pancadEvatA stuti – 3 of 5 – tripurasundarI stavaH

This is the third in the series of pancadEvatA stuti. Since there are multiple stavas for tripurasundari penned by Adi shankara and others, we have included all the mUlamantra stavAs. In addition, the ShOdashi makaranda stavaM from rudrayAmala is also included.  Since these stavarAja stOtras include the mUlamantra of lalitAmbA, it is not for public chanting. Only those qualified upAsakAs can chant this and please check with your Guru or jyEShTAs first.

tripurasundarI stavaH

मन्त्रमातृका पुष्पमाला स्तवः 

कल्लोलोल्लसितामृताम्धि लहरी मध्ये विराजन्मणि
   द्वीपे कल्पक वाटिका परिवृते कादम्बवाट्युज्ज्वले।
रत्नस्तंभ सहस्र निर्मित सभामध्ये विमानोत्तमे
   चिन्तारत्न विनिर्मितं जननि ते सिंहासनं भावये॥१॥

एणांकानल भानुमण्डल लसच्छ्रीचक्र मध्ये स्थितां
  बालार्कद्धुति भासुरां करतलैः पाशांकुशौ बिभ्रतीं।
चापं बाणमपि प्रसन्नवदनां कौसुंभ वस्त्रान्वितां
  तां त्वां चन्द्रकलावतंस मकुटां चारुस्मितां भावये॥ २॥

ईशानादिपदं शिवैक फलकं रत्नासनं ते शुभं
  पाद्ध्यं कुंकुम चन्दनादि भरितैरर्घ्यं सरत्नाक्षतैः।
शुद्धै राचमनीयकं तवजलैर्भक्त्या माया कल्पितं।
  कारुण्यामृत वारिधे तदखिलं सन्तुष्टये कल्पताम्॥ ३॥

लक्ष्ये उयोगिजनस्य रक्षितजगज्जले विशालेक्षणे
  प्रालेयांबु पटीर कुंकुम लसत् कर्पूर मिश्रोदकैः।
गोक्षीरैरपि नालिकेर सलिलैः शुद्धोदकैर्मन्त्रितैः
  स्नानं देवि धियामयैतदखिलं सन्तुष्टये कल्पताम्॥ ४॥

ह्रींकारंकित मन्त्रलक्षिततनो हेमाचलात् संचितैः
   रत्नैरुज्ज्वल मुत्तरीय सहितं कौसुंभवर्णाशुकम्।
मुक्तासन्तति यज्ञसूत्र ममलं सौवर्ण तन्तूद्भवं
दत्तं देवि धिया मयैत दखिलं सन्तुष्टये कल्पताम्॥ ५॥

हंसैरप्यतिलोभनीयगमने हारावली मुज्ज्वलां
  हिन्दोलद्ध्युति हीरपूरिततरे हेमाङ्गदे कङ्कणे
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दु चूडामणिं
  नासा मौक्तिक मङ्गलीय कटकौ काञ्चीमपि स्वीकुरु॥६॥

सर्वाङ्गे धनसार कुंकुम घन श्रीगन्ध पङ्काङ्कितं
  कस्तूरि तिलकङ्च फालफलके गोरोचनापत्रकम्॥
गण्डादर्शन मण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
  कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम्॥७॥

कल्हारोत्पल मल्लिका मरुवकैः सौवर्णपङ्केरुहैः 
  जातीचंपक मालती वकुलकैर्मन्दार कुन्दादिभिः।
केतक्या करवीरकैर्बहुविधैः क्लृप्ताः स्रजो मालिकाः
  संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम्॥ ८॥

हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलैः
  यैर्भृङ्गावलि नीलकुन्तलभरैर्बद्नासि तस्याशयम्।
तानीमानि तवाम्ब कोमलतराण्यामोद लीलागृहा
 ण्यामोदाय दशाङ्ग गुग्गुलु घृतैर्धूपैरहं धूपये॥ ९॥

लक्ष्मी मुज्ज्वलयामि रत्न निवहोद्भास्वत्तरे मन्दिरे
  मालारूप वलम्बितैर्मणिमय स्तम्भेषु सम्भावितैः।
चित्रैर्हाटक पुत्रिका करधृतैर्गव्यैर्ध्र्‌इतैर्वर्धितैर्
 दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम्॥ १०॥

ह्रींकारेश्वरि तप्तहाटक कृतैः स्थाली सहस्रैर्भृतं
  दिव्यन्नं घृतसूप शाक भरितं चित्रान्नभेदं तथा
दुग्धान्नं मधुशर्करा दधियुते माणिक्य पात्रे स्थिरं
  माषापूप सहस्रमम्ब सफलं नैवेध्य मावेदये॥ ११॥

सच्चायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
  पूगैर्भूरिगुनैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः।
मुक्ताचूर्ण विराजितैर्बहुविधैर्वक्त्राम्बुजामोदितैः
  पूर्णारत्न कलाचिका तवमुदे न्यस्तापुरस्तादुमे॥ १२॥

कन्याभिः कमनीय कान्तिभिरलंकारामलारात्रिका
  पात्रे मौक्तिक चित्र पङ्क्ति विलसत् कर्पूरदीपालिभिः।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत् पदाम्भोरुहं
  मन्त्राराधन पूर्वकं सुनिहितं नीराजनं गृह्यताम्॥ १३॥

लक्ष्मीर्मौक्तिक लक्षकल्पित सितच्चत्रं तु धत्ते रसात्
  इन्द्राणी च रतिश्च चामरवरे घत्ते स्वयं भारती।
वीणा मेण विलोचनाः सुमनसां नृत्यन्ति तद्रागवात्
  भावैराङ्गिक सात्विकैः स्फुटरसं मातस्तदालोक्यताम्॥ १४॥

ह्रींकार त्रयसंपुटेन मनुनोपास्ये त्रयी मौलिभिः
  वाक्येर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके।
सल्लाभाः स्तुतय प्रदक्षिण शतं सञ्चार एवास्तु ते
  संवेशो मनसः समाधिरखिलं त्वत्प्रीतये कल्पताम्॥ १५॥

श्रीमन्त्राक्षर मालया गिरिसुतां यः पूजयेच्चेतसा
  सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः।
चित्तम्भोरुह मण्डपे गिरिसुता नृत्तं विधत्ते रसाद्
  वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला॥ १६॥

इति गिरिवरपुत्री पादराजीवभूषा
  भुवन ममलयन्ती सूक्ति सौरभ्य सारैः।
शिवपद मकरन्दस्यन्दिनीयं निबद्धा
  मदयतु कविभृङ्गान् मातृका पुष्पमाला॥ १७॥

श्री राज राजेश्वरी तर्पण स्तोत्रम्

कल्याणायुत पूर्णबिम्बवदनां पूर्णेश्वरा नन्दिनीं
  पूर्णापूर्ण परापरेशमहिषीं पूर्णामृतास्वादिनीम्।
सम्पूर्णां परमोत्तमामृतकलां विध्यावतीं भारतीं
  श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥१॥

एकानेकमनेककार्य विविधां कार्यैकचिद्रूपिणीं
  चैतन्यात्मक एकचक्ररचितां चक्राण्क एकाकिनीम्।
भावाभाव विवर्द्धिनीं भयहरां सद्भक्तिचिन्तामणीं
   श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥२॥

एशाधीश्वर योगवृन्दविदितां सानन्द भूतां परां
   पश्यन्तीं तनुमध्यमां विलसितीं श्रीविष्णुसद्रूपिणीम्।
आत्मानात्मविचारिणीं त्रिवरणां विध्यात्रिबीजत्रयीं
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ३॥

लक्ष्मीलक्ष निरीक्षणां निरुपमां रुद्राक्षमालाधरां
   साक्षात्करण दक्षवंशकलितां दीर्घाक्षदीर्घेश्वरीम्।
भद्रां भद्र वरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं 
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ४॥

ह्रिंबीजान्वितनाद बिन्दु भरितां ॐकारनादात्मिकां
   ब्रह्मानन्द घनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम्।
इच्चाज्ञानक्रियावतीं जितवलीम् गन्धर्वसंसेवितां
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ५॥

हर्षोन्मत्त सुवर्ण पात्र भरितां पानोन्नताघूर्णितां
   हुङ्कारप्रिय शब्द ब्रह्मनिरतां सारखतोल्लासिनीम्।
सारासार विचार वादचतुरां वर्णाश्रमाकारिणीं
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ६॥

सर्वज्ञानकलावतीं सकरुणां स्वंनादिनीं मादिनीं
   सर्वान्तर्गतशालिनीं शिवतनुं सन्दीपिनीं दीपिनीं।
संयोग प्रियरूपिणीं प्रियवतीं प्रीतिप्रतापोन्नतां
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ७॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
   कारुण्यां तनुबुद्धिकर्मविरतां सिन्दुप्रियां शालिनीम्।
पञ्चब्रह्मसनातनान्तरगतां ज्ञेयाङ्गयोगान्वितां
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ८॥

हस्ते कुम्बनिभां पयोक्तभरितां पीनोन्नतां नौमितां
   हीराढ्याभरणां सुरेन्द्रवनितां शृङ्गारपीठालयाम्।
योग्याकारिणीमुद्रितकरां नित्यामवर्णात्मिकां
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ९॥

लक्ष्मीलक्षण पूर्ण भक्तिवरदां लीलाविनोदस्थितां
   लक्ष्म्या रञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम्।
लोकालोकित लोककामजननीं लोकप्रियाञ्कस्थितां
   श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १०॥

ह्रींकारिं सुतरां करप्रियतनुं श्रीयोगपीठेश्वरीं
   माङ्गल्यायतपञ्कजाभनयनां माङ्गल्य सिद्धिप्रदाम्।
तारुण्यान्तपसार्चितान्तरुणिकां तन्त्र्यर्चितां नर्तिनीं
   श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ ११॥

सर्वेशाङ्गविहारिणीं सकरुणां सर्वेश्वरीं सर्वगां
    सत्यां सर्वमयीं सहस्रदलनां सप्तार्णवोपस्थिताम्।
संसर्गादिविवर्जिनीं शुभकरीं बालार्ककोटिप्रभां
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १२॥

कादिक्षान्त सुवर्ण बिन्दुसुतनुं स्वर्णादि सिंहासिनीं
   नानावर्ण विचित्र चित्रचरितां चातुर्य चिन्तामणिम्।
चित्तनन्द विधायिनीं सुविपुलां रूढत्रयां शेषिकां
   श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १३॥

लक्ष्मीशादि विधीन्द्रचन्द्र मुकुटां षष्ठाङ्ग पीटार्चितां
   सूर्येन्द्राग्निमयैकपीटनिलयां त्रिस्थां त्रिकोणेश्वरीं
गोश्रीगुर्विणीगर्वितां गगनगां गङ्गागणेशप्रियां
    श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १४॥

ह्रींकूटत्रयरूपिणीं समयगां संसारिणीं हंसिनीं
  वामाचारपरायणां सुकुलजां बीजावतीं मुद्रिकाम्।
कामाक्षीं करुणार्द्र चित्र चरितां श्रीमन्त्र मूर्त्यात्मिकां
   श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम्॥ १५॥

त्रिपुरसुन्दरीसान्निध्य स्तवः

कल्पभानु समान भास्वरधाम लोचन गोचरं
  किं किमित्यति विस्मिते मयि पश्यतीह समागताम्।
कालकुन्तल भारनिर्जित नीलमेघ कुलां पुर-
  श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १॥

एकदन्त षडननादि भिरावृतां जगदीश्वरीं
  एनसां परिपन्थिनीमहं एकभक्तिमदर्चिताम्।
एकहीनशतेषु जन्मसु संचितात्सुकृतादिमां
  चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ २॥

ईदृशीति च वेदकुन्तल वाग्भिरप्य निरूपितां
  ईशपङ्क जनाभसृष्टि कृदादिवन्ध्य पदाम्बुजाम्।
ईक्षणान्तनिरीक्षणेन मदिष्टदां पुरतोऽधुना
  चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ३॥

लक्षणोज्ज्वल हार शोभिपयोधरध्वयकैतवा -
  ल्लीलयैव दयारस स्रवदुज्ज्वलत्कल शान्विताम्।
लाक्षयाङ्कित पादपातिमिलिन्दसन्ततिमग्रत -
  श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ४॥

ह्रीमिति प्रतिवासरं जपसुस्थिरोऽहमुदारया
  योगिमार्गनिरूडयैक्य सुभावनां गतया धिया।
वत्स हर्षमवाप्तवत्यहमित्युदारगिरं पुर -
  श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ५॥

हंसवृन्दमलक्त कारुण पादपङ्कज नूपुर -
  क्काणमोहितमादरादनुधावितं मृदु शृण्वतीम्।
हंसमन्नमहार्थ तत्वमयीं पुरो मम भाग्यत -
  श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ६॥

सङ्गतं जलमभ्रवृन्द समुद्भवं धरणीधरा -
   द्धारया वहदञ्जसा भ्रममाप्य सैकतनिर्गताम्।
एवमादि महेन्द्र जाल सुकोविदां पुरतोऽधुना
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ७॥

कम्बुसुन्दर कन्दरां कचवृन्द निर्जित वारिदां
   कण्ठ देश लसत्सुमङ्गल हेम सूत्र विराजिताम्।
कादिमन्नं उपासतां सकलेष्टदां मम सन्निधौ
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ८॥

हस्तपद्म लसत्त्रिखण्ड सुमुद्रिकामहमद्रिजां
   हस्तिकृत्ति परीत कार्मुक वल्लरीसमचिल्लिकाम्।
हर्यजस्तुत वैभवां भवकामिनीं मम भाग्यत-
   श्चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ९॥

लक्षणोल्लसदङ्गकान्ति झरीनिराकृतविद्ध्युतं
   लास्यलोल सुवर्णकुण्डल मण्डितां जगदम्बिकाम्।
लीलयाखिल सृष्टि पालन कर्षणादि वितन्वतीं
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १०॥

ह्रीमिति त्रिपुरामनु स्थिरचेतसा बहुधार्चितां
   हादिमन्न महाम्बुजात विराजमान सुहंसिकाम्।
हेमकुम्भ घनस्तनाञ्चल लोल मौक्तिक भूषणां
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ ११॥

सर्वलोक नमस्कृतां जितशर्वरीरमणाननां
   शर्वदेव मनः प्रियां नवयौवनोन्मदगर्चिताम्।
सर्वमङ्गल विग्रहां मम पूर्वजन्म तपोबला-
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १२॥

कन्दमूलफलाशिभिर्बहु योगिभिश्च गवेषितां
   कुन्दकुङ्भलदन्त पङ्क्ति विराजितां अपराजिताम्।
कन्दमागमवीरुधां सुरसुन्दरीभिरिहागतां
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १३॥

लत्रयाङ्कितमन्नराट्समलङ्कृतां जगदम्बिकां
   लोलनील सुकुन्तलावलि निर्जितालि कदम्बकाम्।
लोभमोह विदारिणीं करुणामयीं अरुणां शिवां
  चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १४॥

ह्रींपदाख्य महामनोरधि देवतां भुवनेश्वरीं
  हृत्सरोज निवासिनीं हरवल्लभां बहुरूपिनीम्।
हार कुण्डल नूपुरादि भिरन्वितां पुरतोऽधुना
  चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १५॥

श्रीं सुपञ्चदशाक्षरीमपि षोडशाक्षररूपिणीं
   श्रीसुधार्णव मध्य शोभि सरोज कानन चारिणीम्।
श्री गुहस्तुत वैभवां परदेवतां मम सन्निधौ
   चक्रराज निवासिनीं त्रिपुरेश्वरीमवलोकये॥ १६॥

कल्याणवृष्टि स्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि-
  र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सॆवाभिरम्ब तव पादसरॊजमूलॆ 
  नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १

एतावदॆव जननि स्पृहणीयमास्तॆ 
  त्वद्वन्दनॆषु सलिलस्थगितॆ च नॆत्रॆ ।
सान्निध्यमुद्यदरुणायुतसॊदरस्य 
  त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २

ईशत्वनामकलुषाः कति वा न सन्ति
  ब्रह्मादयः प्रैभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्तॆ 
  यः पादयॊस्तव सकृत्प्रणतिं करॊति ॥ ३

लब्ध्वा सकृत् त्रिपुरसुदरि तावकीनं 
  कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकॊटिसुभगास्त्वयि भक्तिभाजः
  सम्मॊहयन्ति तरुणीर्भुवनत्रयॆऽपि ॥ ४

ह्रीङ्कारमॆव तव नाम गृहान्ति वॆदा 
  मातस्त्रिकॊणनिलयॆ त्रिपुरॆ त्रिनॆत्रॆ ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
  दीव्यन्ति नन्दनवनॆ सह लॊकपालैः ॥ ५

हन्तुः पुरामधिगलं परिपीयमानः 
  क्रूरः कथं न भविता गरलस्य वॆगः ।
नाशवासनाय यदि मातरिदं तवार्धं
  दॆहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६

सर्वज्ञतां सदसि वाक्पटुतां प्रसूतॆ 
  दॆवि त्वदङ्घ्रिसरसीरुहयॊः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
  द्वॆ चामरॆ च महतीं वसुधां ददाति ॥ ७

कल्पद्रुमैरभिमतप्रतिपादनॆषु
  कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलॊक्य त्रिपुरसुन्दरि मामनाथं
  त्वय्यॆव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८

हन्तॆतरॆष्वपि मनांसि निधाय चान्यॆ 
  भक्तिं वहन्ति किल पामरदैवतॆषु ।
त्वामॆव दॆवि मनसा समनुस्मरामि
  त्वामॆव नौमि शरणं जननि त्वमॆव ॥ ९

लक्ष्यॆषु सत्स्वपि कटाक्षनिरीक्षणाना-
 मालॊकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
  जातॊ जनिष्यति जनॊ न च जायतॆ वा ॥ १०

ह्रीं ह्रीं मिति प्रतिदिनं जपतां तवाख्यां
  किं नाम दुर्लभमिह त्रिपुराधिवासॆ ।
मालाकिरीटमदवारणमाननीया 
  तान्सॆवतॆ वसुमती स्वयमॆव लक्ष्मीः ॥ ११

सम्पत्कराणि सकलॆन्द्रियनन्दनानि 
  साम्राज्यदाननिरतानि सरॊरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणॊद्यतानि 
  मामॆव मातरनिशं कलयन्तु नान्यम् ॥ १२

कल्पॊपसंहृतिषु कल्पितताण्डवस्य
  दॆवस्य खण्डपरशॊः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
  सा साक्षिणी विजयतॆ तव मुर्तिरॆका ॥ १३

लग्नं सदा भवतु मातरिदं तवार्धं
  तॆजः परं बहुलकुङ्कुमपङ्कशॊणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
  मध्यॆ त्रिकॊणनिलयं परमामृतार्द्रम् ॥ १४

ह्रीङ्कारमॆव तव नाम तदॆव रूपं
  त्वन्नाम दुर्लभमिह त्रिपुरॆ गृणन्ति ।
त्वत्तॆजसा परिणतं वियदादिभूतं
  सौख्यं तनॊति सरसीरुहसम्भवादॆः ॥ १५

ह्रीङ्कारत्रयसम्पुटॆन महता मन्त्रॆण सन्दीपितं
स्तॊत्रं यः प्रतिवासरं तव पुरॊ मातर्जपॆन्मन्त्रवित् ।
तस्य क्षॊणिभुजॊ भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी 
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६


रुद्रयामले षोडशी मन्त्रोव्याख्यान मकरन्दस्तवराज स्तोत्रम्

षोडशीयुपासकानां -

ॐ अस्य श्री महात्रिपुरसुन्दरी मन्त्रस्य ब्रह्मविध्याः दक्षिणामूर्ति ऋषिः। अव्यक्त गायत्रि चन्दः। श्री महात्रिपुरसुन्दरी पराभट्टरिक देवथा॥

अं बीजं। आं शक्तिः। सौः कीलकं। 
दृक् बीजं। दशा शक्तिः।
आनन्दं बीजं। आनन्दवर्गः शक्तिः।
शिवो बीजं। विष्णुः शक्तिः।
कामो बीजं। कामेश्वरी शक्तिः।
पुल्लिङ्गं बीजं। स्त्रीलिङ्गं शक्तिः।
कादयो बीजं। आदयो शक्तिः।
उदात्तं बीजं। अनुदात्तं शक्तिः।
परमात्मा क्षेत्रं।
ब्रह्मबिलं स्थानं।
विकृता सुषुम्ना नाडी।
आगस्त्य गोत्रं।
भगवान् वसिष्ठो गुरुः।
दशमुद्रा ब्रह्मोपासन सौभाग्यं विदितायां विनियोगः।

मूल मन्त्र करषडङ्गं कुर्यात्

ध्यानम्

बालार्क मण्डलाभासां चतुर्बाहुं त्रिलोचनाम्।
पाशाङ्गुशशरंचापं धारयन्तीं शिवां भजे॥

पञ्चपूजा कुर्यात्

ॐ श्रीं बीजे नादबिन्दुद्वितिय शशिकलाकार रूपस्वरूपे 
    मातर्मे देहि ऋद्धिं जहि जहि दुरितं पाहि मां दीननाथे।
अज्ञान ध्वान्तराशिं क्षपय सुरुचिरे प्रोल्लसत्पादपद्मे
    ब्रह्मेशाद्ध्यैः सुरेन्द्रैः सुरगणनमिते सम्स्तुते त्वां नमामि॥१॥

लज्जा बीजस्वरूपे त्रिजगति वरदे व्रीडया या स्थितेयं
    तां नित्यां शम्भुभक्तिं त्रिभुवन जननीं पालयित्रीं जगच्च।
सर्वाशानां निदाने सकलगुणमयीं सच्चिदानन्दरूपां
    तेजोरूपां प्रदीप्तां त्रिभुवननमितां ज्ञानदात्रीं नमामि॥२॥

क्लीं बीजे कामरूपे धृतकुसुम धनुर्बाण पाशाङ्कुशां तां
   वन्दे भास्वत् सरोजोदरनिभवपुषां मोहयन्तीं त्रिलोकीं।
काञ्चीमञ्जीरहारां गदमुकुटलसत् स्वर्णमाणिक्यरत्नैर्
  भास्वत् सिन्दूरवक्त्रां स्तनभरनमितां क्षीणमध्यां त्रिनेत्राम्॥ ३॥

ऐं वाणी बीजरूपे त्रिभुवनजडता ध्वान्तविध्वम्सिनी त्वं
   शैवब्रह्मस्वरूपा श्रुतिभिरनुपदं गीयमानात्वमेव।
मातर्मे देहि बुद्धिं मम सदसिपरद्वन्द्व सम्क्षोभकत्रीं 
   ऐन्द्रीं वाचस्परे तप्यति विविधपदं त्वत्पदाम्भोजमीडे॥४॥

सौः शक्तिः कार्यमन्ते घटपट प्रभृतौ दृष्टहेतोः सहाया
   माया काचिन्महतत्त्व प्रभृति परिणता मूलभूतात्वमेव।
केचिद्बाह्यप्रपञ्चा मणिनिवहतनौ तन्त्रभूतात्वमेव
   विध्या जन्मादिबृन्दं क्षपयति जगतां मेनिरे शुद्धभावाः॥ ५॥

ॐ मातस्ते नमस्ते श्रुति ग्रथितगुरु त्रयक्षर ब्रह्मरूपे
  मिथ्यामोहान्धकारे पतित मनुदिनं पाहिमां भक्तिहीनम्।
मोहक्रोधप्रलोभ प्रमथ मदचयैः शत्रुभिः पीड्यतेऽसौ
  पत्नी पुत्रादिभृत्यैर्नत विविधजनैः शृङ्खलाभिर्निबद्धः॥ ६॥

ह्रींकारे ह्रींस्वरूपे मम दह दुरितं व्याधि दारिद्रय बीज
  मातस्त्वत्पादपद्म द्वितय परिसरे प्रार्थये भक्तिलेशम्।
त्वं वाणी त्वं च लक्ष्मीस्त्वमसि गिरिसुता ब्रह्म विष्णुस्मरारे
  श्चित्तं नित्यं शरण्यं कृतमिह जननि त्वत्कटाक्षैकबृन्दैः॥ ७॥

श्रींकारे श्रीस्वरूपे वितर मयि धनं धान्यहस्त्यश्वयुक्तं
   स्वर्णं माणिक्यरत्नाध्यभिलषितयुतं त्वत्पदार्चासुयोग्यम्।
विध्यां त्वं देहि मोक्षं भवभयदहने देवि दन्दह्यमाने
   योगेन्द्रैः सेव्यमाना हत कलुषचयैर्मोक्षमन्वेषयद्भिः॥ ८॥

कामो योनिश्चतुर्थ्ः स्वरत्रिदशपतिर्भौवनेशी च बीजं 
  तावद्वर्णावली त्वं नतजनवरदे भक्तिमीहे शरण्ये।
त्वत्पादाम्भोज युग्मं हृदयसरसिजे सन्निधायैकचित्ते 
  ध्यात्वा तत्कर्मबन्धं त्वतिविमलधियो मुक्तिवन्तो मुनीन्द्राः॥९॥

ब्रमेन्द्रुः कामदेवो वियदमरगुरुर्भौवनेशी च बीजं
  तावद्वर्णस्वरूपैर्घटिततनुलतां त्वां प्रपन्नोऽस्मि मातः।
विष्णुब्रह्मेशमूर्ति स्थित मुकुटमणि प्रोल्लसत्पादपद्मां
  योगीन्द्रैर्ध्येयपादांबुरुह करनख ध्योत विध्योतितां त्वाम्॥ १०॥

इन्दुः कामः सुरेशा वियदनल लसद्वामनेत्रार्धचन्द्रैर्
  युक्तं यद्बीजमेतत्तदपि तव वपुः सच्चिदानन्दरूपम्।
बाला त्वं भैरवी त्वं त्रिभुवनजननी नीलवर्णा त्वम् गौरी
  त्वम् च काली सकलमनुमयी त्वम् महामोक्षदात्री॥ ११॥

सौः कारो बीजराज स्त्रिभुवन जननी शक्तिराध्या त्वमेव
  त्वद्ध्युक्तः शम्भुरेषः प्रभवति चलितुं त्वां विना जाड्यवान् सः।
ब्रह्मा विष्णु कपर्दी जननि तव कृपालेश मात्राच्चरीरं
  गृह्णन्तः सृष्टिरक्षा प्रलयमभिलसच्चक्रिरे त्वद्वशस्थाः॥१२॥

ऐं बीजं वाग्भवाख्यं त्वमिह जडमिति ध्वान्त चक्षुः प्रकाशान्
  मातः कारुण्यधारा ममृतवलिधृशा पश्य मां दीननाथे।
मोह्यन्ते मोहितास्ते तव जननि महा मायया बद्धचित्ताः
  कारुण्यं प्रार्थयन्ते तव पदयुगले ज्ञानवन्तो मुनीन्द्राः॥ १३॥

क्लींकारो बीजरूपा तव जननि मनुश्लेष मध्य प्रवेशात् 
  साक्षाद् ब्रह्मस्वरूपी मदनतनुलता ब्रह्मणो मोहकर्त्री।
साज्ञानं स्मेरवक्त्राम्बुज कुहरलसत्सुप्तपीयूषधारा
  वेदाश्चत्वार एते तुहिनगिरिसुते प्राप्तमीनेन्द्ररूपे॥ १४॥

ह्रींकारोङ्काररूपा त्वमिह शशिमुखी ह्रीं स्वरूपा त्वमेव
  त्वं क्षान्तिस्त्वं च कान्तिर्हरिहर कमलोद्भूतरूपात्वमेव
त्वंसिद्धिस्त्वं च ऋद्धिः स्मररिपुमनसस्त्वञ्च सम्मोहयन्ती
  विध्या त्वं मुक्तिहेतुर्भवजलधिजनुर्दुःखहन्त्री त्वमेव॥ १५॥

श्रींबीजे श्रीस्वरूपे मधुरिपुमनसो मध्य मध्यासिता त्वं
  मातस्त्वद् दृष्टिलेशा दमरपतिरसौ प्राप्तवान् बुद्धिमेषाम्।
इत्येवं षोडशार्णां सरसमनुदिनं स्वर्गमोक्षैकहेतुं 
  सिद्धीरष्टौ लभन्ते य इह मनुवरं श्रेष्ठमेनं भजन्ते॥ १६॥

पूजयित्वा विधानेन महात्रिपुरसुन्दरीं।
इमंस्तवं पठित्वातु देवी सायुज्यमाप्नुयात्॥

mantramātṛkā puṣpamālā stavaḥ 

kallolollasitāmṛtāmdhi laharī madhye virājanmaṇi
   dvīpe kalpaka vāṭikā parivṛte kādambavāṭyujjvale|
ratnastaṁbha sahasra nirmita sabhāmadhye vimānottame
   cintāratna vinirmitaṁ janani te siṁhāsanaṁ bhāvaye||1||

eṇāṁkānala bhānumaṇḍala lasacchrīcakra madhye sthitāṁ
  bālārkaddhuti bhāsurāṁ karatalaiḥ pāśāṁkuśau bibhratīṁ|
cāpaṁ bāṇamapi prasannavadanāṁ kausuṁbha vastrānvitāṁ
  tāṁ tvāṁ candrakalāvataṁsa makuṭāṁ cārusmitāṁ bhāvaye|| 2||

īśānādipadaṁ śivaika phalakaṁ ratnāsanaṁ te śubhaṁ
  pāddhyaṁ kuṁkuma candanādi bharitairarghyaṁ saratnākṣataiḥ|
śuddhai rācamanīyakaṁ tavajalairbhaktyā māyā kalpitaṁ|
  kāruṇyāmṛta vāridhe tadakhilaṁ santuṣṭaye kalpatām|| 3||

lakṣye uyogijanasya rakṣitajagajjale viśālekṣaṇe
  prāleyāṁbu paṭīra kuṁkuma lasat karpūra miśrodakaiḥ|
gokṣīrairapi nālikera salilaiḥ śuddhodakairmantritaiḥ
  snānaṁ devi dhiyāmayaitadakhilaṁ santuṣṭaye kalpatām|| 4||

hrīṁkāraṁkita mantralakṣitatano hemācalāt saṁcitaiḥ
   ratnairujjvala muttarīya sahitaṁ kausuṁbhavarṇāśukam|
muktāsantati yajñasūtra mamalaṁ sauvarṇa tantūdbhavaṁ
dattaṁ devi dhiyā mayaita dakhilaṁ santuṣṭaye kalpatām|| 5||

haṁsairapyatilobhanīyagamane hārāvalī mujjvalāṁ
  hindoladdhyuti hīrapūritatare hemāṅgade kaṅkaṇe
mañjīrau maṇikuṇḍale makuṭamapyardhendu cūḍāmaṇiṁ
  nāsā mauktika maṅgalīya kaṭakau kāñcīmapi svīkuru||6||

sarvāṅge dhanasāra kuṁkuma ghana śrīgandha paṅkāṅkitaṁ
  kastūri tilakaṅca phālaphalake gorocanāpatrakam||
gaṇḍādarśana maṇḍale nayanayordivyāñjanaṁ te'ñcitaṁ
  kaṇṭhābje mṛganābhipaṅkamamalaṁ tvatprītaye kalpatām||7||

kalhārotpala mallikā maruvakaiḥ sauvarṇapaṅkeruhaiḥ 
  jātīcaṁpaka mālatī vakulakairmandāra kundādibhiḥ|
ketakyā karavīrakairbahuvidhaiḥ klṛptāḥ srajo mālikāḥ
  saṁkalpena samarpayāmi varade santuṣṭaye gṛhyatām|| 8||

hantāraṁ madanasya nandayasi yairaṅgairanaṅgojjvalaiḥ
  yairbhṛṅgāvali nīlakuntalabharairbadnāsi tasyāśayam|
tānīmāni tavāmba komalatarāṇyāmoda līlāgṛhā
 ṇyāmodāya daśāṅga guggulu ghṛtairdhūpairahaṁ dhūpaye|| 9||

lakṣmī mujjvalayāmi ratna nivahodbhāsvattare mandire
  mālārūpa valambitairmaṇimaya stambheṣu sambhāvitaiḥ|
citrairhāṭaka putrikā karadhṛtairgavyairdhritairvardhitair
 divyairdīpagaṇairdhiyā girisute santuṣṭaye kalpatām|| 10||

hrīṁkāreśvari taptahāṭaka kṛtaiḥ sthālī sahasrairbhṛtaṁ
  divyannaṁ ghṛtasūpa śāka bharitaṁ citrānnabhedaṁ tathā
dugdhānnaṁ madhuśarkarā dadhiyute māṇikya pātre sthiraṁ
  māṣāpūpa sahasramamba saphalaṁ naivedhya māvedaye|| 11||

saccāyairvaraketakīdalarucā tāmbūlavallīdalaiḥ
  pūgairbhūrigunaiḥ sugandhimadhuraiḥ karpūrakhaṇḍojjvalaiḥ|
muktācūrṇa virājitairbahuvidhairvaktrāmbujāmoditaiḥ
  pūrṇāratna kalācikā tavamude nyastāpurastādume|| 12||

kanyābhiḥ kamanīya kāntibhiralaṁkārāmalārātrikā
  pātre mauktika citra paṅkti vilasat karpūradīpālibhiḥ|
tattattālamṛdaṅgagītasahitaṁ nṛtyat padāmbhoruhaṁ
  mantrārādhana pūrvakaṁ sunihitaṁ nīrājanaṁ gṛhyatām|| 13||

lakṣmīrmauktika lakṣakalpita sitaccatraṁ tu dhatte rasāt
  indrāṇī ca ratiśca cāmaravare ghatte svayaṁ bhāratī|
vīṇā meṇa vilocanāḥ sumanasāṁ nṛtyanti tadrāgavāt
  bhāvairāṅgika sātvikaiḥ sphuṭarasaṁ mātastadālokyatām|| 14||

hrīṁkāra trayasaṁpuṭena manunopāsye trayī maulibhiḥ
  vākyerlakṣyatano tava stutividhau ko vā kṣametāmbike|
sallābhāḥ stutaya pradakṣiṇa śataṁ sañcāra evāstu te
  saṁveśo manasaḥ samādhirakhilaṁ tvatprītaye kalpatām|| 15||

śrīmantrākṣara mālayā girisutāṁ yaḥ pūjayeccetasā
  sandhyāsu prativāsaraṁ suniyatastasyāmalaṁ syānmanaḥ|
cittambhoruha maṇḍape girisutā nṛttaṁ vidhatte rasād
  vāṇī vaktrasaroruhe jaladhijā gehe jaganmaṅgalā|| 16||

iti girivaraputrī pādarājīvabhūṣā
  bhuvana mamalayantī sūkti saurabhya sāraiḥ|
śivapada makarandasyandinīyaṁ nibaddhā
  madayatu kavibhṛṅgān mātṛkā puṣpamālā|| 17||

śrī rāja rājeśvarī tarpaṇa stotram

kalyāṇāyuta pūrṇabimbavadanāṁ pūrṇeśvarā nandinīṁ
  pūrṇāpūrṇa parāpareśamahiṣīṁ pūrṇāmṛtāsvādinīm|
sampūrṇāṁ paramottamāmṛtakalāṁ vidhyāvatīṁ bhāratīṁ
  śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm||1||

ekānekamanekakārya vividhāṁ kāryaikacidrūpiṇīṁ
  caitanyātmaka ekacakraracitāṁ cakrāṇka ekākinīm|
bhāvābhāva vivarddhinīṁ bhayaharāṁ sadbhakticintāmaṇīṁ
   śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm||2||

eśādhīśvara yogavṛndaviditāṁ sānanda bhūtāṁ parāṁ
   paśyantīṁ tanumadhyamāṁ vilasitīṁ śrīviṣṇusadrūpiṇīm|
ātmānātmavicāriṇīṁ trivaraṇāṁ vidhyātribījatrayīṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 3||

lakṣmīlakṣa nirīkṣaṇāṁ nirupamāṁ rudrākṣamālādharāṁ
   sākṣātkaraṇa dakṣavaṁśakalitāṁ dīrghākṣadīrgheśvarīm|
bhadrāṁ bhadra varapradāṁ bhagavatīṁ bhadreśvarīṁ mudriṇīṁ 
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 4||

hriṁbījānvitanāda bindu bharitāṁ OMkāranādātmikāṁ
   brahmānanda ghanodarīṁ guṇavatīṁ jñāneśvarīṁ jñānadām|
iccājñānakriyāvatīṁ jitavalīm gandharvasaṁsevitāṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 5||

harṣonmatta suvarṇa pātra bharitāṁ pānonnatāghūrṇitāṁ
   huṅkārapriya śabda brahmaniratāṁ sārakhatollāsinīm|
sārāsāra vicāra vādacaturāṁ varṇāśramākāriṇīṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 6||

sarvajñānakalāvatīṁ sakaruṇāṁ svaṁnādinīṁ mādinīṁ
   sarvāntargataśālinīṁ śivatanuṁ sandīpinīṁ dīpinīṁ|
saṁyoga priyarūpiṇīṁ priyavatīṁ prītipratāponnatāṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 7||

karmākarmavivarjitāṁ kulavatīṁ karmapradāṁ kaulinīṁ
   kāruṇyāṁ tanubuddhikarmaviratāṁ sindupriyāṁ śālinīm|
pañcabrahmasanātanāntaragatāṁ jñeyāṅgayogānvitāṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 8||

haste kumbanibhāṁ payoktabharitāṁ pīnonnatāṁ naumitāṁ
   hīrāḍhyābharaṇāṁ surendravanitāṁ śṛṅgārapīṭhālayām|
yogyākāriṇīmudritakarāṁ nityāmavarṇātmikāṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 9||

lakṣmīlakṣaṇa pūrṇa bhaktivaradāṁ līlāvinodasthitāṁ
   lakṣmyā rañjitapādapadmayugalāṁ brahmendrasaṁsevitām|
lokālokita lokakāmajananīṁ lokapriyāñkasthitāṁ
   śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 10||

hrīṁkāriṁ sutarāṁ karapriyatanuṁ śrīyogapīṭheśvarīṁ
   māṅgalyāyatapañkajābhanayanāṁ māṅgalya siddhipradām|
tāruṇyāntapasārcitāntaruṇikāṁ tantryarcitāṁ nartinīṁ
   śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 11||

sarveśāṅgavihāriṇīṁ sakaruṇāṁ sarveśvarīṁ sarvagāṁ
    satyāṁ sarvamayīṁ sahasradalanāṁ saptārṇavopasthitām|
saṁsargādivivarjinīṁ śubhakarīṁ bālārkakoṭiprabhāṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 12||

kādikṣānta suvarṇa bindusutanuṁ svarṇādi siṁhāsinīṁ
   nānāvarṇa vicitra citracaritāṁ cāturya cintāmaṇim|
cittananda vidhāyinīṁ suvipulāṁ rūḍhatrayāṁ śeṣikāṁ
   śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 13||

lakṣmīśādi vidhīndracandra mukuṭāṁ ṣaṣṭhāṅga pīṭārcitāṁ
   sūryendrāgnimayaikapīṭanilayāṁ tristhāṁ trikoṇeśvarīṁ
gośrīgurviṇīgarvitāṁ gaganagāṁ gaṅgāgaṇeśapriyāṁ
    śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 14||

hrīṁkūṭatrayarūpiṇīṁ samayagāṁ saṁsāriṇīṁ haṁsinīṁ
  vāmācāraparāyaṇāṁ sukulajāṁ bījāvatīṁ mudrikām|
kāmākṣīṁ karuṇārdra citra caritāṁ śrīmantra mūrtyātmikāṁ
   śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājeśvarīm|| 15||

tripurasundarīsānnidhya stavaḥ

kalpabhānu samāna bhāsvaradhāma locana gocaraṁ
  kiṁ kimityati vismite mayi paśyatīha samāgatām|
kālakuntala bhāranirjita nīlamegha kulāṁ pura-
  ścakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 1||

ekadanta ṣaḍananādi bhirāvṛtāṁ jagadīśvarīṁ
  enasāṁ paripanthinīmahaṁ ekabhaktimadarcitām|
ekahīnaśateṣu janmasu saṁcitātsukṛtādimāṁ
  cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 2||

īdṛśīti ca vedakuntala vāgbhirapya nirūpitāṁ
  īśapaṅka janābhasṛṣṭi kṛdādivandhya padāmbujām|
īkṣaṇāntanirīkṣaṇena madiṣṭadāṁ purato'dhunā
  cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 3||

lakṣaṇojjvala hāra śobhipayodharadhvayakaitavā -
  llīlayaiva dayārasa sravadujjvalatkala śānvitām|
lākṣayāṅkita pādapātimilindasantatimagrata -
  ścakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 4||

hrīmiti prativāsaraṁ japasusthiro'hamudārayā
  yogimārganirūḍayaikya subhāvanāṁ gatayā dhiyā|
vatsa harṣamavāptavatyahamityudāragiraṁ pura -
  ścakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 5||

haṁsavṛndamalakta kāruṇa pādapaṅkaja nūpura -
  kkāṇamohitamādarādanudhāvitaṁ mṛdu śṛṇvatīm|
haṁsamannamahārtha tatvamayīṁ puro mama bhāgyata -
  ścakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 6||

saṅgataṁ jalamabhravṛnda samudbhavaṁ dharaṇīdharā -
   ddhārayā vahadañjasā bhramamāpya saikatanirgatām|
evamādi mahendra jāla sukovidāṁ purato'dhunā
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 7||

kambusundara kandarāṁ kacavṛnda nirjita vāridāṁ
   kaṇṭha deśa lasatsumaṅgala hema sūtra virājitām|
kādimannaṁ upāsatāṁ sakaleṣṭadāṁ mama sannidhau
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 8||

hastapadma lasattrikhaṇḍa sumudrikāmahamadrijāṁ
   hastikṛtti parīta kārmuka vallarīsamacillikām|
haryajastuta vaibhavāṁ bhavakāminīṁ mama bhāgyata-
   ścakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 9||

lakṣaṇollasadaṅgakānti jharīnirākṛtaviddhyutaṁ
   lāsyalola suvarṇakuṇḍala maṇḍitāṁ jagadambikām|
līlayākhila sṛṣṭi pālana karṣaṇādi vitanvatīṁ
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 10||

hrīmiti tripurāmanu sthiracetasā bahudhārcitāṁ
   hādimanna mahāmbujāta virājamāna suhaṁsikām|
hemakumbha ghanastanāñcala lola mauktika bhūṣaṇāṁ
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 11||

sarvaloka namaskṛtāṁ jitaśarvarīramaṇānanāṁ
   śarvadeva manaḥ priyāṁ navayauvanonmadagarcitām|
sarvamaṅgala vigrahāṁ mama pūrvajanma tapobalā-
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 12||

kandamūlaphalāśibhirbahu yogibhiśca gaveṣitāṁ
   kundakuṅbhaladanta paṅkti virājitāṁ aparājitām|
kandamāgamavīrudhāṁ surasundarībhirihāgatāṁ
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 13||

latrayāṅkitamannarāṭsamalaṅkṛtāṁ jagadambikāṁ
   lolanīla sukuntalāvali nirjitāli kadambakām|
lobhamoha vidāriṇīṁ karuṇāmayīṁ aruṇāṁ śivāṁ
  cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 14||

hrīṁpadākhya mahāmanoradhi devatāṁ bhuvaneśvarīṁ
  hṛtsaroja nivāsinīṁ haravallabhāṁ bahurūpinīm|
hāra kuṇḍala nūpurādi bhiranvitāṁ purato'dhunā
  cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 15||

śrīṁ supañcadaśākṣarīmapi ṣoḍaśākṣararūpiṇīṁ
   śrīsudhārṇava madhya śobhi saroja kānana cāriṇīm|
śrī guhastuta vaibhavāṁ paradevatāṁ mama sannidhau
   cakrarāja nivāsinīṁ tripureśvarīmavalokaye|| 16||

kalyāṇavṛṣṭi stavaḥ

kalyāṇavṛṣṭibhirivāmṛtapūritābhi-
  rlakṣmīsvayaṁvaraṇamaṅgaladīpikābhiḥ |
sĕvābhiramba tava pādasarŏjamūlĕ 
  nākāri kiṁ manasi bhāgyavatāṁ janānām || 1

etāvadĕva janani spṛhaṇīyamāstĕ 
  tvadvandanĕṣu salilasthagitĕ ca nĕtrĕ |
sānnidhyamudyadaruṇāyutasŏdarasya 
  tvadvigrahasya parayā sudhayāplutasya || 2

īśatvanāmakaluṣāḥ kati vā na santi
  brahmādayaḥ praibhavaṁ pralayābhibhūtāḥ |
ekaḥ sa eva janani sthirasiddhirāstĕ 
  yaḥ pādayŏstava sakṛtpraṇatiṁ karŏti || 3

labdhvā sakṛt tripurasudari tāvakīnaṁ 
  kāruṇyakandalitakāntibharaṁ kaṭākṣam |
kandarpakŏṭisubhagāstvayi bhaktibhājaḥ
  sammŏhayanti taruṇīrbhuvanatrayĕ'pi || 4

hrīṅkāramĕva tava nāma gṛhānti vĕdā 
  mātastrikŏṇanilayĕ tripurĕ trinĕtrĕ |
tvatsaṁsmṛtau yamabhaṭābhibhavaṁ vihāya
  dīvyanti nandanavanĕ saha lŏkapālaiḥ || 5

hantuḥ purāmadhigalaṁ paripīyamānaḥ 
  krūraḥ kathaṁ na bhavitā garalasya vĕgaḥ |
nāśavāsanāya yadi mātaridaṁ tavārdhaṁ
  dĕhasya śaśvadamṛtāplutaśītalasya || 6

sarvajñatāṁ sadasi vākpaṭutāṁ prasūtĕ 
  dĕvi tvadaṅghrisarasīruhayŏḥ praṇāmaḥ |
kiṁ ca sphuranmakuṭamujjvalamātapatraṁ
  dvĕ cāmarĕ ca mahatīṁ vasudhāṁ dadāti || 7

kalpadrumairabhimatapratipādanĕṣu
  kāruṇyavāridhibhiramba bhavatkaṭākṣaiḥ |
ālŏkya tripurasundari māmanāthaṁ
  tvayyĕva bhaktibharitaṁ tvayi baddhatṛṣṇam || 8

hantĕtarĕṣvapi manāṁsi nidhāya cānyĕ 
  bhaktiṁ vahanti kila pāmaradaivatĕṣu |
tvāmĕva dĕvi manasā samanusmarāmi
  tvāmĕva naumi śaraṇaṁ janani tvamĕva || 9

lakṣyĕṣu satsvapi kaṭākṣanirīkṣaṇānā-
 mālŏkaya tripurasundari māṁ kadācit |
nūnaṁ mayā tu sadṛśaḥ karuṇaikapātraṁ
  jātŏ janiṣyati janŏ na ca jāyatĕ vā || 10

hrīṁ hrīṁ miti pratidinaṁ japatāṁ tavākhyāṁ
  kiṁ nāma durlabhamiha tripurādhivāsĕ |
mālākirīṭamadavāraṇamānanīyā 
  tānsĕvatĕ vasumatī svayamĕva lakṣmīḥ || 11

sampatkarāṇi sakalĕndriyanandanāni 
  sāmrājyadānaniratāni sarŏruhākṣi |
tvadvandanāni duritāharaṇŏdyatāni 
  māmĕva mātaraniśaṁ kalayantu nānyam || 12

kalpŏpasaṁhṛtiṣu kalpitatāṇḍavasya
  dĕvasya khaṇḍaparaśŏḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
  sā sākṣiṇī vijayatĕ tava murtirĕkā || 13

lagnaṁ sadā bhavatu mātaridaṁ tavārdhaṁ
  tĕjaḥ paraṁ bahulakuṅkumapaṅkaśŏṇam |
bhāsvatkirīṭamamṛtāṁśukalāvataṁsaṁ
  madhyĕ trikŏṇanilayaṁ paramāmṛtārdram || 14

hrīṅkāramĕva tava nāma tadĕva rūpaṁ
  tvannāma durlabhamiha tripurĕ gṛṇanti |
tvattĕjasā pariṇataṁ viyadādibhūtaṁ
  saukhyaṁ tanŏti sarasīruhasambhavādĕḥ || 15

hrīṅkāratrayasampuṭĕna mahatā mantrĕṇa sandīpitaṁ
stŏtraṁ yaḥ prativāsaraṁ tava purŏ mātarjapĕnmantravit |
tasya kṣŏṇibhujŏ bhavanti vaśagā lakṣmīścirasthāyinī 
vāṇī nirmalasūktibhārabharitā jāgarti dīrghaṁ vayaḥ || 16


rudrayāmale ṣoḍaśī mantrovyākhyāna makarandastavarāja stotram

ṣoḍaśīyupāsakānāṁ -

OM asya śrī mahātripurasundarī mantrasya brahmavidhyāḥ dakṣiṇāmūrti ṛṣiḥ| avyakta gāyatri candaḥ| śrī mahātripurasundarī parābhaṭṭarika devathā||

aṁ bījaṁ| āṁ śaktiḥ| sauḥ kīlakaṁ| 
dṛk bījaṁ| daśā śaktiḥ|
ānandaṁ bījaṁ| ānandavargaḥ śaktiḥ|
śivo bījaṁ| viṣṇuḥ śaktiḥ|
kāmo bījaṁ| kāmeśvarī śaktiḥ|
pulliṅgaṁ bījaṁ| strīliṅgaṁ śaktiḥ|
kādayo bījaṁ| ādayo śaktiḥ|
udāttaṁ bījaṁ| anudāttaṁ śaktiḥ|
paramātmā kṣetraṁ|
brahmabilaṁ sthānaṁ|
vikṛtā suṣumnā nāḍī|
āgastya gotraṁ|
bhagavān vasiṣṭho guruḥ|
daśamudrā brahmopāsana saubhāgyaṁ viditāyāṁ viniyogaḥ|

mūla mantra karaṣaḍaṅgaṁ kuryāt

dhyānam

bālārka maṇḍalābhāsāṁ caturbāhuṁ trilocanām|
pāśāṅguśaśaraṁcāpaṁ dhārayantīṁ śivāṁ bhaje||

pañcapūjā kuryāt

OM śrīṁ bīje nādabindudvitiya śaśikalākāra rūpasvarūpe 
    mātarme dehi ṛddhiṁ jahi jahi duritaṁ pāhi māṁ dīnanāthe|
ajñāna dhvāntarāśiṁ kṣapaya surucire prollasatpādapadme
    brahmeśāddhyaiḥ surendraiḥ suragaṇanamite samstute tvāṁ namāmi||1||

lajjā bījasvarūpe trijagati varade vrīḍayā yā sthiteyaṁ
    tāṁ nityāṁ śambhubhaktiṁ tribhuvana jananīṁ pālayitrīṁ jagacca|
sarvāśānāṁ nidāne sakalaguṇamayīṁ saccidānandarūpāṁ
    tejorūpāṁ pradīptāṁ tribhuvananamitāṁ jñānadātrīṁ namāmi||2||

klīṁ bīje kāmarūpe dhṛtakusuma dhanurbāṇa pāśāṅkuśāṁ tāṁ
   vande bhāsvat sarojodaranibhavapuṣāṁ mohayantīṁ trilokīṁ|
kāñcīmañjīrahārāṁ gadamukuṭalasat svarṇamāṇikyaratnair
  bhāsvat sindūravaktrāṁ stanabharanamitāṁ kṣīṇamadhyāṁ trinetrām|| 3||

aiṁ vāṇī bījarūpe tribhuvanajaḍatā dhvāntavidhvamsinī tvaṁ
   śaivabrahmasvarūpā śrutibhiranupadaṁ gīyamānātvameva|
mātarme dehi buddhiṁ mama sadasiparadvandva samkṣobhakatrīṁ 
   aindrīṁ vācaspare tapyati vividhapadaṁ tvatpadāmbhojamīḍe||4||

sauḥ śaktiḥ kāryamante ghaṭapaṭa prabhṛtau dṛṣṭahetoḥ sahāyā
   māyā kācinmahatattva prabhṛti pariṇatā mūlabhūtātvameva|
kecidbāhyaprapañcā maṇinivahatanau tantrabhūtātvameva
   vidhyā janmādibṛndaṁ kṣapayati jagatāṁ menire śuddhabhāvāḥ|| 5||

OM mātaste namaste śruti grathitaguru trayakṣara brahmarūpe
  mithyāmohāndhakāre patita manudinaṁ pāhimāṁ bhaktihīnam|
mohakrodhapralobha pramatha madacayaiḥ śatrubhiḥ pīḍyate'sau
  patnī putrādibhṛtyairnata vividhajanaiḥ śṛṅkhalābhirnibaddhaḥ|| 6||

hrīṁkāre hrīṁsvarūpe mama daha duritaṁ vyādhi dāridraya bīja
  mātastvatpādapadma dvitaya parisare prārthaye bhaktileśam|
tvaṁ vāṇī tvaṁ ca lakṣmīstvamasi girisutā brahma viṣṇusmarāre
  ścittaṁ nityaṁ śaraṇyaṁ kṛtamiha janani tvatkaṭākṣaikabṛndaiḥ|| 7||

śrīṁkāre śrīsvarūpe vitara mayi dhanaṁ dhānyahastyaśvayuktaṁ
   svarṇaṁ māṇikyaratnādhyabhilaṣitayutaṁ tvatpadārcāsuyogyam|
vidhyāṁ tvaṁ dehi mokṣaṁ bhavabhayadahane devi dandahyamāne
   yogendraiḥ sevyamānā hata kaluṣacayairmokṣamanveṣayadbhiḥ|| 8||

kāmo yoniścaturthḥ svaratridaśapatirbhauvaneśī ca bījaṁ 
  tāvadvarṇāvalī tvaṁ natajanavarade bhaktimīhe śaraṇye|
tvatpādāmbhoja yugmaṁ hṛdayasarasije sannidhāyaikacitte 
  dhyātvā tatkarmabandhaṁ tvativimaladhiyo muktivanto munīndrāḥ||9||

bramendruḥ kāmadevo viyadamaragururbhauvaneśī ca bījaṁ
  tāvadvarṇasvarūpairghaṭitatanulatāṁ tvāṁ prapanno'smi mātaḥ|
viṣṇubrahmeśamūrti sthita mukuṭamaṇi prollasatpādapadmāṁ
  yogīndrairdhyeyapādāṁburuha karanakha dhyota vidhyotitāṁ tvām|| 10||

induḥ kāmaḥ sureśā viyadanala lasadvāmanetrārdhacandrair
  yuktaṁ yadbījametattadapi tava vapuḥ saccidānandarūpam|
bālā tvaṁ bhairavī tvaṁ tribhuvanajananī nīlavarṇā tvam gaurī
  tvam ca kālī sakalamanumayī tvam mahāmokṣadātrī|| 11||

sauḥ kāro bījarāja stribhuvana jananī śaktirādhyā tvameva
  tvaddhyuktaḥ śambhureṣaḥ prabhavati calituṁ tvāṁ vinā jāḍyavān saḥ|
brahmā viṣṇu kapardī janani tava kṛpāleśa mātrāccarīraṁ
  gṛhṇantaḥ sṛṣṭirakṣā pralayamabhilasaccakrire tvadvaśasthāḥ||12||

aiṁ bījaṁ vāgbhavākhyaṁ tvamiha jaḍamiti dhvānta cakṣuḥ prakāśān
  mātaḥ kāruṇyadhārā mamṛtavalidhṛśā paśya māṁ dīnanāthe|
mohyante mohitāste tava janani mahā māyayā baddhacittāḥ
  kāruṇyaṁ prārthayante tava padayugale jñānavanto munīndrāḥ|| 13||

klīṁkāro bījarūpā tava janani manuśleṣa madhya praveśāt 
  sākṣād brahmasvarūpī madanatanulatā brahmaṇo mohakartrī|
sājñānaṁ smeravaktrāmbuja kuharalasatsuptapīyūṣadhārā
  vedāścatvāra ete tuhinagirisute prāptamīnendrarūpe|| 14||

hrīṁkāroṅkārarūpā tvamiha śaśimukhī hrīṁ svarūpā tvameva
  tvaṁ kṣāntistvaṁ ca kāntirharihara kamalodbhūtarūpātvameva
tvaṁsiddhistvaṁ ca ṛddhiḥ smararipumanasastvañca sammohayantī
  vidhyā tvaṁ muktiheturbhavajaladhijanurduḥkhahantrī tvameva|| 15||

śrīṁbīje śrīsvarūpe madhuripumanaso madhya madhyāsitā tvaṁ
  mātastvad dṛṣṭileśā damarapatirasau prāptavān buddhimeṣām|
ityevaṁ ṣoḍaśārṇāṁ sarasamanudinaṁ svargamokṣaikahetuṁ 
  siddhīraṣṭau labhante ya iha manuvaraṁ śreṣṭhamenaṁ bhajante|| 16||

pūjayitvā vidhānena mahātripurasundarīṁ|
imaṁstavaṁ paṭhitvātu devī sāyujyamāpnuyāt||

மந்த்ரமாத்ருகா புஷ்பமாலா ஸ்தவ: 

கல்லோலோல்லஸிதாம்ருதாம்தி லஹரீ மத்யே விராஜன்மணி
   த்வீபே கல்பக வாடிகா பரிவ்ருதே காதம்பவாட்யுஜ்ஜ்வலே|
ரத்னஸ்தம்ப ஸஹஸ்ர நிர்மித ஸபாமத்யே விமானோத்தமே
   சிந்தாரத்ன வினிர்மிதம் ஜனனி தே ஸிம்ஹாஸனம் பாவயே||௧||

ஏணாம்கானல பானுமண்டல லஸச்ச்ரீசக்ர மத்யே ஸ்திதாம்
  பாலார்கத்துதி பாஸுராம் கரதலை: பாஶாம்குஶௌ பிப்ரதீம்|
சாபம் பாணமபி ப்ரஸன்னவதனாம் கௌஸும்ப வஸ்த்ரான்விதாம்
  தாம் த்வாம் சந்த்ரகலாவதம்ஸ மகுடாம் சாருஸ்மிதாம் பாவயே|| ௨||

ஈஶானாதிபதம் ஶிவைக பலகம் ரத்னாஸனம் தே ஶுபம்
  பாத்த்யம் கும்கும சந்தனாதி பரிதைரர்க்யம் ஸரத்னாக்ஷதை:|
ஶுத்தை ராசமனீயகம் தவஜலைர்பக்த்யா மாயா கல்பிதம்|
  காருண்யாம்ருத வாரிதே ததகிலம் ஸந்துஷ்டயே கல்பதாம்|| ௩||

லக்ஷ்யே உயோகிஜனஸ்ய ரக்ஷிதஜகஜ்ஜலே விஶாலேக்ஷணே
  ப்ராலேயாம்பு படீர கும்கும லஸத் கர்பூர மிஶ்ரோதகை:|
கோக்ஷீரைரபி நாலிகேர ஸலிலை: ஶுத்தோதகைர்மந்த்ரிதை:
  ஸ்னானம் தேவி தியாமயைததகிலம் ஸந்துஷ்டயே கல்பதாம்|| ௪||

ஹ்ரீம்காரம்கித மந்த்ரலக்ஷிததனோ ஹேமாசலாத் ஸம்சிதை:
   ரத்னைருஜ்ஜ்வல முத்தரீய ஸஹிதம் கௌஸும்பவர்ணாஶுகம்|
முக்தாஸந்ததி யஜ்ஞஸூத்ர மமலம் ஸௌவர்ண தந்தூத்பவம்
  தத்தம் தேவி தியா மயைத தகிலம் ஸந்துஷ்டயே கல்பதாம்|| ௫||

ஹம்ஸைரப்யதிலோபனீயகமனே ஹாராவலீ முஜ்ஜ்வலாம்
  ஹிந்தோலத்த்யுதி ஹீரபூரிததரே ஹேமாங்கதே கங்கணே
மஞ்ஜீரௌ மணிகுண்டலே மகுடமப்யர்தேந்து சூடாமணிம்
  நாஸா மௌக்திக மங்கலீய கடகௌ காஞ்சீமபி ஸ்வீகுரு||௬||

ஸர்வாங்கே தனஸார கும்கும கன ஶ்ரீகந்த பங்காங்கிதம்
  கஸ்தூரி திலகங்ச பாலபலகே கோரோசனாபத்ரகம்||
கண்டாதர்ஶன மண்டலே நயனயோர்திவ்யாஞ்ஜனம் தே&ஞ்சிதம்
  கண்டாப்ஜே ம்ருகனாபிபங்கமமலம் த்வத்ப்ரீதயே கல்பதாம்||௭||

கல்ஹாரோத்பல மல்லிகா மருவகை: ஸௌவர்ணபங்கேருஹை: 
  ஜாதீசம்பக மாலதீ வகுலகைர்மந்தார குந்தாதிபி:|
கேதக்யா கரவீரகைர்பஹுவிதை: க்ல்ருப்தா: ஸ்ரஜோ மாலிகா:
  ஸம்கல்பேன ஸமர்பயாமி வரதே ஸந்துஷ்டயே க்ருஹ்யதாம்|| ௮||

ஹந்தாரம் மதனஸ்ய நந்தயஸி யைரங்கைரனங்கோஜ்ஜ்வலை:
  யைர்ப்ருங்காவலி நீலகுந்தலபரைர்பத்னாஸி தஸ்யாஶயம்|
தானீமானி தவாம்ப கோமலதராண்யாமோத லீலாக்ருஹா-
 ண்யாமோதாய தஶாங்க குக்குலு க்ருதைர்தூபைரஹம் தூபயே|| ௯||

லக்ஷ்மீ முஜ்ஜ்வலயாமி ரத்ன நிவஹோத்பாஸ்வத்தரே மந்திரே
  மாலாரூப வலம்பிதைர்மணிமய ஸ்தம்பேஷு ஸம்பாவிதை:|
சித்ரைர்ஹாடக புத்ரிகா கரத்ருதைர்கவ்யைர்த்ர்‌இதைர்வர்திதைர்
 திவ்யைர்தீபகணைர்தியா கிரிஸுதே ஸந்துஷ்டயே கல்பதாம்|| ௧0||

ஹ்ரீம்காரேஶ்வரி தப்தஹாடக க்ருதை: ஸ்தாலீ ஸஹஸ்ரைர்ப்ருதம்
  திவ்யன்னம் க்ருதஸூப ஶாக பரிதம் சித்ரான்னபேதம் ததா
துக்தான்னம் மதுஶர்கரா ததியுதே மாணிக்ய பாத்ரே ஸ்திரம்
  மாஷாபூப ஸஹஸ்ரமம்ப ஸபலம் நைவேத்ய மாவேதயே|| ௧௧||

ஸச்சாயைர்வரகேதகீதலருசா தாம்பூலவல்லீதலை:
  பூகைர்பூரிகுனை: ஸுகந்திமதுரை: கர்பூரகண்டோஜ்ஜ்வலை:|
முக்தாசூர்ண விராஜிதைர்பஹுவிதைர்வக்த்ராம்புஜாமோதிதை:
  பூர்ணாரத்ன கலாசிகா தவமுதே ந்யஸ்தாபுரஸ்தாதுமே|| ௧௨||

கன்யாபி: கமனீய காந்திபிரலம்காராமலாராத்ரிகா
  பாத்ரே மௌக்திக சித்ர பங்க்தி விலஸத் கர்பூரதீபாலிபி:|
தத்தத்தாலம்ருதங்ககீதஸஹிதம் ந்ருத்யத் பதாம்போருஹம்
  மந்த்ராராதன பூர்வகம் ஸுனிஹிதம் நீராஜனம் க்ருஹ்யதாம்|| ௧௩||

லக்ஷ்மீர்மௌக்திக லக்ஷகல்பித ஸிதச்சத்ரம் து தத்தே ரஸாத்
  இந்த்ராணீ ச ரதிஶ்ச சாமரவரே கத்தே ஸ்வயம் பாரதீ|
வீணா மேண விலோசனா: ஸுமனஸாம் ந்ருத்யந்தி தத்ராகவாத்
  பாவைராங்கிக ஸாத்விகை: ஸ்புடரஸம் மாதஸ்ததாலோக்யதாம்|| ௧௪||

ஹ்ரீம்கார த்ரயஸம்புடேன மனுனோபாஸ்யே த்ரயீ மௌலிபி:
  வாக்யேர்லக்ஷ்யதனோ தவ ஸ்துதிவிதௌ கோ வா க்ஷமேதாம்பிகே|
ஸல்லாபா: ஸ்துதய ப்ரதக்ஷிண ஶதம் ஸஞ்சார ஏவாஸ்து தே
  ஸம்வேஶோ மனஸ: ஸமாதிரகிலம் த்வத்ப்ரீதயே கல்பதாம்|| ௧௫||

ஶ்ரீமந்த்ராக்ஷர மாலயா கிரிஸுதாம் ய: பூஜயேச்சேதஸா
  ஸந்த்யாஸு ப்ரதிவாஸரம் ஸுனியதஸ்தஸ்யாமலம் ஸ்யான்மன:|
சித்தம்போருஹ மண்டபே கிரிஸுதா ந்ருத்தம் விதத்தே ரஸாத்
  வாணீ வக்த்ரஸரோருஹே ஜலதிஜா கேஹே ஜகன்மங்கலா|| ௧௬||

இதி கிரிவரபுத்ரீ பாதராஜீவபூஷா
  புவன மமலயந்தீ ஸூக்தி ஸௌரப்ய ஸாரை:|
ஶிவபத மகரந்தஸ்யந்தினீயம் நிபத்தா
  மதயது கவிப்ருங்கான் மாத்ருகா புஷ்பமாலா|| ௧௭||

ஶ்ரீ ராஜ ராஜேஶ்வரீ தர்பண ஸ்தோத்ரம்

கல்யாணாயுத பூர்ணபிம்பவதனாம் பூர்ணேஶ்வரா நந்தினீம்
  பூர்ணாபூர்ண பராபரேஶமஹிஷீம் பூர்ணாம்ருதாஸ்வாதினீம்|
ஸம்பூர்ணாம் பரமோத்தமாம்ருதகலாம் வித்யாவதீம் பாரதீம்
  ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்||௧||

ஏகானேகமனேககார்ய விவிதாம் கார்யைகசித்ரூபிணீம்
  சைதன்யாத்மக ஏகசக்ரரசிதாம் சக்ராண்க ஏகாகினீம்|
பாவாபாவ விவர்த்தினீம் பயஹராம் ஸத்பக்திசிந்தாமணீம்
   ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்||௨||

ஏஶாதீஶ்வர யோகவ்ருந்தவிதிதாம் ஸானந்த பூதாம் பராம்
   பஶ்யந்தீம் தனுமத்யமாம் விலஸிதீம் ஶ்ரீவிஷ்ணுஸத்ரூபிணீம்|
ஆத்மானாத்மவிசாரிணீம் த்ரிவரணாம் வித்யாத்ரிபீஜத்ரயீம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௩||

லக்ஷ்மீலக்ஷ நிரீக்ஷணாம் நிருபமாம் ருத்ராக்ஷமாலாதராம்
   ஸாக்ஷாத்கரண தக்ஷவம்ஶகலிதாம் தீர்காக்ஷதீர்கேஶ்வரீம்|
பத்ராம் பத்ர வரப்ரதாம் பகவதீம் பத்ரேஶ்வரீம் முத்ரிணீம் 
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௪||

ஹ்ரிம்பீஜான்விதனாத பிந்து பரிதாம் ஓஉம்காரனாதாத்மிகாம்
   ப்ரஹ்மானந்த கனோதரீம் குணவதீம் ஜ்ஞானேஶ்வரீம் ஜ்ஞானதாம்|
இச்சாஜ்ஞானக்ரியாவதீம் ஜிதவலீம் கந்தர்வஸம்ஸேவிதாம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௫||

ஹர்ஷோன்மத்த ஸுவர்ண பாத்ர பரிதாம் பானோன்னதாகூர்ணிதாம்
   ஹுங்காரப்ரிய ஶப்த ப்ரஹ்மனிரதாம் ஸாரகதோல்லாஸினீம்|
ஸாராஸார விசார வாதசதுராம் வர்ணாஶ்ரமாகாரிணீம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௬||

ஸர்வஜ்ஞானகலாவதீம் ஸகருணாம் ஸ்வம்னாதினீம் மாதினீம்
   ஸர்வாந்தர்கதஶாலினீம் ஶிவதனும் ஸந்தீபினீம் தீபினீம்|
ஸம்யோக ப்ரியரூபிணீம் ப்ரியவதீம் ப்ரீதிப்ரதாபோன்னதாம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௭||

கர்மாகர்மவிவர்ஜிதாம் குலவதீம் கர்மப்ரதாம் கௌலினீம்
   காருண்யாம் தனுபுத்திகர்மவிரதாம் ஸிந்துப்ரியாம் ஶாலினீம்|
பஞ்சப்ரஹ்மஸனாதனாந்தரகதாம் ஜ்ஞேயாங்கயோகான்விதாம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௮||

ஹஸ்தே கும்பனிபாம் பயோக்தபரிதாம் பீனோன்னதாம் நௌமிதாம்
   ஹீராட்யாபரணாம் ஸுரேந்த்ரவனிதாம் ஶ்ருங்காரபீடாலயாம்|
யோக்யாகாரிணீமுத்ரிதகராம் நித்யாமவர்ணாத்மிகாம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௯||

லக்ஷ்மீலக்ஷண பூர்ண பக்திவரதாம் லீலாவினோதஸ்திதாம்
   லக்ஷ்ம்யா ரஞ்ஜிதபாதபத்மயுகலாம் ப்ரஹ்மேந்த்ரஸம்ஸேவிதாம்|
லோகாலோகித லோககாமஜனனீம் லோகப்ரியாஞ்கஸ்திதாம்
   ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௧0||

ஹ்ரீம்காரிம் ஸுதராம் கரப்ரியதனும் ஶ்ரீயோகபீடேஶ்வரீம்
   மாங்கல்யாயதபஞ்கஜாபனயனாம் மாங்கல்ய ஸித்திப்ரதாம்|
தாருண்யாந்தபஸார்சிதாந்தருணிகாம் தந்த்ர்யர்சிதாம் நர்தினீம்
   ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௧௧||

ஸர்வேஶாங்கவிஹாரிணீம் ஸகருணாம் ஸர்வேஶ்வரீம் ஸர்வகாம்
    ஸத்யாம் ஸர்வமயீம் ஸஹஸ்ரதலனாம் ஸப்தார்ணவோபஸ்திதாம்|
ஸம்ஸர்காதிவிவர்ஜினீம் ஶுபகரீம் பாலார்ககோடிப்ரபாம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௧௨||

காதிக்ஷாந்த ஸுவர்ண பிந்துஸுதனும் ஸ்வர்ணாதி ஸிம்ஹாஸினீம்
   நானாவர்ண விசித்ர சித்ரசரிதாம் சாதுர்ய சிந்தாமணிம்|
சித்தனந்த விதாயினீம் ஸுவிபுலாம் ரூடத்ரயாம் ஶேஷிகாம்
   ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௧௩||

லக்ஷ்மீஶாதி விதீந்த்ரசந்த்ர முகுடாம் ஷஷ்டாங்க பீடார்சிதாம்
   ஸூர்யேந்த்ராக்னிமயைகபீடனிலயாம் த்ரிஸ்தாம் த்ரிகோணேஶ்வரீம்
கோஶ்ரீகுர்விணீகர்விதாம் ககனகாம் கங்காகணேஶப்ரியாம்
    ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௧௪||

ஹ்ரீம்கூடத்ரயரூபிணீம் ஸமயகாம் ஸம்ஸாரிணீம் ஹம்ஸினீம்
  வாமாசாரபராயணாம் ஸுகுலஜாம் பீஜாவதீம் முத்ரிகாம்|
காமாக்ஷீம் கருணார்த்ர சித்ர சரிதாம் ஶ்ரீமந்த்ர மூர்த்யாத்மிகாம்
   ஶ்ரீசக்ரப்ரிய பிந்துதர்பணபராம் ஶ்ரீராஜராஜேஶ்வரீம்|| ௧௫||

த்ரிபுரஸுந்தரீஸான்னித்ய ஸ்தவ:

கல்பபானு ஸமான பாஸ்வரதாம லோசன கோசரம்
  கிம் கிமித்யதி விஸ்மிதே மயி பஶ்யதீஹ ஸமாகதாம்|
காலகுந்தல பாரனிர்ஜித நீலமேக குலாம் புர-
  ஶ்சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧||

ஏகதந்த ஷடனனாதி பிராவ்ருதாம் ஜகதீஶ்வரீம்
  ஏனஸாம் பரிபந்தினீமஹம் ஏகபக்திமதர்சிதாம்|
ஏகஹீனஶதேஷு ஜன்மஸு ஸம்சிதாத்ஸுக்ருதாதிமாம்
  சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௨||

ஈத்ருஶீதி ச வேதகுந்தல வாக்பிரப்ய நிரூபிதாம்
  ஈஶபங்க ஜனாபஸ்ருஷ்டி க்ருதாதிவந்த்ய பதாம்புஜாம்|
ஈக்ஷணாந்தனிரீக்ஷணேன மதிஷ்டதாம் புரதோ&துனா
  சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௩||

லக்ஷணோஜ்ஜ்வல ஹார ஶோபிபயோதரத்வயகைதவா -
  ல்லீலயைவ தயாரஸ ஸ்ரவதுஜ்ஜ்வலத்கல ஶான்விதாம்|
லாக்ஷயாங்கித பாதபாதிமிலிந்தஸந்ததிமக்ரத -
  ஶ்சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௪||

ஹ்ரீமிதி ப்ரதிவாஸரம் ஜபஸுஸ்திரோ&ஹமுதாரயா
  யோகிமார்கனிரூடயைக்ய ஸுபாவனாம் கதயா தியா|
வத்ஸ ஹர்ஷமவாப்தவத்யஹமித்யுதாரகிரம் புர -
  ஶ்சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௫||

ஹம்ஸவ்ருந்தமலக்த காருண பாதபங்கஜ நூபுர -
  க்காணமோஹிதமாதராதனுதாவிதம் ம்ருது ஶ்ருண்வதீம்|
ஹம்ஸமன்னமஹார்த தத்வமயீம் புரோ மம பாக்யத -
  ஶ்சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௬||

ஸங்கதம் ஜலமப்ரவ்ருந்த ஸமுத்பவம் தரணீதரா -
   த்தாரயா வஹதஞ்ஜஸா ப்ரமமாப்ய ஸைகதனிர்கதாம்|
ஏவமாதி மஹேந்த்ர ஜால ஸுகோவிதாம் புரதோ&துனா
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௭||

கம்புஸுந்தர கந்தராம் கசவ்ருந்த நிர்ஜித வாரிதாம்
   கண்ட தேஶ லஸத்ஸுமங்கல ஹேம ஸூத்ர விராஜிதாம்|
காதிமன்னம் உபாஸதாம் ஸகலேஷ்டதாம் மம ஸன்னிதௌ
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௮||

ஹஸ்தபத்ம லஸத்த்ரிகண்ட ஸுமுத்ரிகாமஹமத்ரிஜாம்
   ஹஸ்திக்ருத்தி பரீத கார்முக வல்லரீஸமசில்லிகாம்|
ஹர்யஜஸ்துத வைபவாம் பவகாமினீம் மம பாக்யத-
   ஶ்சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௯||

லக்ஷணோல்லஸதங்ககாந்தி ஜரீனிராக்ருதவித்த்யுதம்
   லாஸ்யலோல ஸுவர்ணகுண்டல மண்டிதாம் ஜகதம்பிகாம்|
லீலயாகில ஸ்ருஷ்டி பாலன கர்ஷணாதி விதன்வதீம்
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧0||

ஹ்ரீமிதி த்ரிபுராமனு ஸ்திரசேதஸா பஹுதார்சிதாம்
   ஹாதிமன்ன மஹாம்புஜாத விராஜமான ஸுஹம்ஸிகாம்|
ஹேமகும்ப கனஸ்தனாஞ்சல லோல மௌக்திக பூஷணாம்
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧௧||

ஸர்வலோக நமஸ்க்ருதாம் ஜிதஶர்வரீரமணானனாம்
   ஶர்வதேவ மன: ப்ரியாம் நவயௌவனோன்மதகர்சிதாம்|
ஸர்வமங்கல விக்ரஹாம் மம பூர்வஜன்ம தபோபலா-
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧௨||

கந்தமூலபலாஶிபிர்பஹு யோகிபிஶ்ச கவேஷிதாம்
   குந்தகுங்பலதந்த பங்க்தி விராஜிதாம் அபராஜிதாம்|
கந்தமாகமவீருதாம் ஸுரஸுந்தரீபிரிஹாகதாம்
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧௩||

லத்ரயாங்கிதமன்னராட்ஸமலங்க்ருதாம் ஜகதம்பிகாம்
   லோலனீல ஸுகுந்தலாவலி நிர்ஜிதாலி கதம்பகாம்|
லோபமோஹ விதாரிணீம் கருணாமயீம் அருணாம் ஶிவாம்
  சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧௪||

ஹ்ரீம்பதாக்ய மஹாமனோரதி தேவதாம் புவனேஶ்வரீம்
  ஹ்ருத்ஸரோஜ நிவாஸினீம் ஹரவல்லபாம் பஹுரூபினீம்|
ஹார குண்டல நூபுராதி பிரன்விதாம் புரதோ&துனா
  சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧௫||

ஶ்ரீம் ஸுபஞ்சதஶாக்ஷரீமபி ஷோடஶாக்ஷரரூபிணீம்
   ஶ்ரீஸுதார்ணவ மத்ய ஶோபி ஸரோஜ கானன சாரிணீம்|
ஶ்ரீ குஹஸ்துத வைபவாம் பரதேவதாம் மம ஸன்னிதௌ
   சக்ரராஜ நிவாஸினீம் த்ரிபுரேஶ்வரீமவலோகயே|| ௧௬||

கல்யாணவ்ருஷ்டி ஸ்தவ:

கல்யாணவ்ருஷ்டிபிரிவாம்ருதபூரிதாபி-
  ர்லக்ஷ்மீஸ்வயம்வரணமங்கலதீபிகாபி: |
ஸேவாபிரம்ப தவ பாதஸரோஜமூலே 
  நாகாரி கிம் மனஸி பாக்யவதாம் ஜனானாம் || ௧

ஏதாவதேவ ஜனனி ஸ்ப்ருஹணீயமாஸ்தே 
  த்வத்வந்தனேஷு ஸலிலஸ்தகிதே ச நேத்ரே |
ஸான்னித்யமுத்யதருணாயுதஸோதரஸ்ய 
  த்வத்விக்ரஹஸ்ய பரயா ஸுதயாப்லுதஸ்ய || ௨

ஈஶத்வனாமகலுஷா: கதி வா ந ஸந்தி
  ப்ரஹ்மாதய: ப்ரைபவம் ப்ரலயாபிபூதா: |
ஏக: ஸ ஏவ ஜனனி ஸ்திரஸித்திராஸ்தே 
  ய: பாதயோஸ்தவ ஸக்ருத்ப்ரணதிம் கரோதி || ௩

லப்த்வா ஸக்ருத் த்ரிபுரஸுதரி தாவகீனம் 
  காருண்யகந்தலிதகாந்திபரம் கடாக்ஷம் |
கந்தர்பகோடிஸுபகாஸ்த்வயி பக்திபாஜ:
  ஸம்மோஹயந்தி தருணீர்புவனத்ரயே&பி || ௪

ஹ்ரீங்காரமேவ தவ நாம க்ருஹாந்தி வேதா 
  மாதஸ்த்ரிகோணனிலயே த்ரிபுரே த்ரினேத்ரே |
த்வத்ஸம்ஸ்ம்ருதௌ யமபடாபிபவம் விஹாய
  தீவ்யந்தி நந்தனவனே ஸஹ லோகபாலை: || ௫

ஹந்து: புராமதிகலம் பரிபீயமான: 
  க்ரூர: கதம் ந பவிதா கரலஸ்ய வேக: |
னாஶவாஸனாய யதி மாதரிதம் தவார்தம்
  தேஹஸ்ய ஶஶ்வதம்ருதாப்லுதஶீதலஸ்ய || ௬

ஸர்வஜ்ஞதாம் ஸதஸி வாக்படுதாம் ப்ரஸூதே 
  தேவி த்வதங்க்ரிஸரஸீருஹயோ: ப்ரணாம: |
கிம் ச ஸ்புரன்மகுடமுஜ்ஜ்வலமாதபத்ரம்
  த்வே சாமரே ச மஹதீம் வஸுதாம் ததாதி || ௭

கல்பத்ருமைரபிமதப்ரதிபாதனேஷு
  காருண்யவாரிதிபிரம்ப பவத்கடாக்ஷை: |
ஆலோக்ய த்ரிபுரஸுந்தரி மாமனாதம்
  த்வய்யேவ பக்திபரிதம் த்வயி பத்தத்ருஷ்ணம் || ௮

ஹந்தேதரேஷ்வபி மனாம்ஸி நிதாய சான்யே 
  பக்திம் வஹந்தி கில பாமரதைவதேஷு |
த்வாமேவ தேவி மனஸா ஸமனுஸ்மராமி
  த்வாமேவ நௌமி ஶரணம் ஜனனி த்வமேவ || ௯

லக்ஷ்யேஷு ஸத்ஸ்வபி கடாக்ஷனிரீக்ஷணானா-
 மாலோகய த்ரிபுரஸுந்தரி மாம் கதாசித் |
னூனம் மயா து ஸத்ருஶ: கருணைகபாத்ரம்
  ஜாதோ ஜனிஷ்யதி ஜனோ ந ச ஜாயதே வா || ௧0

ஹ்ரீம் ஹ்ரீம் மிதி ப்ரதிதினம் ஜபதாம் தவாக்யாம்
  கிம் நாம துர்லபமிஹ த்ரிபுராதிவாஸே |
மாலாகிரீடமதவாரணமானனீயா 
  தான்ஸேவதே வஸுமதீ ஸ்வயமேவ லக்ஷ்மீ: || ௧௧

ஸம்பத்கராணி ஸகலேந்த்ரியனந்தனானி 
  ஸாம்ராஜ்யதானனிரதானி ஸரோருஹாக்ஷி |
த்வத்வந்தனானி துரிதாஹரணோத்யதானி 
  மாமேவ மாதரனிஶம் கலயந்து நான்யம் || ௧௨

கல்போபஸம்ஹ்ருதிஷு கல்பிததாண்டவஸ்ய
  தேவஸ்ய கண்டபரஶோ: பரபைரவஸ்ய |
பாஶாங்குஶைக்ஷவஶராஸனபுஷ்பபாணா
  ஸா ஸாக்ஷிணீ விஜயதே தவ முர்திரேகா || ௧௩

லக்னம் ஸதா பவது மாதரிதம் தவார்தம்
  தேஜ: பரம் பஹுலகுங்குமபங்கஶோணம் |
பாஸ்வத்கிரீடமம்ருதாம்ஶுகலாவதம்ஸம்
  மத்யே த்ரிகோணனிலயம் பரமாம்ருதார்த்ரம் || ௧௪

ஹ்ரீங்காரமேவ தவ நாம ததேவ ரூபம்
  த்வன்னாம துர்லபமிஹ த்ரிபுரே க்ருணந்தி |
த்வத்தேஜஸா பரிணதம் வியதாதிபூதம்
  ஸௌக்யம் தனோதி ஸரஸீருஹஸம்பவாதே: || ௧௫

ஹ்ரீங்காரத்ரயஸம்புடேன மஹதா மந்த்ரேண ஸந்தீபிதம்
ஸ்தோத்ரம் ய: ப்ரதிவாஸரம் தவ புரோ மாதர்ஜபேன்மந்த்ரவித் |
தஸ்ய க்ஷோணிபுஜோ பவந்தி வஶகா லக்ஷ்மீஶ்சிரஸ்தாயினீ 
வாணீ நிர்மலஸூக்திபாரபரிதா ஜாகர்தி தீர்கம் வய: || ௧௬


ருத்ரயாமலே ஷோடஶீ மந்த்ரோவ்யாக்யான மகரந்தஸ்தவராஜ ஸ்தோத்ரம்

ஷோடஶீயுபாஸகானாம் -

ஓம் அஸ்ய ஶ்ரீ மஹாத்ரிபுரஸுந்தரீ மந்த்ரஸ்ய ப்ரஹ்மவித்யா: தக்ஷிணாமூர்தி ருஷி:| அவ்யக்த காயத்ரி சந்த:| ஶ்ரீ மஹாத்ரிபுரஸுந்தரீ பராபட்டரிக தேவதா||

அம் பீஜம்| ஆம் ஶக்தி:| ஸௌ: கீலகம்| 
த்ருக் பீஜம்| தஶா ஶக்தி:|
ஆனந்தம் பீஜம்| ஆனந்தவர்க: ஶக்தி:|
ஶிவோ பீஜம்| விஷ்ணு: ஶக்தி:|
காமோ பீஜம்| காமேஶ்வரீ ஶக்தி:|
புல்லிங்கம் பீஜம்| ஸ்த்ரீலிங்கம் ஶக்தி:|
காதயோ பீஜம்| ஆதயோ ஶக்தி:|
உதாத்தம் பீஜம்| அனுதாத்தம் ஶக்தி:|
பரமாத்மா க்ஷேத்ரம்|
ப்ரஹ்மபிலம் ஸ்தானம்|
விக்ருதா ஸுஷும்னா நாடீ|
ஆகஸ்த்ய கோத்ரம்|
பகவான் வஸிஷ்டோ குரு:|
தஶமுத்ரா ப்ரஹ்மோபாஸன ஸௌபாக்யம் விதிதாயாம் வினியோக:|

மூல மந்த்ர கரஷடங்கம் குர்யாத்

த்யானம்

பாலார்க மண்டலாபாஸாம் சதுர்பாஹும் த்ரிலோசனாம்|
பாஶாங்குஶஶரம்சாபம் தாரயந்தீம் ஶிவாம் பஜே||

பஞ்சபூஜா குர்யாத்

ஓம் ஶ்ரீம் பீஜே நாதபிந்துத்விதிய ஶஶிகலாகார ரூபஸ்வரூபே 
    மாதர்மே தேஹி ருத்திம் ஜஹி ஜஹி துரிதம் பாஹி மாம் தீனனாதே|
அஜ்ஞான த்வாந்தராஶிம் க்ஷபய ஸுருசிரே ப்ரோல்லஸத்பாதபத்மே
    ப்ரஹ்மேஶாத்த்யை: ஸுரேந்த்ரை: ஸுரகணனமிதே ஸம்ஸ்துதே த்வாம் நமாமி||௧||

லஜ்ஜா பீஜஸ்வரூபே த்ரிஜகதி வரதே வ்ரீடயா யா ஸ்திதேயம்
    தாம் நித்யாம் ஶம்புபக்திம் த்ரிபுவன ஜனனீம் பாலயித்ரீம் ஜகச்ச|
ஸர்வாஶானாம் நிதானே ஸகலகுணமயீம் ஸச்சிதானந்தரூபாம்
    தேஜோரூபாம் ப்ரதீப்தாம் த்ரிபுவனனமிதாம் ஜ்ஞானதாத்ரீம் நமாமி||௨||

க்லீம் பீஜே காமரூபே த்ருதகுஸும தனுர்பாண பாஶாங்குஶாம் தாம்
   வந்தே பாஸ்வத் ஸரோஜோதரனிபவபுஷாம் மோஹயந்தீம் த்ரிலோகீம்|
காஞ்சீமஞ்ஜீரஹாராம் கதமுகுடலஸத் ஸ்வர்ணமாணிக்யரத்னைர்
  பாஸ்வத் ஸிந்தூரவக்த்ராம் ஸ்தனபரனமிதாம் க்ஷீணமத்யாம் த்ரினேத்ராம்|| ௩||

ஐம் வாணீ பீஜரூபே த்ரிபுவனஜடதா த்வாந்தவித்வம்ஸினீ த்வம்
   ஶைவப்ரஹ்மஸ்வரூபா ஶ்ருதிபிரனுபதம் கீயமானாத்வமேவ|
மாதர்மே தேஹி புத்திம் மம ஸதஸிபரத்வந்த்வ ஸம்க்ஷோபகத்ரீம் 
   ஐந்த்ரீம் வாசஸ்பரே தப்யதி விவிதபதம் த்வத்பதாம்போஜமீடே||௪||

ஸௌ: ஶக்தி: கார்யமந்தே கடபட ப்ரப்ருதௌ த்ருஷ்டஹேதோ: ஸஹாயா
   மாயா காசின்மஹதத்த்வ ப்ரப்ருதி பரிணதா மூலபூதாத்வமேவ|
கேசித்பாஹ்யப்ரபஞ்சா மணினிவஹதனௌ தந்த்ரபூதாத்வமேவ
   வித்யா ஜன்மாதிப்ருந்தம் க்ஷபயதி ஜகதாம் மேனிரே ஶுத்தபாவா:|| ௫||

ஓம் மாதஸ்தே நமஸ்தே ஶ்ருதி க்ரதிதகுரு த்ரயக்ஷர ப்ரஹ்மரூபே
  மித்யாமோஹாந்தகாரே பதித மனுதினம் பாஹிமாம் பக்திஹீனம்|
மோஹக்ரோதப்ரலோப ப்ரமத மதசயை: ஶத்ருபி: பீட்யதே&ஸௌ
  பத்னீ புத்ராதிப்ருத்யைர்னத விவிதஜனை: ஶ்ருங்கலாபிர்னிபத்த:|| ௬||

ஹ்ரீம்காரே ஹ்ரீம்ஸ்வரூபே மம தஹ துரிதம் வ்யாதி தாரித்ரய பீஜ
  மாதஸ்த்வத்பாதபத்ம த்விதய பரிஸரே ப்ரார்தயே பக்திலேஶம்|
த்வம் வாணீ த்வம் ச லக்ஷ்மீஸ்த்வமஸி கிரிஸுதா ப்ரஹ்ம விஷ்ணுஸ்மராரே
  ஶ்சித்தம் நித்யம் ஶரண்யம் க்ருதமிஹ ஜனனி த்வத்கடாக்ஷைகப்ருந்தை:|| ௭||

ஶ்ரீம்காரே ஶ்ரீஸ்வரூபே விதர மயி தனம் தான்யஹஸ்த்யஶ்வயுக்தம்
   ஸ்வர்ணம் மாணிக்யரத்னாத்யபிலஷிதயுதம் த்வத்பதார்சாஸுயோக்யம்|
வித்யாம் த்வம் தேஹி மோக்ஷம் பவபயதஹனே தேவி தந்தஹ்யமானே
   யோகேந்த்ரை: ஸேவ்யமானா ஹத கலுஷசயைர்மோக்ஷமன்வேஷயத்பி:|| ௮||

காமோ யோனிஶ்சதுர்த்: ஸ்வரத்ரிதஶபதிர்பௌவனேஶீ ச பீஜம் 
  தாவத்வர்ணாவலீ த்வம் நதஜனவரதே பக்திமீஹே ஶரண்யே|
த்வத்பாதாம்போஜ யுக்மம் ஹ்ருதயஸரஸிஜே ஸன்னிதாயைகசித்தே 
  த்யாத்வா தத்கர்மபந்தம் த்வதிவிமலதியோ முக்திவந்தோ முனீந்த்ரா:||௯||

ப்ரமேந்த்ரு: காமதேவோ வியதமரகுருர்பௌவனேஶீ ச பீஜம்
  தாவத்வர்ணஸ்வரூபைர்கடிததனுலதாம் த்வாம் ப்ரபன்னோ&ஸ்மி மாத:|
விஷ்ணுப்ரஹ்மேஶமூர்தி ஸ்தித முகுடமணி ப்ரோல்லஸத்பாதபத்மாம்
  யோகீந்த்ரைர்த்யேயபாதாம்புருஹ கரனக த்யோத வித்யோதிதாம் த்வாம்|| ௧0||

இந்து: காம: ஸுரேஶா வியதனல லஸத்வாமனேத்ரார்தசந்த்ரைர்
  யுக்தம் யத்பீஜமேதத்ததபி தவ வபு: ஸச்சிதானந்தரூபம்|
பாலா த்வம் பைரவீ த்வம் த்ரிபுவனஜனனீ நீலவர்ணா த்வம் கௌரீ
  த்வம் ச காலீ ஸகலமனுமயீ த்வம் மஹாமோக்ஷதாத்ரீ|| ௧௧||

ஸௌ: காரோ பீஜராஜ ஸ்த்ரிபுவன ஜனனீ ஶக்திராத்யா த்வமேவ
  த்வத்த்யுக்த: ஶம்புரேஷ: ப்ரபவதி சலிதும் த்வாம் வினா ஜாட்யவான் ஸ:|
ப்ரஹ்மா விஷ்ணு கபர்தீ ஜனனி தவ க்ருபாலேஶ மாத்ராச்சரீரம்
  க்ருஹ்ணந்த: ஸ்ருஷ்டிரக்ஷா ப்ரலயமபிலஸச்சக்ரிரே த்வத்வஶஸ்தா:||௧௨||

ஐம் பீஜம் வாக்பவாக்யம் த்வமிஹ ஜடமிதி த்வாந்த சக்ஷு: ப்ரகாஶான்
  மாத: காருண்யதாரா மம்ருதவலித்ருஶா பஶ்ய மாம் தீனனாதே|
மோஹ்யந்தே மோஹிதாஸ்தே தவ ஜனனி மஹா மாயயா பத்தசித்தா:
  காருண்யம் ப்ரார்தயந்தே தவ பதயுகலே ஜ்ஞானவந்தோ முனீந்த்ரா:|| ௧௩||

க்லீம்காரோ பீஜரூபா தவ ஜனனி மனுஶ்லேஷ மத்ய ப்ரவேஶாத் 
  ஸாக்ஷாத் ப்ரஹ்மஸ்வரூபீ மதனதனுலதா ப்ரஹ்மணோ மோஹகர்த்ரீ|
ஸாஜ்ஞானம் ஸ்மேரவக்த்ராம்புஜ குஹரலஸத்ஸுப்தபீயூஷதாரா
  வேதாஶ்சத்வார ஏதே துஹினகிரிஸுதே ப்ராப்தமீனேந்த்ரரூபே|| ௧௪||

ஹ்ரீம்காரோங்காரரூபா த்வமிஹ ஶஶிமுகீ ஹ்ரீம் ஸ்வரூபா த்வமேவ
  த்வம் க்ஷாந்திஸ்த்வம் ச காந்திர்ஹரிஹர கமலோத்பூதரூபாத்வமேவ
த்வம்ஸித்திஸ்த்வம் ச ருத்தி: ஸ்மரரிபுமனஸஸ்த்வஞ்ச ஸம்மோஹயந்தீ
  வித்யா த்வம் முக்திஹேதுர்பவஜலதிஜனுர்து:கஹந்த்ரீ த்வமேவ|| ௧௫||

ஶ்ரீம்பீஜே ஶ்ரீஸ்வரூபே மதுரிபுமனஸோ மத்ய மத்யாஸிதா த்வம்
  மாதஸ்த்வத் த்ருஷ்டிலேஶா தமரபதிரஸௌ ப்ராப்தவான் புத்திமேஷாம்|
இத்யேவம் ஷோடஶார்ணாம் ஸரஸமனுதினம் ஸ்வர்கமோக்ஷைகஹேதும் 
  ஸித்தீரஷ்டௌ லபந்தே ய இஹ மனுவரம் ஶ்ரேஷ்டமேனம் பஜந்தே|| ௧௬||

பூஜயித்வா விதானேன மஹாத்ரிபுரஸுந்தரீம்|
இமம்ஸ்தவம் படித்வாது தேவீ ஸாயுஜ்யமாப்னுயாத்||

Author: purna_admin

Leave a Reply

Your email address will not be published. Required fields are marked *