सदाशिव कृत गणॆशाष्टकम्
अस्य श्री गणपति स्तॊत्रमालामहामन्त्रस्य ।
श्री सदाशिव ऋषिः । उष्णिक् छन्दः । श्री गणपतिर्दॆवता ।
श्री गणपति प्रसादसिद्ध्यर्थॆ जपॆ विनियॊगः ।
ध्यानम्
चतुर्भुजं रक्ततनुं त्रिणॆत्रं पाशाङ्कुशौ मॊदकपात्रदन्तौ ।
करैर्दधानां सरसीरुहस्थं गणाधिनाथं शशिचूडमीडॆ ॥
श्लॊकः
विनायकैक-भावना-समर्चना-समर्पितं
प्रमॊदकैः प्रमॊदकैः प्रमॊद-मॊद-मॊदकम् ।
यदर्पितं समर्पितं नवन्य-धान्य-निर्मितं
नखण्डितं नखण्डितं नखण्ड-मण्डनं कृतम् ॥
सजातिकृद्-विजातिकृत्-स्वनिष्ठ-भॆद-वर्जितं
निरञ्जनं च निर्गुणं निराकृतिं च निष्क्रियम् ।
सदात्मकं चिदात्मकं सुखात्मकं परं पदं
भजामि तं गजाननं स्वमाययाऽऽत्त-विग्रहम् ॥
गणाधिप त्वं अष्टमूर्तिर्-ईशसूनुर्-ईश्वरः
त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।
त्वमॆव दीक्षितः क्षितिर्निशाकरः प्रभाकरः
चराचर-प्रचार-हॆतुर्-अन्तराय-शान्तिकृत् ॥
अनॆकदं तमाल-नीलं-एकदन्तसुन्दरं
गजाननं नुमॊ गजान-नामृताब्धि-मन्दिरम् ।
समस्त वॆद वाद सत् कलाकलाप मन्दिरं
महान्तराय-दुस्तमश्शमार्कं-आश्रितॊदरम् ॥
सरत्न-हॆम-घण्टिका-निनाद-नूपुर-स्वनैः
मृदङ्ग-ताल-नाद-भॆद-साधनानु-रूपतः
धिमिद्-धिमित्-ततॊऽङ्ग-तॊङ्ग-थॆयि-थॆयि-शब्दतॊ
विनायकश्-शशाङ्क-शॆखराग्रतः प्रनृत्यति ॥
नमामि नाक-नायकैक-नायकं विनायकं
कला-कलाप-कल्पना-निदानं-आदि-पूरुषम् ।
गणॆश्वरं गुणॆश्वरं महॆश्वरात्म-सम्भवं
स्वपादमूल-सॆविनाम-पारवैभव-प्रदम् ॥
भजॆ प्रचण्ड तुन्दिलं सदन्द-शूक-भूषणं
सनन्दनादि-वन्दितं समस्त-सिद्ध-सॆवितम् ।
सुरासुरौघयॊस्-सदा जयप्रदं भयप्रदं
समस्त-विघ्न-घातिनं स्वभक्त-पक्ष-पातिनम् ॥
कराम्बुजात्त-कङ्कणः पदाब्ज-किङ्किणी-गणॊ
गणॆश्वरॊ गुणार्णवः फणीश्वराङ्ग-भूषणः ।
जगत्-त्रयान्तराय-शान्तिकार-कॊस्तु तारकॊ
भवार्ण-वादनॆक-दुर्ग्रहाच्-चिदॆक-विग्रहः ॥
***
यॊ भक्तिप्रवणः परावरगुरॊस्तॊत्रं गणॆशाष्टकं
शुद्धस्संयतचॆतसा यदि पठन्नित्यं त्रिसन्ध्यं पुमान् ।
तस्य श्रीरतुला स्वसिद्धिसहिता श्रीशारदा सारदा
स्यातां तत्परिचारिकॆ किल तदा काः कामनानां कथाः ॥




Dear Upasakabandho!
Your efforts are truly laudable. If I may say- the words in the devanagari have been hiphenated, in all probability for ease of pronouncement. But the ‘words’ are wrongly split. Hope it will be taken care in the future
Care has been taken to ensure that the wrong split was not done. That said, manual efforts are prone to errors and I am glad that you were able to catch some. Please send an email to purnanandalahari@gmail.com listing the mistakes and we will fix it right away.