बृहस्पतिरुवाच -नमो हराय देवाय महामायाय शूलिने।
तापसाय महेशाय तत्वज्ञानप्रदायिने॥ १
नमो मौञ्जाय शुभ्राय नमः कारुण्यमूर्तये।
नमो देवादि देवाय नमो वेदान्तवेदिने॥ २
नमः पराय रुद्राय सुपाराय नमो नमः।
विश्वमूर्ते महेशाय विश्वाधाराय ते नमः॥ ३
नमो भक्त भवच्छेद कारणाय अमलात्मने।
कालाय कालकालाय कालातीताय ते नमः॥ ४
जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः।
नमः पाशाण्ड भाङ्गाय नमः पाप हरायते॥ ५
नमः पर्वतराजेन्द्र कन्यकापतये नमः।
योगा नन्दाय योगाय योगिनां पतये नमः॥ ६
प्राणायाम पराणांतु प्राण रक्षाय ते नमः।
मूलाधारे प्रविष्टाय मूलदीपाय ते नमः॥ ७
नाभिकन्डे प्रविष्टाय नमः हृद्देशवर्तिने।
सच्चिदानन्द पूर्णायनमः साक्षात्परात्मने॥ ८
नमः शिवाय अद्भुतविग्रहाय ते
नमः शिवाय अद्भुतविक्रमाय ते।
नमः शिवाय अखिलनायकाय ते
नमः शिवाय अमृतहेतवे नमः॥ ९
नमः शिवाय सोमाय सुपुत्राय त्रिशूलिने।
प्रधान पुरुषेशाय सृष्टि स्तिथ्यन्त हेतवे॥ १०
सर्वज्ञाय वरेण्याय शङ्खरायाऽर्तिहारिणे।
नमो वेदान्त वेद्याय चिन्मात्राय महात्मने॥ ११
देवदेवाय देवाय नमो विश्वेश्वराय च।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्॥ १२
ऊर्द्वरेतम् विरूपाक्षं विश्वरूपं नमाम्यहम्।
विश्वं विश्वाधिकं रुद्रं विश्वमूर्तिं वृषध्वजम्॥ १३
नमामि सर्वविज्ञानं हृदयाकाश मध्यगम्।
चन्द्रः सूर्यस्तथेन्द्रशचवह्निश्चयमसंज्ञितः॥ १४
निऋतिर्वरेणोवायुर्धन्डो रुद्रसंज्ञितः।
स्थूल मूर्ति महेशस्य तया व्याप्तमिदं जगत्॥ १५
यस्य प्रसादलेशेन देवदेवात्म मागतः।
तं नमामि महेशानं सर्वज्ञम् अपराजितम्॥ १६
नमो दिग्वास सेतुभ्यम् अम्बिकापतये नमः।
उमायाः पतये तुभ्यं ईशानाय नमो नमः॥ १७
नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः।
ॐकारान्ताय सूक्ष्माय मायातीताय ते नमः॥ १८
नमो नमः कारणाकारणाय ते
नमो नमः मङ्गलमङ्गलात्मने।
नमो नमो वेदविदां मनीषीणां
उपासनीयाय नमो नमो नमः॥ १९
सूत उवाच
य इदं पठते नित्यं स्तोत्रम् भक्त्या सुसंयतः।
तस्य मुक्तिः करस्थस्यच्छंकर प्रियकारणात्॥ १
विध्यार्थी लभतेविध्यां विवाहार्थी गृहीभवेत्।
वैराग्य कामोलभते वैराग्यं भवतारकम्॥ २
तस्मद्दिने दिने यूयं इदं स्तोत्रम् समाहितः।
पठन्तु भवनाशार्थं इदं हि भवनाशनम्॥ ३




Where is the sloka? The page is blank. I clicked on Sanskrit and English Tabs but no text is displayed. Please check.
Not sure why this page is not working. Will look into this.