॥ श्री महाशास्ता महामन्त्र जप क्रमः ॥
Click to show/hide
अस्य श्री महाशास्ता महामन्त्रस्य रैवत ऋषिः ।
पङ्क्ति छन्दः । श्री महाशास्ता देवता ।
ह्रां बीजं । ह्रीं शक्तिः । ह्रूं कीलकं ।
मम श्री महाशास्ता प्रसाद सिद्ध्यर्थे जपे विनियोगः । मूलेन त्रिः व्यापकं कुर्यात् ॥
करन्यासः
ओं अङ्गुष्ठाभ्यां नमः ।
शास्तारं मृगयाश्रान्तं तर्जनीभ्यां नमः ।
अश्वारूढं गणावृतं मध्यमाभ्यां नमः ।
पानीयार्थं विना शास्त्रे अनामिकाभ्यां नमः ।
ते न तो रेवते नमः कनिष्ठिकाभ्यां नमः ।
शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ओं हृदयाय नमः ।
शास्तारं मृगयाश्रान्तं शिरसे स्वाहा ।
अश्वारूढं गणावृतं शिखायै वषट् ।
पानीयार्थं विना शास्त्रे कवचाय हुं ।
ते न तो रेवते नमः नेत्रत्रयाय वौषट् ।
शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ।
कुल्लुका – मूर्ध्ने शिरो मुद्रया न्यस्य । ॐ क्रीं ह्रूं स्त्रीं ह्रीं ह्रीं फट् । इति कुल्लुका विद्यां द्वादशवारं जपेत् ।
सेतुः – हृदयामुद्रया हृदये न्यस्य । ॐ इति एकाक्षर सेतु विद्यां द्वादशवारं जपेत् ।
महासेतुः – कण्ठे न्यास मुद्रया न्यस्य । ॐ इति एकाक्षर महासेतु विद्यां द्वादशवारं जपेत् ।
निर्वाणविद्या – नाभौ न्यास मुद्रया न्यस्य ।
ॐ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
कं खं गं घं ङं
चं छं जं झं ञं
टं ठं डं ढं णं
तं थं दं धं नं
पं फं बं भं मं
यं रं लं वं शं षं सं हं ळं क्षं
ऐं शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः ऐं
अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
कं खं गं घं ङं
चं छं जं झं ञं
टं ठं डं ढं णं
तं थं दं धं नं
पं फं बं भं मं
यं रं लं वं शं षं सं हं ळं क्षं ॐ – शिरो मुद्रया न्यस्य ।
दीपनं – ॐ शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः ॐ ।
जीवनं – ह्रीं शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः । (दशवारं)
मुखशोधनं – क्रीं क्रीं क्रीं ॐ क्रीं क्रीं क्रीं । (दशवारं)
ध्यानम्
अश्वारूढं त्रिनेत्रं च शास्तारं पाशकेन च ।
बद्ध्वा सध्यं साधकाग्रे पातयन्तं भजाम्यहम् ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
मूलमन्त्रः – शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः ॥ (108 वारं)
ओं घ्रूं नमः पराय गोप्त्रे ॥ (108 वारं)
मालामन्त्रः
ॐ नमो भगवते रुद्रकुमाराय हरिहरपुत्राय आर्याय हाटकाचल-कोटिमधुरसार-महाहृदयाय हेमजाम्बूनदनवरत्न-सिंहासनाधिष्ठिताय वैडूर्यमणिमण्डपक्रीडागृहाय लाक्षा-कुङ्कुम-जपाविद्युत्तुल्यप्रभाय प्रसन्नवदनाय उन्मत्त-चूडाकलितलोल-माल्यवृतवक्षःस्तम्भ-मणिपादुका-मण्डपाय प्रस्फुरन् अणिमण्डितोपकर्णाय पूर्णालङ्कार-बन्धुरदन्ति-निरीक्षिताय कदाचित् कोटिवाद्यातिशायि-निरन्तर-जयशब्दमुखरनारदादि देवर्षि-शक्र-प्रमुखलोकपाल-तिलकोत्तमाय दिव्यास्त्रपरिसेविताय गोरोचनागरु-कर्पूर-श्रीगन्ध-प्रलेपिताय विश्वावसु-प्रधानगन्धर्व-सेविताय पूर्णापुष्कलोभयपार्श्वसेविताय सत्यसन्धाय महाशास्त्रे मां रक्ष रक्ष भक्तजनान् रक्ष रक्ष मम शत्रून् शीघ्रं मारय मारय भूत-प्रेत-पिशाच-ब्रह्मराक्षस-यक्ष-गन्धर्व-परप्रेषिताभिचार-कृत्यारोग- प्रतिबन्धक-समस्तदुष्ट्ग्रहान् मोचय मोचय आयुवृद्धिं देहि मे स्वाहा ॥ सकल देवता आकर्षयाकर्षय उच्चाटयोच्चाटय स्तम्भय स्तम्भय मम शत्रून् मारय मारय सर्वजनं मे वशमानय वशमानय सम्मोहय सम्मोहय सदाऽऽरोग्यं कुरु कुरु स्वाहा ॥ ॐ घ्रूं असिताङ्गाय महावीरपराक्रमाय गदाधराय धूम्रनेत्राय दंष्ट्राकराळाय मालाधराय नीलाम्बराय सर्वापद्घ्नेसर्वभयापघ्ने शिवपुत्राय कृद्धाय कृपाकराय स्वाहा ॥
अङ्गन्यासः
ओं हृदयाय नमः ।
शास्तारं मृगयाश्रान्तं शिरसे स्वाहा ।
अश्वारूढं गणावृतं शिखायै वषट् ।
पानीयार्थं विना शास्त्रे कवचाय हुं ।
ते न तो रेवते नमः नेत्रत्रयाय वौषट् ।
शास्तारं मृगयाश्रान्तं अश्वारूढं गणावृतं पानीयार्थं विना शास्त्रे ते न तो रेवते नमः अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्विमोकः ।
ध्यानम्
अश्वारूढं त्रिनेत्रं च शास्तारं पाशकेन च ।
बद्ध्वा सध्यं साधकाग्रे पातयन्तं भजाम्यहम् ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री महाशास्ता आवरण पूजा क्रमः ॥
Click to show/hide
शास्तृकला न्यासः
ओं श्रां हरिहरपुत्राय नमः – शिरसि ।
ओं श्रां नीलकण्ठसुताय नमः – वक्त्रे ।
ओं श्रां हरिसूनवे नमः – ललाटे ।
ओं श्रां वरदाय नमः – दक्षिणभ्रुवि ।
ओं श्रां भूतवन्दिताय नमः – वामभ्रुवि ।
ओं श्रां पिशाचप्रियाय नमः – दक्षिणनेत्रे ।
ओं श्रां पूर्वकायाय नमः – वामनेत्रे ।
ओं श्रां बिसतन्तुनिभाय नमः – दक्षिणकर्णे ।
ओं श्रां उग्ररूपाय नमः – वामकर्णे ।
ओं श्रां सात्विकाय नमः – दक्षिणकपोले ।
ओं श्रां सौन्दर्याय नमः – वामकपोले ।
ओं श्रां पूजिताय नमः – नासिकायां ।
ओं श्रां बलाय नमः – आस्ये ।
ओं श्रां वामनाय नमः – ओष्ठे ।
ओं श्रां भीमाय नमः – अधरे ।
ओं श्रां वेत्रपाणये नमः – ऊर्ध्वदन्तपङ्क्तौ ।
ओं श्रां मुण्डिताय नमः – अधोदन्तपङ्क्तौ ।
ओं श्रां धर्माय नमः – जिह्वायां ।
ओं श्रां नागाय नमः – कण्ठे ।
ओं श्रां उन्मत्ताय नमः – दक्षिण कक्षे ।
ओं श्रां बालरूपाय नमः – वामकक्षे ।
ओं श्रां वाजिवाहनाय नमः – दक्षिणस्तने ।
ओं श्रां दण्डहस्ताय नमः – वामस्तने ।
ओं श्रां यक्षाय नमः – नाभौ ।
ओं श्रां दानप्रियाय नमः – कट्यां ।
ओं श्रां नानारूपाय नमः – पृष्ठे ।
ओं श्रां नटनप्रियाय नमः – पार्श्वयोः ।
ओं श्रां वषट् प्रियाय नमः – दक्षिणांसे ।
ओं श्रां गङ्गाप्रियाय नमः – वामांसे ।
ओं श्रां शास्त्रे नमः – दक्षिणहस्ते ।
ओं श्रां प्रवाळाय नमः – वामहस्ते ।
ओं श्रां कुमारवीराय नमः – दक्षिणोरौ ।
ओं श्रां गुडान्नप्रियाय नमः – वामोरौ ।
ओं श्रां शान्ताय नमः – दक्षिणजानुनि ।
ओं श्रां गजारूढाय नमः – वामजानुनि ।
ओं श्रां गर्जिताय नमः – दक्षिणजङ्घायां ।
ओं श्रां गम्भीराय नमः – वामजङ्घायां ।
ओं श्रां वीरसेनापतये नमः – दक्षिणपादे ।
ओं श्रां दण्डिमुण्डिताय नमः – वामपादे ।
ओं श्रां हरिहरपुत्राय नमः – सर्वाङ्गेषु ।
वेदमन्त्र न्यासः
ओं श्रां धाता नमः – शिरसि ।
ओं श्रां विधाता नमः – मुखमध्ये ।
ओं श्रां परमोत नमः – कण्ठे ।
ओं श्रां सन्दृक् नमः – हृदये ।
ओं श्रां प्रजापतिर् नमः – दक्षिणांसे ।
ओं शां परमेष्ठी नमः – वामांसे ।
ओं श्रां विराट् नमः – नाभौ ।
ओं श्रां स्तोमास्छन्दाꣳसि नमः – पृष्ठे ।
ओं श्रां दिवितोम आहुर् नमः – गुह्ये ।
ओं श्रां एतस्मैराष्ट्रं नमः – ऊर्वोः ।
ओं श्रां अभिसंनमाम नमः – दक्षिणजानुनि ।
ओं श्रां अस्यावर्तध्वं नमः – वामजानुनि ।
ओं श्रां उपमेत साकं नमः – दक्षिणकरे ।
ओं श्रां अयꣳ शास्ता नमः – वामकरे ।
ओं श्रां अधिपतिर्वो अस्तु नमः – पादयोः ।
गायत्री न्यासः
ओं श्रां गजध्वजाय नमः – शिरसि ।
ओं श्रां विद्महे नमः – मुखमण्डले ।
ओं श्रां शृणि हस्ताय नमः – हृदये ।
ओं श्रां धीमहि नमः – नाभौ ।
ओं श्रां तन्नो नमः – ऊर्वोः ।
ओं श्रां शास्ता नमः – जान्वोः ।
ओं श्रां प्रचोदयात् नमः – पादयोः ।
मूलमन्त्र न्यासः
ओं श्रां ओं नमः – मूर्ध्नि ।
ओं श्रां श्रीं नमः – ललाटे ।
ओं श्रां ह्रीं नमः – भ्रूमध्ये ।
ओं श्रां क्लीं नमः – आस्ये ।
ओं श्रां हरिहरपुत्राय नमः- गळे ।
ओं श्रां पुत्रलाभाय नमः – हृदये ।
ओं श्रां शत्रुनाशाय नमः – नाभौ ।
ओं श्रां मधगजवाहनाय नमः – जठरे ।
ओं श्रां महाशास्ताय नमः – पादयोः ।
पीठपूजा
ओं गं गणपतये नमः ।
ओं क्षं क्षेत्रपालाय नमः ।
ओं सं सरस्वत्यै नमः ।
ओं पं परमात्मने नमः ।
ओं आधारशक्त्यै नमः ।
ओं मूलप्रकृत्यै नमः ।
ओं आदिकूर्माय नमः ।
ओं आदिवराहाय नमः ।
ओं अनन्ताय नमः ।
ओं पृथिव्यै नमः ।
ओं रत्नमण्टपाय नमः ।
ओं रत्नवेदिकाय नमः ।
ओं स्वर्णस्तंभाय नमः ।
ओं श्वेतछत्राय नमः ।
ओं कल्पवृक्षाय नमः ।
ओं सितचामराभ्यां नमः ।
ओं वामायै नमः ।
ओं ज्येष्ठायै नमः ।
ओं रौद्र्यै नमः
ओं काळ्यै नमः ।
ओं कलविकरण्यै नमः ।
ओं बलविकरण्यै नमः ।
ओं बलप्रमथिन्यै नमः ।
ओं सर्वभूतदमन्यै नमः ।
ओं मनोन्मन्यै नमः ।
ओं योगपीठासनाय नमः ।
श्रीमहाशास्ता ध्यानम् –
अश्वारूढं त्रिनेत्रं च शास्तारं पाशकेन च ।
बद्ध्वा सध्यं साधकाग्रे पातयन्तं भजाम्यहम् ॥
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्तृं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्ता स्थापिता भव । स्थापण मुद्रां प्रदर्श्य।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्ता संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्ता सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्ता सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्ता अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पुर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।
ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । आसनं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । पादयोः पाद्यं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । मुखे आचमनीयं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । वस्त्राणि कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । आभरणानि कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । धूपं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । दीपं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । नैवेद्यं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । अमृतपानीयं कल्पयामि नमः।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्त्रे नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ओं संविन्मये परे देवि परामृत रुचि प्रिय ।
अनुज्ञां महाशास्तृं देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
घ्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग तर्पणम्
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम् (बिन्दौ)
घ्रां हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रूं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रैं कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रौं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
घ्रः अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।
अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
द्वितीयावरणम्
ओं लं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं रं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ठं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं क्षं निर्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं यं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं सं सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ।
अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तृतीयावरणम्
ओं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं अं अङ्कुशाय नमः । अङ्कुश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं अं अमृतकलशाय नमः । अमृतकलश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शं शूलाय नमः । शूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
तुरीयावरणम्
ओं हूं फट् क्षूरिकाय नमः । क्षूरिक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् धनुषे नमः । धनुः श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् चराय नमः । चर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् अङ्कुशाय नमः । अङ्कुश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् मधुकराय नमः । मधुकर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं हूं फट् चम्पराय नमः । चम्पर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चमावरणम्
ओं ऐरावताय नमः । ऐरावत श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पुण्डरीकाय नमः । पुण्डरीक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वामनाय नमः । वामन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कुमुदाय नमः । कुमुद श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं अञ्जनाय नमः । अञ्जन श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पुष्पदन्ताय नमः । पुष्पदन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं सार्वभौमाय नमः । सार्वभौम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं सुप्रदीकाय नमः । सुप्रदीक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
षष्ठावरणम्
ओं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वासुक्यै नमः । वासुकि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं पद्मायै नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं महापद्मायै नमः । महापद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं दक्षकायै नमः । दक्षक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कार्कोटकाय नमः । कार्कोटक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कुळिकाय नमः । कुळिक श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं शङ्काय नमः । शङ्क श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
सप्तमावरणम्
ओं असिताङ्ग भैरवाय नमः । असिताङ्ग भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं रुरु भैरवाय नमः । रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं चण्ड भैरवाय नमः । चण्ड भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं क्रोध भैरवाय नमः । क्रोध भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं उन्मत्त भैरवाय नमः । उन्मत्त भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कापाल भैरवाय नमः । कापाल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं भीषण भैरवाय नमः । भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं संहार भैरवाय नमः । संहार भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
अष्टमावरणम्
ओं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं माहेन्द्र्यै नमः । माहेन्द्री श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥
अनेन अष्टमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
नवमावरणम्
ओं घ्रूं रेवन्दाय नमः । रेवन्द श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं महाशास्त्रे नमः । महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं गोप्त्रे नमः । गोप्ता श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं प्रभवे नमः । प्रभु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं दीप्त्रे नमः । दीप्ता श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं प्रशास्त्रे नमः । प्रशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं सर्वाभरणेभ्यो नमः । सर्वाभरण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं घ्रूं सर्व परिवार देवताभ्यो नमः । सर्व परिवार देवता श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं पूर्णायै नमः । पूर्णाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं ह्रीं पुष्कळायै नमः । पुष्कळाम्बा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ओं घ्रूं नमः पराय गोप्त्रे । श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
अनेन नवमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री पूर्णा पुष्कलाम्बा समेत श्री महाशास्ता प्रीयताम् ॥ (योनिमुद्रया प्रणमेत्)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ महाशास्ता अनुग्रह कवच स्तोत्रम् ॥
Click to show/hide
श्रीदेव्युवाच –
भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक ।
प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1 ॥
महाव्याधिमहाव्याळघोरराजैः समावृते ।
दुःस्वप्नघोरसन्तापैः दुर्विनीतैः समावृते ॥ 2 ॥
स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥ 3 ॥
ईश्वर इवाच –
शृणु देवि महाभागे सर्वकल्याणकारणे ।
महाशास्तृश्च देवेशि कवचं पुण्यवर्धनम् ॥ 4 ॥
अग्निस्तम्भ जलस्तम्भ सेनास्तम्भ विधायकम् ।
महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ 5 ॥
महाज्ञानप्रदं पुण्यं विशेषात्कलितापहम् ।
सर्वरक्षाकरं दिव्यमायुरारोग्यवर्धनम् ॥ 6 ॥
किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादतः ॥ 7 ॥
कवचस्य ऋषिर्ब्रह्मा गायत्रीश्छन्द उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ 8 ॥
षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ 9 ॥
अस्य श्रीमहाशास्तृ कवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीः छन्दः । श्री महाशास्ता देवता ।
ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकं ।
श्रीमहाशास्तुः प्रसादसिद्धर्थे जपे विनियोगः ।
करन्यासः
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ह्रं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानम् –
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं
शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ओं महाशास्ता शिरः पातु फालं हरिहरात्मजः ।
कामरूपी दृशौ पातु सर्वज्ञो मे श्रुती सदा ॥ 1 ॥
घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ 2 ॥
कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ 3 ॥
भूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाभिं पातु महावीरः कमलाक्षोऽवतात्कटिम् ॥ 4 ॥
अपानं पातु विश्वात्मा गुह्यं गुह्यार्थवित्तमः ।
ऊरू पातु गजारूढो वज्रधारी च जानुनी ॥ 5 ॥
जङ्घे पाशाङ्कुशधरः पादौ पातु महामतिः ।
सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ 6 ॥
इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् ।
महाव्याधिप्रशमनं महापातकनाशनम् ॥ 7 ॥
ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम् ॥ 8 ॥
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः ।
त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ 9 ॥
॥ इति श्रीगुह्यरत्नचिन्तामणौ श्रीमहाशास्त्रनुग्रहकवचं सम्पूर्णम् ॥
॥ श्री हरिहरपुत्र सहस्रनाम स्तोत्रम् ॥
Click to show/hide
अस्य श्रीहरिहरपुत्र सहस्रनाम स्तोत्र मालामन्त्रस्य अर्धनारीश्वर ऋषिः ।
अनुष्टुप्छन्दः । श्रीहरिहरपुत्रो देवता ।
ह्रां बिजं । ह्रीं शक्तिः । ह्रूं कीलकं ।
श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भुर्भुवस्सुवरों इति दिग्बन्धः ॥
ध्यानम् –
ध्यायेदुमापतिरमापतिभाग्यपुत्रं वेत्रोज्ज्वलत्करतलं भसिताभिरामम् ।
विश्वैकविश्ववपुषं मृगयाविनोदं वाञ्छानुरूपफलदं वरभुतनाथम् ॥
आश्रयामकोमलविशालतनुं विचित्रवासो वसानमरुणोत्पलदामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ॐ शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः ।
शिवप्रदश्शिवज्ञानी शैवधर्मसुरक्षकः ॥ 1 ॥
शङ्खधारी सुराध्यक्षश्चन्द्रमौलिस्सुरोत्तमः ।
कामेशः कामतेजस्वी कामादिफलसंयुतः ॥ 2 ॥
कल्याणः कोमलाङ्गश्च कल्याणफलदायकः ।
करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ 3॥
जगत्प्रियो जगद्रक्षो जगदानन्ददायकः ।
जयादि शाक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ 4॥
जितेन्द्रियो जितक्रोधो जितदेवारिसञ्चयः ।
जैमिन्यादिर्षिसंसेव्यो जरामरणनाशकः ॥ 5॥
जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ 6॥
परमेष्ठी पशुपतिः पङ्कजासनपूजितः ।
पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ 7॥
पवनादि सुरैः सेव्यः पञ्चब्रह्मपरायणः ।
पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ 8॥
ब्रह्मिष्टो ज्ञाननिरतो गुणागुणनिरुपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ 9॥
गोरक्षको गोधनदो गजारुढो गजप्रियः ।
गजग्रिवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ 10॥
ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ 11॥
जटाधरो जलनिभो जैमिन्यादिर्षिपूजितः ।
जलन्धरनिहन्ता च शोणाक्षश्शोणवासकः ॥ 12॥
सुराधिपश्शोकहन्ता शोभाक्षस्सुर्यतैजसः ।
सुरार्चितस्सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ 13॥
सुज्योतिश्शरवीरघ्नः शरच्चन्द्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ 14॥
हलायुधो हंसनिभो हाहाहूहू मुखस्तुतः ।
हरिहरप्रियो हंसो हर्यक्षासनतत्परः ॥ 15॥
पावनः पावकनिभो भक्तपापविनाशनः ।
भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ 16॥
त्रिपुण्ड्रकस्त्रिनयनः त्रिपुण्ड्राङ्गितमस्तकः ।
त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ 17॥
देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ 18॥
धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुश्शास्त्रपरायणः ॥ 19॥
स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमस्तनुत्राणस्तारकस्तेजसाम्पतिः ॥ 20॥
योगीश्वरो योगनिधिर्योगेशो योगसंस्थितः ।
मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ 21॥
मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः ।
महाभश्च महावक्षा मनोहरमदार्चितः ॥ 22॥
महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ 23॥
मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतैजसः ॥ 24॥
भिषग्भवानीपुत्रश्च भवतारणकारणः ।
नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ 25॥
नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ 26॥
राजसेव्यो राजधनः रणदोर्दण्डमण्डितः ।
रमणो रेणुकासेव्यो राजनीचरदारणः ॥ 27॥
ईशान इभराट्सेव्य ईषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥ 28॥
हयप्रियोहयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ 29॥
वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विराड्रूपो विशाम्पतिः ॥ 30॥
वेणुनादो वरग्रिवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ 31॥
वैणवारण्यवासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदविधिर्वंशदेवो वराङ्गकः ॥ 32॥
ह्रीङ्कारो ह्रीम्मना हृष्टो हिरण्यः हेमसम्भवः ।
हूताशो हूतनिष्पन्नो हूँकाराकृतिसुप्रभः ॥ 33॥
हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ 34॥
हंसमन्त्रश्च हुतभुक् हेमाम्बरस्सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ 35॥
क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्ताभिषिक्तो मानी च मन्त्ररूपोः मृडो मनुः ॥ 36॥
मेधावी मेदसो मुष्णुः मकरो मकरालयः ।
मार्त्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ 37॥
श्रोत्रियश्शोभमानश्च सविता सर्वदेशिकः ।
चन्द्रहासश्श्मश्श्क्तः शशिभासश्शमाधिकः ॥ 38॥
सुदन्तस्सुकपोलश्च षड्वर्णस्सम्पदोऽधिपः ।
गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ 39॥
कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ 40॥
कन्दर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥ 41॥
बभ्रुवाहो बलाध्यक्षः फणामणिविभुषणः ।
सुन्दरस्सुमुखः स्वच्छः सफासश्च सफाकरः ॥ 42॥
शरानिवृत्तश्शक्राप्तः शरणागतपालकः ।
तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ 43॥
अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः ।
गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ 44॥
बाडवापूरितमुखो व्यापको विषमोचकः ।
वसन्तस्समरक्रुद्धः पुङ्गवः पङ्गजासनः ॥ 45॥
विश्वदर्पो निश्चितज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥ 46॥
सिंहास्यस्सिंहरूपश्च सेनापतिस्सकारकः ।
सनातनस्सिद्धरूपी सिद्धधर्मपरायणः ॥ 47॥
आदित्यरूपश्चापधरश्चामृताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ 48॥
देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः ।
पिङ्गलाक्षः पिच्छचूडः फणामणिविभूषितः ॥ 49॥
भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः ।
पञ्चहस्तेन सम्पूज्यः पङ्चबाणेनसेवितः ॥ 50॥
भवश्शर्वो भानुमयः प्राजापत्यस्वरुपकः ।
स्वच्छन्दश्छन्दश्शस्त्रज्ञो दान्तो देवो मनुः प्रभुः ॥ 51॥
दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षश्शरोत्पन्नः शतानन्दसमागमः ॥ 52॥
गृध्राद्रिवासो गम्भिरो गन्धग्राहोगणेश्वरः ।
गोमेधो गण्ढकावासो गोकुलैः परिवारितः ॥ 53॥
परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः ।
गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ 54॥
वृत्ताकारो वेणुपाणीर्वीणादण्डधरोहरः ।
हैमीड्यो होत्रुसुभगो हौत्रज्ञश्चौजसां पतिः ॥ 55॥
पवमानः प्रजातन्तुप्रदो दण्डविनाशनः ।
निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ 56॥
लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः ।
इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ 57॥
भिक्षाटनो भीमवर्चा वरकीर्तिस्सभेश्वरः ।
वाचोऽतीतो वरनिधिः परिवेत्ताप्रमाणकः ॥ 58॥
अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ 59॥
विपिनो वेदसारश्च वेदान्तैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥ 60॥
वज्रकान्तो वंशकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ 61॥
कोलाहलः क्रोडनेत्रःक्रोडास्यश्च कपालभृत् ।
कुञ्जरेड्यो मञ्जुवासाःक्रियामानः क्रियाप्रदः ॥ 62॥
क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः ।
कनको होतृभागी च खवासः खचरः खगः ॥ 63॥
गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ 64॥
पितृसच्चरितः प्रेष्टः पापभस्मः पुनश्चुचिः ।
फालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ 65॥
फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोऽधिकः ।
चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ 66॥
चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः ।
मृडाभो मेषवाहश्च मैथिल्यो मोचकोमनुः ॥ 67॥
मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः ।
स्थूपिज्ञो धनदाता च देववन्द्यश्चतारणः ॥ 68॥
यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ 69॥
दामोदरोदामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यश्शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ 70॥
गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ 71॥
आनन्दभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ 72॥
घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ 73॥
छद्महीनश्शशिरदः शत्रूणां पतिरङ्गिराः ।
चराचरमयश्शान्तः शरभेशश्शतातपः ॥ 74॥
वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ 75॥
भावज्ञो भवरोगघ्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ 76॥
नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठूरभाषणः ॥ 77॥
निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः ।
सिंहाक्षस्सर्वविघ्नेशस्सामवेदपरायणः ॥ 78॥
सनकादिमुनिध्येयः शर्वरीशः षडाननः ।
सुरूपस्सुलभस्स्वर्गः शचीनाथेन पूजितः ॥ 79॥
काकीनः कामदहनो दग्धपापो धराधिपः ।
दामग्रन्धी शतस्त्रीशस्तश्रीपालश्च तारकः ॥ 80॥
ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः ।
माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ 81॥
मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ 82॥
महाकामेशतनयो माधवो मदगर्वितः ।
मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ 83॥
स्वाधिष्टानमयः स्वस्थः स्वस्थिवाक्यः स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥ 84॥
अनाहताब्जरसिको ह्रीङ्काररसपेशलः ।
भूमध्यवासो भूकान्तो भरद्वाजप्रपूजितः ॥ 85॥
सहस्राराम्बुजावासः सविता सामवाचकः ।
मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ 86॥
धन्यश्च धनभृद्दाहो धनदानकराम्बुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥ 87॥
माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ 88॥
पायसान्नप्रियः पर्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिञ्चोवरवक्षणः ॥ 89॥
विज्ञानकलिकावृन्दो विश्वरूपप्रदर्शकः ।
डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ 90॥
द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेन्द्रवरदो महासंसारनाशनः ॥ 91॥
लाकिनी हाकिनीलब्धो लवणाम्भोधितारणः ।
काकिलः कालपाशघ्नःकर्मबन्धविमोचकः ॥ 92॥
मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ 93॥
डाकीनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः ।
स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ 94॥
सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः ।
मिध्याजगदधिष्टानो मुक्तिदो मुक्तिरूपकः ॥ 95॥
मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ 96॥
सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः ।
अजपो जनहंसश्च फलपाणिप्रपूजितः ॥ 97॥
अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ 98॥
पञ्चाननः पङ्चगूढः पङ्चयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ 99॥
पपारिः परमोदारः प्रजेशः पङ्कनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ 100॥
नागाधीशो नष्टपाप इष्टनामविधायकः ।
पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ॥ 101॥
पद्माक्षोः पद्मवदनः पावकाभः प्रियङ्करः ।
कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ॥ 102॥
गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीदितिः ।
दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ॥ 103॥
सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः ।
कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ॥ 104॥
दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः ।
भेरीनादप्रियो वृन्दो बृहत्सेनः सुपालकः ॥ 105॥
सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ।
तिमिरघ्नो मिहिराभो महानीलसमप्रभः ॥ 106॥
श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रःश्रीतरुप्रियः ।
लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ॥ 107॥
बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः ।
आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ॥ 108॥
मरुद्धृतो महाखर्वश्चीरवासाः शिखिप्रियः ।
आयुष्माननघो दूत आयुर्वेदपरायणः ॥ 109॥
हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ।
अश्ववेगोऽश्वहृदयो हयधैर्यो फलप्रदः ॥ 110॥
सुमुखो दुर्मुखो विघ्नोनिर्विघ्नो विघ्ननाशनः ।
आर्यो नाथोऽर्यमाभासःफाल्गुनः फाललोचनः ॥ 111॥
अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः ।
किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ॥ 112॥
ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः ।
वीरमार्त्ताण्डवरदो वीरबाहुश्च पूर्वजः ॥ 113॥
वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः ।
नरवीरसुहृद्भ्राता नागरत्नविभूषितः ॥ 114॥
वाचस्पतिः पुरारातिः संवर्त्तः समरेश्वरः ।
उरुवाग्मीह्युमापुत्रः उडुलोकसुरक्षकः ॥ 115॥
शृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः ।
कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ॥ 116॥
मत्तनागप्रियो नेता नागगन्धर्वपूजितः ।
सुस्वप्नबोधको बोधो गौरीदुस्वप्ननाशनः ॥ 117॥
चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः ।
चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ॥ 118॥
मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ।
नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ॥ 119॥
केदारेशः किरातश्च कालात्मा कल्पविग्रहः ।
कल्पान्तभैरवाराध्यः कङ्कपत्रशरायुधः ॥ 120॥
कलाकाष्ठस्वरूपश्च ॠतुवर्षादिमासवान् ।
दिनेशमण्डलावासो वासवादिप्रपूजितः ॥ 121॥
बहुलास्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः ।
चिन्ताहीनश्चिदाक्रान्तः चारुपालोहलायुधः ॥ 122॥
बन्दूककुसुमप्रख्यः परगर्वविभञ्जनः ।
विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ॥ 123॥
सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्ज्जितः ।
तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ॥ 124॥
लीलाकमलहस्ताब्जो बालकुन्दविभूषितः ।
लोध्रप्रसवशुधाभः शिरीषकुसुमप्रियः ॥ 125॥
त्रस्तत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः ।
वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ॥ 126॥
मूलभूतो मूलतत्त्वं मूलकारणविग्रहः ।
आदिनाथोऽक्षयफलः पाणिजन्माऽपराजितः ॥ 127॥
गानप्रियो गानलोलो महेशो विज्ञमानसः ।
गिरीजास्तन्यरसिको गिरिराजवरस्तुतः ॥ 128॥
पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः ।
सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ॥ 129॥
रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः ।
कनत्कालेयसुप्रीतः क्रौञ्चगर्वविनाशनः ॥ 130॥
अशेषजनसम्मोह आयुर्विद्याफलप्रदः ।
अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ॥ 131॥
केतकीकुसुमप्रीतः कलभैः परिवारितः ।
केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ॥ 132॥
चातकालापसन्तुष्टश्चमरीमृगसेवितः ।
आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ॥ 133॥
धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ।
मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ॥ 134॥
तैलाभिषिक्तसुशीरास्तर्जनीमुद्रिकायुतः ।
तटातकामनः प्रीतस्तमोग़उणविनाशनः ॥ 135॥
अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः ।
षाड्गुण्य परिसम्पुर्णस्सप्ताश्वादिगृहैः स्तुतः ॥ 136॥
वीतशोकःप्रसादज्ञः सप्तप्राणवरप्रदः ।
सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ॥ 137॥
कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः ।
वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ॥ 138॥
विश्वमूर्तिश्शुद्धमुखश्शुद्धभस्मानुलेपनः ।
शुम्भध्वंसिन्या सम्पूज्यो रक्तबीजकुलान्तकः ॥ 139॥
निषादादिस्वरप्रीतः नमस्कारफलप्रदः ।
भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ॥ 140॥
अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः ।
धूम्राक्षश्चोग्रतेजस्वी दशकण्ठविनाशनः ॥ 141॥
आशुगायुधहस्ताब्जो गदायुधकराम्बुजः ।
पाशायुधसुपाणिश्च कपालायुधसद्भुजः ॥ 142॥
सहस्रशीर्षवदनः सहस्रद्वयलोचनः ।
नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ॥ 143॥
आश्यामकोमलतनूरारक्तापाङ्गलोचनः ।
द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ॥ 144॥
अप्तोर्यामक्रतुमयश्चयनादिफलप्रदः ।
पशुबन्धस्यफलदो वाजपेयात्मदैवतः ॥ 145॥
आब्रह्मकीटजननावनात्मा चम्बकप्रियः ।
पशुपाशविभागज्ञः परिज्ञानप्रदायकः ॥ 146॥
कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः ।
कुम्भीश्वरः कुम्भपाणीः कुङ्कुमाक्तललाटकः ॥ 147॥
शिलीन्ध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः ।
कोकिलक्वणनाकर्णी कालनाशनतत्परः ॥ 148॥
नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः ।
धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ॥ 149॥
पितृयज्ञस्यफलदः पितृवज्जनरक्षकः ।
पदातिकर्मनिरतः पृषदाज्यप्रदायकः ॥ 150॥
महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः ।
महावर्षतिरोधानः नागाभृतकराम्बुजः ॥ 151॥
नमः स्वाहावषट् वौषट् वल्लवप्रतिपादकः ।
महीरसदृशग्रीवो महीरसदृशस्तवः ॥ 152॥
तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः ।
चिदंशमुकुरावासो मणिकूटाद्रि सञ्चरः ॥ 153॥
लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः ।
राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ॥ 154॥
मैनाकगिरिसञ्चारी मधुवंशविनाशनः ।
तालखण्डपुरावासः तमालनिभतैजसः ॥ 155॥
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हम् ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भुर्भुवस्सुवरों इति दिग्विमोकः ॥
ध्यानम् –
ध्यायेदुमापतिरमापतिभाग्यपुत्रं वेत्रोज्ज्वलत्करतलं भसिताभिरामम् ।
विश्वैकविश्ववपुषं मृगयाविनोदं वाञ्छानुरूपफलदं वरभुतनाथम् ॥
आश्रयामकोमलविशालतनुं विचित्रवासो वसानमरुणोत्पलदामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
पञ्चपूजा –
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ इति श्रीहरिहरपुत्र सहस्रनामस्तोत्रं सम्पूर्णम् ॥
॥ श्री हरिहरपुत्र अष्टोत्तरनाम स्तोत्रम् ॥
Click to show/hide
ओं महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥ 1 ॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः ।
मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥ 2 ॥
लोकाध्यक्षोऽग्रणीः श्रीमान् अप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ 3 ॥
नानाशास्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ 4 ॥
भूतेशः पूजितो भृत्यो भुजङ्गाभरणोत्तमः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ 5 ॥
मायादेवीसुतो मान्यो महानीतो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ 6 ॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः ।
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ 7 ॥
देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महाधिपः ॥ 8 ॥
देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारश्च नागेशो व्योमकेशः सनातनः ॥ 9 ॥
कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गुणाधीशः चतुःषष्टिकलामयः ॥ 10 ॥
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः ।
त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः ॥ 11 ॥
सुगुणश्च महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ 12 ॥
संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ 13 ॥
सर्वशास्त्रार्थतत्त्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णसंयुक्तो परमात्मा सतां गतिः ॥ 14 ॥
अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥ 15 ॥
॥ इति श्री हरिहरपुत्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
॥ श्री हरिहरपुत्र अष्टोत्तरशत नामावलिः ॥
Click to show/hide
ध्यानम् –
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं
शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
ॐ महाशास्त्रे नमः ।
ॐ महादेवाय नमः ।
ॐ महादेवसुताय नमः ।
ॐ अव्याय नमः ।
ॐ लोककर्त्रे नमः ।
ॐ लोकभत्रे नमः ।
ॐ लोकहत्रे नमः ।
ॐ परात्पराय नमः ।
ॐ त्रिलोकरक्षकाय नमः ।
ॐ धन्विने नमः । (10)
ॐ तपस्विने नमः ।
ॐ भूतसैनिकाय नमः ।
ॐ मन्त्रवेदिने नमः ।
ॐ महावेदिने नमः ।
ॐ मारुताय नमः ।
ॐ जगदीश्वराय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ अग्रण्ये नमः ।
ॐ श्रीमते नमः ।
ॐ अप्रमेयपराक्रमाय नमः । (20)
ॐ सिंहारूढाय नमः ।
ॐ गजारूढाय नमः ।
ॐ हयारूढाय नमः ।
ॐ महेश्वराय नमः ।
ॐ नानाशास्त्रधराय नमः ।
ॐ अनर्घाय नमः ।
ॐ नानाविद्या विशारदाय नमः ।
ॐ नानारूपधराय नमः ।
ॐ विराय नमः ।
ॐ नानाप्राणिनिवेषिताय नमः । (30)
ॐ भूतेशाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भृत्याय नमः ।
ॐ भुजङ्गाभरणोज्वलाय नमः ।
ॐ इक्षुधन्विने नमः ।
ॐ पुष्पबाणाय नमः ।
ॐ महारूपाय नमः ।
ॐ महाप्रभवे नमः ।
ॐ मायादेवीसुताय नमः ।
ॐ मान्याय नमः । (40)
ॐ महनीयाय नमः ।
ॐ महागुणाय नमः ।
ॐ महाशैवाय नमः ।
ॐ महारुद्राय नमः ।
ॐ वैष्णवाय नमः ।
ॐ विष्णुपूजकाय नमः ।
ॐ विघ्नेशाय नमः ।
ॐ वीरभद्रेशाय नमः ।
ॐ भैरवाय नमः ।
ॐ षण्मुखप्रियाय नमः । (50)
ॐ मेरुशृङ्गसमासीनाय नमः ।
ॐ मुनिसङ्घनिषेविताय नमः ।
ॐ देवाय नमः ।
ॐ भद्राय नमः ।
ॐ जनन्नाथाय नमः ।
ॐ गणनाथाय नमः ।
ॐ गणेश्वराय नमः ।
ॐ महायोगिणे नमः ।
ॐ महामायिने नमः ।
ॐ महाज्ञानिने नमः । (60)
ॐ महास्थिराय नमः ।
ॐ देवशास्त्रे नमः ।
ॐ भूतशास्त्रे नमः ।
ॐ भीमहासपराक्रमाय नमः ।
ॐ नागहराय नमः ।
ॐ नागकेशाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ सनातनाय नमः ।
ॐ सगुणाय नमः ।
ॐ निर्गुणाय नमः । (70)
ॐ नित्याय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निराश्रयाय नमः ।
ॐ लोकाश्रयाय नमः ।
ॐ गणाधीशाय नमः ।
ॐ चतुःषष्टिकलामयाय नमः ।
ॐ ऋक्यजुर्सामाथर्वात्मने नमः ।
ॐ मल्लकासुरभञ्जनाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ दैत्यमथनाय नमः । (80)
ॐ प्रकृतये नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ कालज्ञानिने नमः ।
ॐ महाज्ञानिने नमः ।
ॐ कामदाय नमः ।
ॐ कमलेक्षणाय नमः ।
ॐ कल्पवृक्षाय नमः ।
ॐ महावृक्षाय नमः ।
ॐ विद्यावृक्षाय नमः ।
ॐ विभूतिदाय नमः । (90)
ॐ संसारतापविच्छेत्रे नमः ।
ॐ पशुलोकभयङ्कराय नमः ।
ॐ रोगहन्त्रे नमः ।
ॐ प्रणदात्रे नमः ।
ॐ परगर्वविभञ्जनाय नमः ।
ॐ सर्वशास्त्रार्थ तत्वज्ञाय नमः ।
ॐ नीतिमते नमः ।
ॐ पापभञ्जनाय नमः ।
ॐ पुष्कलापूर्णासंयुक्ताय नमः ।
ॐ परमात्मने नमः । (100)
ॐ सतांगतये नमः ।
ॐ अनन्तादित्यसङ्काशाय नमः ।
ॐ सुब्रह्मण्यानुजाय नमः ।
ॐ बलिने नमः ।
ॐ भक्तानुकंपिने नमः ।
ॐ देवेशाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तवत्सलाय नमः । (108)
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाव्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री धर्मशास्ता भुजङ्ग स्तोत्रम् ॥
Click to show/hide
श्रितानन्दचिन्तामणि श्रीनिवासं
सदा सच्चिदानन्द पूर्णप्रकाशम् ।
उदारं सुदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 1 ॥
विभुं वेदवेदान्तवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेष्टं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 2 ॥
परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 3 ॥
परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशादिपीठोज्ज्वलच्चारुदीपम् ।
सुरेशादिसंसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 4 ॥
हरीशानसम्युक्तशक्त्यैकवीरं
किरातावतारं कृपापाङ्गपूरम् ।
किरीटावतंसोज्ज्वलत् पिञ्छभारं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 5 ॥
गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महाकोटिसूर्यप्रकाशम् ।
कराम्भोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 6 ॥
महायोगपीठे ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 7 ॥
महारण्यमन्मानसान्तर्निवासान्
अहङ्कारदुर्वारहिंस्रा मृगादीन् ।
निहन्तं किरातावतारं चरन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 8 ॥
पृथिव्यादिभूतप्रपञ्चान्तरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणप्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 9 ॥
जगज्जीवनं पावनं पावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 10 ॥
इहामुत्र सत्सौख्यसम्पन्निधानं
महद्योनिमव्याहतात्माभिधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 11 ॥
त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधाम त्रिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिच्छिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 12 ॥
इडां पिङ्गलां सत्सुषुम्णां विशन्तं
स्फुटं ब्रह्मरन्ध्र स्वतन्त्रं सुशान्तम् ।
दृढं नित्य निर्वाणमुद्भासयन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 13 ॥
अणुब्रह्मपर्यन्त जीवैक्यबिम्बं
गुणाकारमत्यन्तभक्तानुकम्पम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 14 ॥
॥ इति श्री धर्मशास्ता भुजङ्ग स्तोत्रं सम्पूर्णम् ॥
॥ श्री किराताष्ट्क स्तोत्रम् ॥
Click to show/hide
अस्य श्रीकिरातशस्तु महामन्त्रस्य रेमन्त ऋषिः ।
देवी गायत्री छन्दः । श्री किरात शास्ता देवता ।
ह्रां बीजं । ह्रीं शक्तिः । ह्रूं कीलकं ।
श्री किरात शास्ता प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
करन्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतल करपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हुं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
ओं भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् –
कोदण्डं सशरं भुजेन भुजगेन्द्रभोगा भासावहन्
वामेनच्छुरिकां विभक्षलने पक्षेण दक्षेण च ।
कान्त्या निर्जित नीरदः पुरभिदः क्रीडन्किराताकृते
पुत्रोस्माकमनल्प निर्मलया च निर्मातु शर्मानिशम् ॥
ओं प्रत्यर्थिव्रातवक्षःस्थलरुधिरसुरापानमत्ता पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहं तम् ।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो
देवः पायादपायाच्छबरवपुरसौ सावधानः सदा नः ॥ 1 ॥
आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुतः
त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः ।
कोदण्डक्षुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः
स त्वं मामव सर्वदा रिपुगणत्रस्तं दयावारिधे ॥ 2 ॥
यो मां पीडयति प्रसह्य सततं देहीत्यनन्याश्रयं
भित्वा तस्य रिपोरुरः क्षुरिकया शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोल्लसितया श्रीमत्किराताकृतेः
तत्प्राणान्वितरान्तकाय भगवन् कालारिपुत्राञ्जसा ॥ 3 ॥
विद्धो मर्मसु दुर्वचोभिरसतां सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां खिन्नोऽस्मि यावद्भृशम् ।
तावत्त्वं क्षुरिकाशरासनधरश्चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय प्रत्यर्थिगर्वं क्षणात् ॥ 4 ॥
हर्तुं वित्तमधर्मतो मम रताश्चोराश्च ये दुर्जना
स्तेषां मर्मसु ताडयाशु विशिखैस्त्वत्कार्मुकान्निःसृतैः ॥
शास्तारं द्विषतां किरातवपुषं सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं नान्यं प्रपन्नोऽस्म्यहम् ॥ 5 ॥
यक्षः प्रेतपिशाचभूतनिवहाः दुःखप्रदा भीषणाः
बाधन्ते नरशोणितोत्सुकधियो ये मां रिपुप्रेरिताः ।
चापज्यानिनदैस्त्वमीश सकलान् संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किराताकार संरक्ष माम् ॥ 6 ॥
दोग्धुं ये निरतास्त्वमद्य पदपद्मैकान्तभक्ताय मे
मायाच्छन्नकलेबराश्रुविषदानाद्यैः सदा कर्मभिः ।
वश्यस्तम्भनमारणादिकुशलप्रारम्भदक्षानरीन्
दुष्टान् संहर देवदेव शबराकार त्रिलोकेश्वर ॥ 7 ॥
तन्वा वा मनसा गिरापि सततं दोषं चिकीर्षत्यलं
त्वत्पादप्रणतस्य निरपराधस्यापि ये मानवाः ।
सर्वान् संहर तान् गिरीशसुत मे तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं नाथं प्रपन्नोऽस्म्यहम् ॥ 8 ॥
क्लिष्टो राजभटैस्तदापि परिभूतोऽहं कुलैर्वैरिभि-
-श्चान्यैर्घोरतरैर्विपज्जलनिधौ मग्नोऽस्मि दुःखातुरम् ।
हा हा किङ्करवै विभो शबरवेषं त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपानाथार्तबन्धो मयि ॥ 9 ॥
स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपतीनाबद्धवैरानपि ।
संहृत्यात्मविरोधिनः खिलजनान् दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो दिव्यां गतिं शाश्वतीम् ॥ 10 ॥
॥ इति श्री किराताष्टक स्तोत्रं सम्पूर्णम् ॥