shrI nAgarAja AvaraNa pUjA kramaH

॥ श्री नागराज आवरण पूजा क्रमः ॥

 

 

पीठपूजा

 

वामायै नमः ।

ज्येष्ठायै नमः ।

रौद्र्यै नमः ।

काल्यै नमः ।

कलविकरिण्यै नमः ।

बलविकरिण्यै नमः ।

बलप्रमथिन्यै नमः ।

सर्वभूतदमन्यै नमः ।

मनोन्मन्यै नमः ।

 

ओं नमो भगवते अनन्ताय सकलगुणात्म शक्तियुक्ताय योगपद्मपीठात्मने नमः ।

 

श्री नागराज आवाहनम्

 

फणाष्टशतशेखरं द्रुतस्वर्णपुञ्जप्रभं

वराभरण भूषितं तरणि जालताम्रांशुकम् ।

सवज्रवरलक्षणं नवसरोज रक्तेक्षणं

नमामि शिरसा सुरासुरनमस्कृतं नागेन्द्रम् ॥

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि नमः। वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। आसनं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। पादयोः पाद्यं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। हस्तयोः अर्घ्यं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। मुखे आचमनीयं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। वस्त्राणि कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। आभरणानि कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। दिव्य परिमल गन्धं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। गन्धस्योऽपरि हरिद्राकुङ्कुमं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। पुष्पाणि कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। धूपं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। दीपं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। नैवेद्यं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। अमृतपानीयं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। सुगन्ध ताम्बूलं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। कर्पूर नीराञ्जनं कल्पयामि नमः ।

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराजाय नमः। प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ओं संविन्मये परे देव परामृत रुचिप्रिय ।

अनुज्ञां नागराजं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ओं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नमः शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

कामरूपिणे शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

महाबलाय कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नागाधिपतये नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

स्वाहा अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणं

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम् (बिन्दौ)

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री नागराज प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम् (षट्कोणे)

 

ओं हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नमः शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

कामरूपिणे शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

महाबलाय कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

नागाधिपतये नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

स्वाहा अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री नागराज प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम् (अष्टदले)

 

ओं उषायै नमः । उषा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं प्रतिसरायै नमः । प्रतिसरा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सन्ध्यायै नमः । सन्ध्या श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं धूपिन्यै नमः । धूपिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं करालिकायै नमः । करालिका श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं भीषिण्यै नमः । भीषिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं द्राविण्यै नमः । द्राविणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वारण्यै नमः । वारणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री नागराज प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम् (अष्टदलाग्रे)

 

ओं प्रमदायै नमः । प्रमदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं नर्मदायै नमः । नर्मदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं तारायै नमः । तारा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सुप्रभायै नमः । सुप्रभा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं कुमुद्वत्यै नमः । कुमुद्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पद्मिन्यै नमः । पद्मिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं द्राविण्यै नमः । द्राविणी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं मोहिन्यै नमः । मोहिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री नागराज प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम् (भूपुरे)

 

ओं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं क्षां नि‌र्ऋतये नमः । नि‌र्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री नागराज प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

षष्ठावरणम् (भूपुरे)

 

ओं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पां पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । श्री नागराज श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री नागराज प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्व्यात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारपूजान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *