॥ श्री आशुगरुड कवच स्तोत्रम् ॥
श्रीदेव्युवाच –
देवदेव महादेव सर्वज्ञ करुणानिधे ।
पाहि मां कृपया शम्भो परमानन्द शङ्कर ॥ 1 ॥
यत्तु गुह्यं शुभतरं सर्वरक्षाकरं परम् ।
गरुडात्मान्येन मन्त्रेण सन्तुष्यति हि तद्वद् ॥ 2 ॥
श्रीशिव उवाच –
साधुदेवी महाप्राज्ञे ज्ञानं वक्ष्यामि शंकरि ।
आशुतार्क्ष्यस्य कवचं महामन्त्रं वदाम्यहम् ॥ 3 ॥
भोगमोक्षदं अज्ञानतिमिरान्धस्य तौलिकम् ।
भुक्तिमुक्तिप्रदं श्रेष्टं सिद्धिदं सर्वसिद्धिदम् ॥ 4 ॥
ऋषिन्यास प्रभावाश्च श।ङ्करादिति मन्त्रवित् ।
समाहितेन मनसा जपेन्मन्त्रोत्तमोत्तमम् ॥ 5 ॥
अस्य श्री आशुगरुड (आशुतार्क्ष्य) कवचस्य शङ्कर ऋषि: ।
जगती छन्द: । श्री आशुगरुड देवता ॥
गां बीजं । स्वाहा शक्ति: ।
मम सर्वाभीष्ट सिद्ध्यर्थे कवचजपे विनियोग: ॥
करन्यासः
गां श्रीं अगुंष्ठाभ्यां नम: ।
गीं श्रीं तर्जनीभ्यां नम: ।
गूं श्रीं मध्यमाभ्यां नम: ।
गैं श्रीं अनामिकाभ्यां नम ।
गौं श्रीं कनिष्ठिकाभ्यां नम: ।
ग: श्रीं करतलकरपृष्ठाभ्यां नम: ।
अङ्गन्यासः
गां श्रीं हृदयाय नम: ।
गीं श्रीं शिरसे स्वाहा ।
गूं श्रीं शिखायै वषट् ।
गैं श्रीं कवचाय हुं ।
गौं श्रीं नेत्रत्रयाय वौषट् ।
ग: श्रीं अस्त्राय फट् ।
ध्यानम्
आजानोस्तप्तहेम प्रभममलमय प्रख्मानाभि तस्मात्
आकर्णकुंभमाभं भ्रमरकुलमिव श्याममामूर्ध्व केशम् ।
ब्रह्माण्डं व्याप्तदेहं द्विभुजमभिवरै: भूषणैर्भूषितांगम्
पिंगाक्षं तीक्ष्णदंष्ट्रं वरदमभयदं तार्क्ष्यमुग्रं नमामि ॥
अमृत कलश हस्तं कान्ति सम्पूर्ण देहं
सकलविबुध वन्द्यं वेदशास्त्रैरचिन्त्यम् ।
विबुधसुलभपक्षर्धूयमानाऽडकोलं
सकल विश विनाशम् चिन्तयेत् पक्षिराजम् ॥
पिङ्गलाक्षं गरुत्मन्तं स्वर्णवर्ण समप्रभम् ।
कुञ्जितं वामपादं तु दक्षिणं पृष्ठतः स्थितम् ॥
अनन्तो वाम कटकं यज्ञसूत्रं तु वासुकिः ।
तक्षको कटिसूत्रञ्च हार कार्कोटकस्तथा ॥
पद्मो दक्षिण कर्णे तु महापद्मंतु वामके ।
शङ्ख शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे ॥
एवं ध्यायेत् त्रिसन्ध्यायां गरुडं क्ष्वेडनाशकम् ॥
कवचः
ओं तार्क्ष्यो मे पुरत: पातु गरुड: पातु पुष्टत: ।
सोम: पातु च मे वामं वैनतेयस्तु दक्षिणम् ॥ 6 ॥
शिखायां गरुड: पातु निटिलं त्वहिसन्धर: ।
नासिकाग्रं विभु: पातु नयने विनुतासुत: ॥ 7 ॥
तेजिष्ठ: श्रोत्रयो: पातु मुखं सन्तापमोचन: ।
ओष्ठयो: पातु नागारि: पातु तालु प्रजाकर: ॥ 8 ॥
जिह्वां खगेश्वर: पातु दन्तान् पात्वरुणानुज: ।
सीरुकश्चिबुकं पातु पातु चोग्र: कपोलयो: ॥ 9 ॥
मगारिहा गलं पातु चांसयो: कृतिविक्रम: ।
करौ पातु च रक्ताक्ष: कराग्रे तु महाबल: ॥ 10 ॥
अन्गुष्ठौ च हरि: पातु तर्जन्यौ हरिवाहन: ।
मध्यमे सुमुख: पातु चानामिके त्रिलोचन: ॥ 11 ॥
कनिष्ठिके महोत्साह: स्वात्मान्ग: पातु दो: स्तनम् ।
करपृष्ठं कलातीतो नखान्यमृत सन्धर: ॥ 12 ॥
हृदयं पातु सर्वज्ञ: कुक्षे पक्षिविराट तत: ।
उर:स्थलं कलावार: पातु मे जठरं परम् ॥ 13 ॥
परात्पर: कटिं पातु पातु नाभिं हरिप्रिय: ।
गुह्यं पातु मनोवेग: जघनं खगपद्मज: ॥ 14 ॥
जितेन्द्रियो गुदं पातु मेढ्रं सन्तानवर्धन: ।
ऊरु पशुपति: पातु जानुनी भक्तवत्सल: ॥ 15 ॥
जन्घे पातु वषट्कार: सर्वलोकवशन्कर: ।
गुल्फौ नीलशिर: पातु पादपृष्ठं मुरारिधृक् ॥ 16 ॥
धीर: पादतलं पातु चान्गुली: परमन्त्रतुत् ।
रोमकूपाणि मे पातु मन्त्रबन्धिविमोचक: ॥ 17 ॥
स्वाहाकारस्त्वंच पातु रुधिरं वेदपारग: ।
साक्षिक: पातु मे मांसं मेदांसि पातु यज्ञभुक् ॥ 18 ॥
सामग: पातु मे चास्थि शुक्रं तु हविवर्धन: ।
शोभन: पातु मे मज्जां बुद्धिं भक्तवरप्रद: ॥ 19 ॥
मूलाधारं खग: पातु स्वाधिष्ठानमथात्मवित् ।
मणिपूरकमत्युग्र: कलधी पात्वनाहतम् ॥ 20 ॥
विशुद्धिमपर: पातु चाज्ञामाखंडलप्रिय: ।
द्रुततार्क्ष्यो महाभीमो ब्रह्मरन्ध्रं स पातु मे ॥ 21 ॥
ऐन्द्रं फणिभुज: पातु आग्नेयं कलिदोषभित् ।
याम्यं लघुगति: पातु नैर्ऋतं सुरवैरिजित् ॥ 22 ॥
पश्चिमं पातु लोकेशो धौतोरु: पातु मारुतम् ।
गुलिकाशीति कौवेरं पातु चैशान्यमौजस: ॥ 23 ॥
ऊर्ध्वं पातु सदानन्द गीत नृत्यप्रियस्तथा ।
गरुड: पातु पातालं गरलाक्षी तनुं तथा ॥ 24 ॥
धनं धान्यादिकं पातु तार्क्ष्यो राक्षसवैरिधृक् ।
भीषण: कन्यका: पातु भार्यामग्निकणेक्षण: ॥ 25 ॥
त्वरित: पातु चात्मानं धर्मकर्म कृतोत्तम: ।
पुत्रनायुष्कर: पातु वंशं रिपुनिषूदन: ॥ 26 ॥
सन्ग्रामे विजय: पातु माग्रं शत्रुविमर्दन: ।
सिद्धिं पातु महादेवो भगवान भुजगासन: ॥ 27 ॥
सततं पातु मां श्रेष्ठं स्वस्तिद: साधकात्मवान् ।
जाग्रत्स्वप्नसुषुप्तौ च कुन्कुमारुणवक्षस: ॥ 28 ॥
सर्वसंपत्प्रद: पातु स्तुतिर्मन्त्रस्य सिद्धिषु ।
फलस्तुतिः
इदं तु तार्क्ष्यकवचं पुरुषार्थप्रदं परम् ॥ 29 ॥
स्वस्तिदं पुत्रदं सर्वरक्षाकरं अनुत्तमम् ।
युद्धे वह्निभये चैव राज चोर समागमे ॥ 30 ॥
महाभूतारिसन्घट्टे निजपेत् कवचं शिवे ।
स्मरणादेव नश्यन्ति प्रचन्डानलतूलवत् ॥ 31 ॥
आशुतार्क्ष्यास्य कवचं परमं पुण्यवर्धनम् ।
महागुह्यं महामन्त्रं महामोहन सन्ज्ञकम् ॥ 32 ॥
सर्वदेवमय मन्त्रं सर्वायुधकरं परम् ।
सर्वमृत्यु प्रशमनं सर्वसौभाग्य वर्धनम् ॥ 33 ॥
पावनं परमायुष्यं पाप पाश प्रमोचनम् ।
मुनीश्वरैश्च यमिभि:र्नाभिजाद्यमरै: परै: ॥ 34 ॥
गुह्यकैश्च सुरश्रेष्ठै: स्तूयमानं महोज्ज्वलम् ।
त्रिकालं प्रजपेद् ध्यानपूर्वकं कवचं शिवे ॥ 35 ॥
सहसा सर्वसिद्धि: स्याद्वाग्विभूतिर्विशेषत: ।
मुनीनामपि संपूज्य: कवचेनावृत: पुमान् ॥ 36 ॥
चतुर्दशसु लोकेषु सन्चरेन्मारवतु स: ।
अनेनैव तु कायेन भूतले बहुसंपदम् ॥ 37 ॥
चिरं प्राप्य तु देहान्ते विष्णुसायुज्यमाप्नुयात् ॥ 38 ॥
शिखि ऋतु वसु कोणं चाष्टपत्रं भुवं च ।
क्रतु शत शशिचाग्निं भास्कर व्योमकं च ॥
सकलमनिलयुक्तं तद्बिहि: साध्यशक्तिम् ।
धृत मृत सुत वन्ध्या पुत्रदं तार्क्ष्यमेतत् ॥ 39 ॥
इदं चक्रं महाख्यातं सर्ववक्त्रोक्तमुत्तमम् ।
महागुह्यं महाभीमं महासिद्धिकरं परम् ॥ 40 ॥
शुक्रवासरमारभ्य पूज्य जप्त्वा दिनत्रयम् ।
अनेन कवचेनैव जपेदष्टोत्तरं शतम् ॥ 41 ॥
तज्जलेनाभिषिन्च्याथ होमं कृत्वा हि रुक्षकै: ।
निमज्जतां जले देवि बन्धयेत् पुत्रकामिनाम् ॥ 42 ॥
॥ इति श्री आकाशभैरवकल्पे आशुगरुड (आशुतार्क्ष्य) कवच स्तोत्रं संपूर्णम् ॥