॥ श्री महालक्ष्मी विधानम् ॥
॥ श्री महालक्ष्मी महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री महालक्ष्मी महामन्त्रस्य देवेश ऋषिः ।
गायत्री छन्दः । श्री महालक्ष्मी देवता ।
श्रीं बीजं । ह्रीं शक्तिः । क्लीं कीलकं ।
मम सर्वसौभाग्य सिद्ध्यर्थे जपे विनियोगः । (मूलेन त्रिः व्यापकं कुर्यात्)
करन्यासः
श्रां अङ्गुष्ठाभ्यां नमः ।
श्रीं तर्जनीभ्यां नमः ।
श्रूं मध्यमाभ्यां नमः ।
श्रैं अनामिकाभ्यां नमः ।
श्रौं कनिष्ठिकाभ्यां नमः ।
श्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
श्रां हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
श्रूं शिखायै वषट् ।
श्रैं कवचाय हुं ।
श्रौं नेत्रत्रयाय वौषट् ।
श्रः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
ध्यानम्
या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिगजखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
मूलमन्त्रः ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । (108 वारं)
अङ्गन्यासः
श्रां हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
श्रूं शिखायै वषट् ।
श्रैं कवचाय हुं ।
श्रौं नेत्रत्रयाय वौषट् ।
श्रः अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्विमोकः ।
ध्यानम्
या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिगजखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री महालक्ष्मी आवरण पूजा क्रमः ॥
Click to show/hide
पीठपूजा
ॐ ऐं ह्रीं श्रीं मण्डूकादि परतत्वाय नमः ।
ॐ विभूत्यै नमः ।
ॐ उन्नत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ हृष्ट्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ सन्नत्यै नमः ।
ॐ व्युष्ट्यै नमः ।
ॐ उत्कृष्ट्यै नमः ।
ॐ ऋद्ध्यै नमः ।
ॐ सर्वशक्तिकमलासनायै नमः ।
श्री महालक्ष्मी ध्यानम्
या सा पद्मासनस्ता विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मी दिव्यैर्गजेन्द्रैर्मणिगजखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मीं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ॐ जय जय जगन्माता यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । आसनं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । वस्त्राणि कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । आभरणानि कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । धूपं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । दीपं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । नैवेद्यं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्म्यै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।
अनुज्ञां आदिलक्ष्मीं देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
श्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम्
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम् (बिन्दौ)
श्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
श्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
द्वितीयावरणम् (षट्कोणे)
ओं वासुदेवाय नमः । वासुदेव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं सङ्कर्षण नमः । सङ्कर्षण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पर्द्युम्नाय नमः । प्रद्युम्न श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं अनिरुद्धाय नमः । अनिरुद्ध श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं दमकाय नमः । दमक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शलभाय नमः । शलभ श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं गुग्गुलाय नमः । गुग्गुल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कुरण्डकाय नमः । कुरण्डक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शङ्खनिधये नमः । शङ्खनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पद्मनिधये नमः । पद्मनिधि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तृतीयावरणम्
ओं बलाकायै नमः । बलाका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं विमलायै नमः । विमला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कमलायै नमः । कमला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वनमालिकायै नमः । वनमालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं विभीषिकायै नमः । विभीषिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं द्राविकायै नमः । द्राविका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शाङ्कर्यै नमः । शाङ्करी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वसुमालिकायै नमः । वसुमालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं श्रीं पुष्पदन्ताय नमः । पुष्पदन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं श्रीं सार्वभौमाय नमः । सार्वभौम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं श्रीं सुप्रतीकाय नमः । सुप्रतीक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तुरीयावरणम्
ॐ लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षां निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चमावरणम्
ॐ वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ श्रीं ह्रीं क्लीं महालक्ष्मि महालक्ष्मि एह्येहि सर्वसौभाग्यं मे देहि स्वाहा । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री महालक्ष्मी प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाव्यात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री महालक्ष्मी अष्टोत्तरशतनाम स्तोत्रं ॥ (नामावलिश्च)
Click to show/hide
देव्युवाच –
देवदेव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक ॥ 1 ॥
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ।
ईश्वर उवाच –
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ 2 ॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ 3 ॥
दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् ।
पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ 4 ॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ 5 ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः शृणुं ।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ 6 ॥
क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यास स इत्यादिः प्रकीर्तितः ॥ 7 ॥
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥
ओं प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ 8 ॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ 9 ॥
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कान्तां कामां क्षीरोधसम्भवाम् ॥ 10 ॥
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् ।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ 11 ॥
नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ 12 ॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ 13 ॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ 14 ॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ 15 ॥
विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ 16 ॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुन्धरामुदाराङ्गीं हरिणीं हेममालिनीम् ॥ 17 ॥
धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् ।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ 18 ॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ 19 ॥
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ 20 ॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ 21 ॥
फलश्रुतिः
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां
त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मिप्रसीद सततं नमतां शरण्ये ॥
त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः ।
दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ 22 ॥
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ 23 ॥
भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् ।
अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ 24 ॥
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥ 25 ॥
भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये ।
पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ 26 ॥
नामावलिः
ॐ प्रकृत्यै नमः ।
ॐ विकृत्यै नमः ।
ॐ विद्यायै नमः ।
ॐ सर्वभूतहितप्रदायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ विभूत्यै नमः ।
ॐ सुरभ्यै नमः ।
ॐ परमात्मिकायै नमः ।
ॐ वाचे नमः ।
ॐ पद्मालयायै नमः । (10)
ॐ पद्मायै नमः ।
ॐ शुचये नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ सुधायै नमः ।
ॐ धन्यायै नमः ।
ॐ हिरण्मय्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ विभावर्यै नमः । (20)
ॐ अदित्यै नमः ।
ॐ दित्यै नमः ।
ॐ दीप्तायै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुधारिण्यै नमः ।
ॐ कमलायै नमः ।
ॐ कान्तायै नमः ।
ॐ कामायै नमः ।
ॐ क्षीरोदसंभवायै नमः ।
ॐ अनुग्रहपरायै नमः । (30)
ॐ बुद्धये नमः ।
ॐ अनघायै नमः ।
ॐ हरिवल्लभायै नमः ।
ॐ अशोकायै नमः ।
ॐ अमृतायै नमः ।
ॐ दीप्तायै नमः ।
ॐ लोकशोकविनाशिन्यै नमः ।
ॐ धर्मनिलयायै नमः ।
ॐ करुणायै नमः ।
ॐ लोकमात्रे नमः । (40)
ॐ पद्मप्रियायै नमः ।
ॐ पद्महस्तायै नमः ।
ॐ पद्माक्ष्यै नमः ।
ॐ पद्मसुन्दर्यै नमः ।
ॐ पद्मोद्भवायै नमः ।
ॐ पद्ममुख्यै नमः ।
ॐ पद्मनाभप्रियायै नमः ।
ॐ रमायै नमः ।
ॐ पद्ममालाधरायै नमः ।
ॐ देव्यै नमः । (50)
ॐ पद्मिन्यै नमः ।
ॐ पद्मगन्धिन्यै नमः ।
ॐ पुण्यगन्धायै नमः ।
ॐ सुप्रसन्नायै नमः ।
ॐ प्रसादाभिमुख्यै नमः ।
ॐ प्रभायै नमः ।
ॐ चन्द्रवदनायै नमः ।
ॐ चन्द्रायै नमः ।
ॐ चन्द्रसहोदर्यै नमः ।
ॐ चतुर्भुजायै नमः । (60)
ॐ चन्द्ररूपायै नमः ।
ॐ इन्दिरायै नमः ।
ॐ इन्दुशीतलायै नमः ।
ॐ आह्लादजनन्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ शिवायै नमः ।
ॐ शिवकर्यै नमः ।
ॐ सत्यै नमः ।
ॐ विमलायै नमः ।
ॐ विश्वजनन्यै नमः । (70)
ॐ तुष्ट्यै नमः ।
ॐ दारिद्र्यनाशिन्यै नमः ।
ॐ प्रीतिपुष्करिण्यै नमः ।
ॐ शान्तायै नमः ।
ॐ शुक्लमाल्याम्बरायै नमः ।
ॐ श्रियै नमः ।
ॐ भास्कर्यै नमः ।
ॐ बिल्वनिलयायै नमः ।
ॐ वरारोहायै नमः ।
ॐ यशस्विन्यै नमः । (80)
ॐ वसुन्धरायै नमः ।
ॐ उदाराङ्गायै नमः ।
ॐ हरिण्यै नमः ।
ॐ हेममालिन्यै नमः ।
ॐ धनधान्यकर्यै नमः ।
ॐ सिद्धये नमः ।
ॐ स्त्रैणसौम्यायै नमः ।
ॐ शुभप्रदायै नमः ।
ॐ नृपवेश्मगतानन्दायै नमः ।
ॐ वरलक्ष्म्यै नमः । (90)
ॐ वसुप्रदायै नमः ।
ॐ शुभायै नमः ।
ॐ हिरण्यप्राकारायै नमः ।
ॐ समुद्रतनयायै नमः ।
ॐ जयायै नमः ।
ॐ मङ्गला देव्यै नमः ।
ॐ विष्णुवक्षःस्थलस्थितायै नमः ।
ॐ विष्णुपत्न्यै नमः ।
ॐ प्रसन्नाक्ष्यै नमः ।
ॐ नारायणसमाश्रितायै नमः । (100)
ॐ दारिद्र्यध्वंसिन्यै नमः ।
ॐ देव्यै नमः ।
ॐ सर्वोपद्रववारिण्यै नमः ।
ॐ नवदुर्गायै नमः ।
ॐ महाकाल्यै नमः ।
ॐ ब्रह्माविष्णुशिवात्मिकायै नमः ।
ॐ त्रिकालज्ञानसम्पन्नायै नमः ।
ॐ भुवनेश्वर्यै नमः । (108)
॥ श्री महालक्ष्मी कवच स्तोत्रम् ॥
Click to show/hide
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्री महालक्ष्मीर्देवता ।
मम श्रीमहालक्ष्मी प्रीत्यर्थं जपे विनियोगः ।
इन्द्र उवाच –
समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ 1 ॥
श्रीगुरुरुवाच –
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ 2 ॥
ब्रह्मोवाच –
ओं शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ 3 ॥
घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ 4 ॥
स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी ।
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ 5 ॥
वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी ।
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ 6 ॥
कटिं च पातु वाराही सक्थिनी देवदेवता ।
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ 7 ॥
इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता ।
नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ॥ 8 ॥
ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः ।
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ 9 ॥
कवचेनावृताङ्गनां जनानां जयदा सदा ।
मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ 10 ॥
भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् ।
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ 11 ॥
नामत्रयमिदं जप्त्वा स याति परमां श्रियम् ।
यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् ॥ 12॥
॥ इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं श्रीमहालक्ष्मी कवच स्तोत्रं सम्पूर्णम् ॥