्यां सर्वमयीं सहस्रदलनां सप्तार्णवोपस्थिताम्।
संसर्गादिविवर्जिनीं शुभकरीं बालार्ककोटिप्रभां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १२॥

कादिक्षान्त सुवर्ण बिन्दुसुतनुं स्वर्णादि सिंहासिनीं
नानावर्ण विचित्र चित्रचरितां चातुर्य चिन्तामणिम्।
चित्तनन्द विधायिनीं सुविपुलां रूढत्रयां शेषिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १३॥

लक्ष्मीशादि विधीन्द्रचन्द्र मुकुटां षष्ठाङ्ग पीटार्चितां
सूर्येन्द्राग्निमयैकपीटनिलयां त्रिस्थां त्रिकोणेश्वरीं
गोश्रीगुर्विणीगर्वितां गगनगां गङ्गागणेशप्रियां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १४॥

ह्रींकूटत्रयरूपिणीं समयगां संसारिणीं हंसिनीं
वामाचारपरायणां सुकुलजां बीजावतीं मुद्रिकाम्।
कामाक्षीं करुणार्द्र चित्र चरितां श्रीमन्त्र मूर्त्यात्मिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १५॥

त्रिपुरसुन्दरीसान्निध्य स्तवः

कल्पभानु समान भास्वरधाम लोचन गोचरं
किं किमित्यति विस्मिते मयि पश्यतीह समागताम्।
कालकुन्तल भारनिर्जित नीलमेघ कुलां पुर-
श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १॥

एकदन्त षडननादि भिरावृतां जगदीश्वरीं
एनसां परिपन्थिनीमहं एकभक्तिमदर्चिताम्।
एकहीनशतेषु जन्मसु संचितात्सुकृतादिमां
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ २॥

ईदृशीति च वेदकुन्तल वाग्भिरप्य निरूपितां
ईशपङ्क जनाभसृष्टि कृदादिवन्ध्य पदाम्बुजाम्।
ईक्षणान्तनिरीक्षणेन मदिष्टदां पुरतोऽधुना
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ३॥

लक्षणोज्ज्वल हार शोभिपयोधरध्वयकैतवा –
ल्लीलयैव दयारस स्रवदुज्ज्वलत्कल शान्विताम्।
लाक्षयाङ्कित पादपातिमिलिन्दसन्ततिमग्रत –
श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ४॥

ह्रीमिति प्रतिवासरं जपसुस्थिरोऽहमुदारया
योगिमार्गनिरूडयैक्य सुभावनां गतया धिया।
वत्स हर्षमवाप्तवत्यहमित्युदारगिरं पुर –
श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ५॥

हंसवृन्दमलक्त कारुण पादपङ्कज नूपुर –
क्काणमोहितमादरादनुधावितं मृदु शृण्वतीम्।
हंसमन्नमहार्थ तत्वमयीं पुरो मम भाग्यत –
श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ६॥

सङ्गतं जलमभ्रवृन्द समुद्भवं धरणीधरा –
द्धारया वहदञ्जसा भ्रममाप्य सैकतनिर्गताम्।
एवमादि महेन्द्र जाल सुकोविदां पुरतोऽधुना
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ७॥

कम्बुसुन्दर कन्दरां कचवृन्द निर्जित वारिदां
कण्ठ देश लसत्सुमङ्गल हेम सूत्र विराजिताम्।
कादिमन्नं उपासतां सकलेष्टदां मम सन्निधौ
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ८॥

हस्तपद्म लसत्त्रिखण्ड सुमुद्रिकामहमद्रिजां
हस्तिकृत्ति परीत कार्मुक वल्लरीसमचिल्लिकाम्।
हर्यजस्तुत वैभवां भवकामिनीं मम भाग्यत-
श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ९॥

लक्षणोल्लसदङ्गकान्ति झरीनिराकृतविद्ध्युतं
लास्यलोल सुवर्णकुण्डल मण्डितां जगदम्बिकाम्।
लीलयाखिल सृष्टि पालन कर्षणादि वितन्वतीं
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १०॥

ह्रीमिति त्रिपुरामनु स्थिरचेतसा बहुधार्चितां
हादिमन्न महाम्बुजात विराजमान सुहंसिकाम्।
हेमकुम्भ घनस्तनाञ्चल लोल मौक्तिक भूषणां
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ११॥

सर्वलोक नमस्कृतां जितशर्वरीरमणाननां
शर्वदेव मनः प्रियां नवयौवनोन्मदगर्चिताम्।
सर्वमङ्गल विग्रहां मम पूर्वजन्म तपोबला-
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १२॥

कन्दमूलफलाशिभिर्बहु योगिभिश्च गवेषितां
कुन्दकुङ्भलदन्त पङ्क्ति विराजितां अपराजिताम्।
कन्दमागमवीरुधां सुरसुन्दरीभिरिहागतां
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १३॥

लत्रयाङ्कितमन्नराट्समलङ्कृतां जगदम्बिकां
लोलनील सुकुन्तलावलि निर्जितालि कदम्बकाम्।
लोभमोह विदारिणीं करुणामयीं अरुणां शिवां
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १४॥

ह्रींपदाख्य महामनोरधि देवतां भुवनेश्वरीं
हृत्सरोज निवासिनीं हरवल्लभां बहुरूपिनीम्।
हार कुण्डल नूपुरादि भिरन्वितां पुरतोऽधुना
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १५॥

श्रीं सुपञ्चदशाक्षरीमपि षोडशाक्षररूपिणीं
श्रीसुधार्णव मध्य शोभि सरोज कानन चारिणीम्।
श्री गुहस्तुत वैभवां परदेवतां मम सन्निधौ
चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १६॥

कल्याणवृष्टि स्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सॆवाभिरम्ब तव पादसरॊजमूलॆ
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १

एतावदॆव जननि स्पृहणीयमास्तॆ
त्वद्वन्दनॆषु सलिलस्थगितॆ च नॆत्रॆ ।
सान्निध्यमुद्यदरुणायुतसॊदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २

ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रैभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्तॆ
यः पादयॊस्तव सकृत्प्रणतिं करॊति ॥ ३

लब्ध्वा सकृत् त्रिपुरसुदरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकॊटिसुभगास्त्वयि भक्तिभाजः
सम्मॊहयन्ति तरुणीर्भुवनत्रयॆऽपि ॥ ४

ह्रीङ्कारमॆव तव नाम गृहान्ति वॆदा
मातस्त्रिकॊणनिलयॆ त्रिपुरॆ त्रिनॆत्रॆ ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवनॆ सह लॊकपालैः ॥ ५

हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वॆगः ।
नाशवासनाय यदि मातरिदं तवार्धं
दॆहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६

सर्वज्ञतां सदसि वाक्पटुतां प्रसूतॆ
दॆवि त्वदङ्घ्रिसरसीरुहयॊः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वॆ चामरॆ च महतीं वसुधां ददाति ॥ ७

कल्पद्रुमैरभिमतप्रतिपादनॆषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलॊक्य त्रिपुरसुन्दरि मामनाथं
त्वय्यॆव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८

हन्तॆतरॆष्वपि मनांसि निधाय चान्यॆ
भक्तिं वहन्ति किल पामरदैवतॆषु ।
त्वामॆव दॆवि मनसा समनुस्मरामि
त्वामॆव नौमि शरणं जननि त्वमॆव ॥ ९

लक्ष्यॆषु सत्स्वपि कटाक्षनिरीक्षणाना-
मालॊकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातॊ जनिष्यति जनॊ न च जायतॆ वा ॥ १०

ह्रीं ह्रीं मिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासॆ ।
मालाकिरीटमदवारणमाननीया
तान्सॆवतॆ वसुमती स्वयमॆव लक्ष्मीः ॥ ११

सम्पत्कराणि सकलॆन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरॊरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणॊद्यतानि
मामॆव मातरनिशं कलयन्तु नान्यम् ॥ १२

कल्पॊपसंहृतिषु कल्पितताण्डवस्य
दॆवस्य खण्डपरशॊः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयतॆ तव मुर्तिरॆका ॥ १३

लग्नं सदा भवतु मातरिदं तवार्धं
तॆजः परं बहुलकुङ्कुमपङ्कशॊणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्यॆ त्रिकॊणनिलयं परमामृतार्द्रम् ॥ १४

ह्रीङ्कारमॆव तव नाम तदॆव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरॆ गृणन्ति ।
त्वत्तॆजसा परिणतं वियदादिभूतं
सौख्यं तनॊति सरसीरुहसम्भवादॆः ॥ १५

ह्रीङ्कारत्रयसम्पुटॆन महता मन्त्रॆण सन्दीपितं
स्तॊत्रं यः प्रतिवासरं तव पुरॊ मातर्जपॆन्मन्त्रवित् ।
तस्य क्षॊणिभुजॊ भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६

रुद्रयामले षोडशी मन्त्रोव्याख्यान मकरन्दस्तवराज स्तोत्रम्

षोडशीयुपासकानां –

ॐ अस्य श्री महात्रिपुरसुन्दरी मन्त्रस्य ब्रह्मविध्याः दक्षिणामूर्ति ऋषिः। अव्यक्त गायत्रि चन्दः। श्री महात्रिपुरसुन्दरी पराभट्टरिक देवथा॥

अं बीजं। आं शक्तिः। सौः कीलकं।
दृक् बीजं। दशा शक्तिः।
आनन्दं बीजं। आनन्दवर्गः शक्तिः।
शिवो बीजं। विष्णुः शक्तिः।
कामो बीजं। कामेश्वरी शक्तिः।
पुल्लिङ्गं बीजं। स्त्रीलिङ्गं शक्तिः।
कादयो बीजं। आदयो शक्तिः।
उदात्तं बीजं। अनुदात्तं शक्तिः।
परमात्मा क्षेत्रं।
ब्रह्मबिलं स्थानं।
विकृता सुषुम्ना नाडी।
आगस्त्य गोत्रं।
भगवान् वसिष्ठो गुरुः।
दशमुद्रा ब्रह्मोपासन सौभाग्यं विदितायां विनियोगः।

मूल मन्त्र करषडङ्गं कुर्यात्

ध्यानम्

बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।
पाशाङ्गुशशरंचापं धारयन्तीं शिवां भजे॥

पञ्चपूजा कुर्यात्

ॐ श्रीं बीजे नादबिन्दुद्वितिय शशिकलाकार रूपस्वरूपे
मातर्मे देहि ऋद्धिं जहि जहि दुरितं पाहि मां दीननाथे।
अज्ञान ध्वान्तराशिं क्षपय सुरुचिरे प्रोल्लसत्पादपद्मे
ब्रह्मेशाद्ध्यैः सुरेन्द्रैः सुरगणनमिते सम्स्तुते त्वां नमामि॥१॥

लज्जा बीजस्वरूपे त्रिजगति वरदे व्रीडया या स्थितेयं
तां नित्यां शम्भुभक्तिं त्रिभुवन जननीं पालयित्रीं जगच्च।
सर्वाशानां निदाने सकलगुणमयीं सच्चिदानन्दरूपां
तेजोरूपां प्रदीप्तां त्रिभुवननमितां ज्ञानदात्रीं नमामि॥२॥

क्लीं बीजे कामरूपे धृतकुसुम धनुर्बाण पाशाङ्कुशां तां
वन्दे भास्वत् सरोजोदरनिभवपुषां मोहयन्तीं त्रिलोकीं।
काञ्चीमञ्जीरहारां गदमुकुटलसत् स्वर्णमाणिक्यरत्नैर्
भास्वत् सिन्दूरवक्त्रां स्तनभरनमितां क्षीणमध्यां त्रिनेत्राम्॥ ३॥

ऐं वाणी बीजरूपे त्रिभुवनजडता ध्वान्तविध्वम्सिनी त्वं
शैवब्रह्मस्वरूपा श्रुतिभिरनुपदं गीयमानात्वमेव।
मातर्मे देहि बुद्धिं मम सदसिपरद्वन्द्व सम्क्षोभकत्रीं
ऐन्द्रीं वाचस्परे तप्यति विविधपदं त्वत्पदाम्भोजमीडे॥४॥

सौः शक्तिः कार्यमन्ते घटपट प्रभृतौ दृष्टहेतोः सहाया
माया काचिन्महतत्त्व प्रभृति परिणता मूलभूतात्वमेव।
केचिद्बाह्यप्रपञ्चा मणिनिवहतनौ तन्त्रभूतात्वमेव
विध्या जन्मादिबृन्दं क्षपयति जगतां मेनिरे शुद्धभावाः॥ ५॥

ॐ मातस्ते नमस्ते श्रुति ग्रथितगुरु त्रयक्षर ब्रह्मरूपे
मिथ्यामोहान्धकारे पतित मनुदिनं पाहिमां भक्तिहीनम्।
मोहक्रोधप्रलोभ प्रमथ मदचयैः शत्रुभिः पीड्यतेऽसौ
पत्नी पुत्रादिभृत्यैर्नत विविधजनैः शृङ्खलाभिर्निबद्धः॥ ६॥

ह्रींकारे ह्रींस्वरूपे मम दह दुरितं व्याधि दारिद्रय बीज
मातस्त्वत्पादपद्म द्वितय परिसरे प्रार्थये भक्तिलेशम्।
त्वं वाणी त्वं च लक्ष्मीस्त्वमसि गिरिसुता ब्रह्म विष्णुस्मरारे
श्चित्तं नित्यं शरण्यं कृतमिह जननि त्वत्कटाक्षैकबृन्दैः॥ ७॥

श्रींकारे श्रीस्वरूपे वितर मयि धनं धान्यहस्त्यश्वयुक्तं
स्वर्णं माणिक्यरत्नाध्यभिलषितयुतं त्वत्पदार्चासुयोग्यम्।
विध्यां त्वं देहि मोक्षं भवभयदहने देवि दन्दह्यमाने
योगेन्द्रैः सेव्यमाना हत कलुषचयैर्मोक्षमन्वेषयद्भिः॥ ८॥

कामो योनिश्चतुर्थ्ः स्वरत्रिदशपतिर्भौवनेशी च बीजं
तावद्वर्णावली त्वं नतजनवरदे भक्तिमीहे शरण्ये।
त्वत्पादाम्भोज युग्मं हृदयसरसिजे सन्निधायैकचित्ते
ध्यात्वा तत्कर्मबन्धं त्वतिविमलधियो मुक्तिवन्तो मुनीन्द्राः॥९॥

ब्रमेन्द्रुः कामदेवो वियदमरगुरुर्भौवनेशी च बीजं
तावद्वर्णस्वरूपैर्घटिततनुलतां त्वां प्रपन्नोऽस्मि मातः।
विष्णुब्रह्मेशमूर्ति स्थित मुकुटमणि प्रोल्लसत्पादपद्मां
योगीन्द्रैर्ध्येयपादांबुरुह करनख ध्योत विध्योतितां त्वाम्॥ १०॥

इन्दुः कामः सुरेशा वियदनल लसद्वामनेत्रार्धचन्द्रैर्
युक्तं यद्बीजमेतत्तदपि तव वपुः सच्चिदानन्दरूपम्।
बाला त्वं भैरवी त्वं त्रिभुवनजननी नीलवर्णा त्वम् गौरी
त्वम् च काली सकलमनुमयी त्वम् महामोक्षदात्री॥ ११॥

सौः कारो बीजराज स्त्रिभुवन जननी शक्तिराध्या त्वमेव
त्वद्ध्युक्तः शम्भुरेषः प्रभवति चलितुं त्वां विना जाड्यवान् सः।
ब्रह्मा विष्णु कपर्दी जननि तव कृपालेश मात्राच्चरीरं
गृह्णन्तः सृष्टिरक्षा प्रलयमभिलसच्चक्रिरे त्वद्वशस्थाः॥१२॥

ऐं बीजं वाग्भवाख्यं त्वमिह जडमिति ध्वान्त चक्षुः प्रकाशान्
मातः कारुण्यधारा ममृतवलिधृशा पश्य मां दीननाथे।
मोह्यन्ते मोहितास्ते तव जननि महा मायया बद्धचित्ताः
कारुण्यं प्रार्थयन्ते तव पदयुगले ज्ञानवन्तो मुनीन्द्राः॥ १३॥

क्लींकारो बीजरूपा तव जननि मनुश्लेष मध्य प्रवेशात्
साक्षाद् ब्रह्मस्वरूपी मदनतनुलता ब्रह्मणो मोहकर्त्री।
साज्ञानं स्मेरवक्त्राम्बुज कुहरलसत्सुप्तपीयूषधारा
वेदाश्चत्वार एते तुहिनगिरिसुते प्राप्तमीनेन्द्ररूपे॥ १४॥

ह्रींकारोङ्काररूपा त्वमिह शशिमुखी ह्रीं स्वरूपा त्वमेव
त्वं क्षान्तिस्त्वं च कान्तिर्हरिहर कमलोद्भूतरूपात्वमेव
त्वंसिद्धिस्त्वं च ऋद्धिः स्मररिपुमनसस्त्वञ्च सम्मोहयन्ती
विध्या त्वं मुक्तिहेतुर्भवजलधिजनुर्दुःखहन्त्री त्वमेव॥ १५॥

श्रींबीजे श्रीस्वरूपे मधुरिपुमनसो मध्य मध्यासिता त्वं
मातस्त्वद् दृष्टिलेशा दमरपतिरसौ प्राप्तवान् बुद्धिमेषाम्।
इत्येवं षोडशार्णां सरसमनुदिनं स्वर्गमोक्षैकहेतुं
सिद्धीरष्टौ लभन्ते य इह मनुवरं श्रेष्ठमेनं भजन्ते॥ १६॥

पूजयित्वा विधानेन महात्रिपुरसुन्दरीं।
इमंस्तवं पठित्वातु देवी सायुज्यमाप्नुयात्॥

Author: purna_admin

Leave a Reply

Your email address will not be published. Required fields are marked *