| ॐ श्री पूर्णानन्दनाथाय नमः । | ॐ धनुर्मासे उत्तराषाढा नक्षत्रोद्भवाय नमः । |
| ॐ पुष्य पौर्णम्यां दीक्षा गृहीताय नमः । | ॐ चिदानन्दनाथ प्रिय शिष्याय नमः । |
| ॐ शाङ्कराद्वैत निपुणाय नमः । | ॐ कुलज्येष्ठाय नमः । |
| ॐ कुलश्रेष्ठाय नमः । | ॐ कुलेश्वराय नमः । |
| ॐ कौलज्ञानाय नमः । | ॐ अनुभूतिप्रकाशकाय नमः । १० |
| ॐ अहङ्ग्रोपासन विमर्शकाय नमः । | ॐ श्रीविद्या उपासन प्रकाशकाय नमः । |
| ॐ कारुण्यसिन्धवे नमः । | ॐ दीर्घदर्शकाय नमः । |
| ॐ सहस्राक्षरी विध्या सिद्धिताय नमः । | ॐ श्री छिन्नमस्ताम्बा मन्त्र सिद्धिताय नमः । |
| ॐ कौलमार्ग तत्व निपुणाय नमः । | ॐ श्री योगानन्दनाथ प्रिय बन्धवे नमः । |
| ॐ श्री चर्यानन्दनाथ प्रिय जनकाय नमः । | ॐ मन्त्रार्थ अनुसन्धान मूर्तये नमः । २० |
| ॐ आत्मबन्धवे नमः । | ॐ ज्ञानदृष्टि प्रदर्शकाय नमः । |
| ॐ बहु शिष्य दीक्षा प्रदाय नमः । | ॐ पूर्ण ग्रन्थाचार्याय नमः । |
| ॐ श्रीविद्या सपर्या अद्वैतार्थ पूर्ण विमर्शकाय नमः । | ॐ आत्मविद्या बोधन प्रियाय नमः । |
| ॐ गुहानन्दमण्डली निर्वाहकाय नमः । | ॐ महावाक्य लक्ष्याय नमः । |
| ॐ ब्रह्मण्योपासकाय नमः । | ॐ तन्त्रज्ञानाय नमः । ३० |
| ॐ मन्त्रनिपुणाय नमः । | ॐ मन्त्रप्रयोगशास्त्र पण्डिताय नमः । |
| ॐ द्राविड भाषा कविराजाय नमः । | ॐ आचार्याय नमः । |
| ॐ वेदान्त ज्ञान प्रकाशकाय नमः । | ॐ सुन्दराय नमः । |
| ॐ महापुरुषाय नमः । | ॐ निर्मलाय नमः । |
| ॐ निर्गुणाय नमः । | ॐ नित्यानन्द मूर्तये नमः । ४० |
| ॐ तेजोमयाय नमः । | ॐ तरुणाय नमः । |
| ॐ वेङ्कटाय नमः । | ॐ वरदाय नमः । |
| ॐ सिद्धाय नमः । | ॐ भैरवाय नमः । |
| ॐ योगिनी पूजिताय नमः । | ॐ गुरुमण्डल पूजिताय नमः । |
| ॐ गुरुमण्डल प्रकाशकाय नमः । | ॐ गुरुमण्डलाय नमः । ५० |
| ॐ शिष्यप्रियाय नमः । | ॐ ज्ञानदीपाय नमः । |
| ॐ रागद्वंशिने नमः । | ॐ शान्ताय नमः । |
| ॐ योगिनी हृदयवासिने नमः । | ॐ स्थाणवे नमः । |
| ॐ लिङ्गोद्भवाय नमः । | ॐ महायोनि पूजिताय नमः । |
| ॐ योगिने नमः । | ॐ कुण्डलिनि स्वरूपाय नमः । ६० |
| ॐ महागुरवे नमः । | ॐ तत्वबोधाय नमः । |
| ॐ महायोनि अनुभवस्ताय नमः । | ॐ महालिङ्गेश्वराय नमः । |
| ॐ कारणेश्वराय नमः । | ॐ अनुष्ठान प्रियाय नमः । |
| ॐ सद्गुरवे नमः । | ॐ पञ्चमकार पूजन प्रियाय नमः । |
| ॐ तत्वशोधन प्रियाय नमः । | ॐ अमृतबिन्दवे नमः । ७० |
| ॐ सहस्रारे अमृत वर्षिताय नमः । | ॐ चिद्रूपाय नमः । |
| ॐ नित्यशुद्धाय नमः । | ॐ मुक्तिप्रदाय नमः । |
| ॐ मोक्षरूपाय नमः । | ॐ आनन्दाय नमः । |
| ॐ पूर्णामृताय नमः । | ॐ बिन्दुतर्पणाय सन्दुष्टाय नमः । |
| ॐ नित्यपारायण प्रियाय नमः । | ॐ ज्ञानभास्कराय नमः । ८० |
| ॐ कूटस्थाय नमः । | ॐ ऊर्ध्व रेतसे नमः । |
| ॐ पूर्णाम्बा प्रिय मनोहराय नमः । | ॐ गुरुसेवाप्रियाय नमः । |
| ॐ गुरुपादुका प्रियाय नमः । | ॐ गुरुतत्व अनुभवस्थाय नमः । |
| ॐ सदा गुरुस्तुति प्रियाय नमः । | ॐ गुणातीताय नमः । |
| ॐ तत्वातीताय नमः । | ॐ सदा तुरियावस्थस्थिताय नमः । ९० |
| ॐ दशमहाविद्या उपासकाय नमः । | ॐ श्री उच्छिष्ठगणेशोपासकाय नमः । |
| ॐ चैतन्यकुसुम प्रियाय नमः । | ॐ आजानुबाहवे नमः । |
| ॐ शुक्लाम्बरधराय नमः । | ॐ शान्तस्वरूपिणे नमः । |
| ॐ कन्या मासे कृष्ण पक्षे षष्ठि तिथौ श्रीपुरगम्याय नमः | ॐ विभूत्यभिषेक प्रियाय नमः । |
| ॐ सोमामृताय नमः । | ॐ अजपाप्रियाय नमः । १०० |
| ॐ परम हंसाय नमः । | ॐ तत् लक्ष्यार्थाय नमः । |
| ॐ परम गुरवे नमः । | ॐ परमेष्ठिने नमः । |
| ॐ परात्पराय नमः । | ॐ श्री आनन्दाम्बा समेत आनन्दानन्दनाथ पूज्य गुरवे नमः । |
| ॐ श्री प्रकाशाम्बा समेत प्रकाशानन्दनाथ सेवित परमगुरवे नमः । | ॐ श्री षोडशाक्षरी स्वरूप पूर्णाम्बा समेत पूर्णानन्दनाथाय नमः । १०८ |