shrI nAgaraja mantra japa kramaH

 

॥ श्री नागराज महामन्त्र जप क्रमः ॥

 

अस्य श्री नागराज महामन्त्रस्य काश्यप ऋषिः ।

गायत्री छन्दः । नागराजो देवता ।

ओं बीजं ।  स्वाहा शक्तिः । नागाधिपतये कीलकं ।

श्रीनागराज महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

करन्यासः

 

ओं अङ्गुष्ठाभ्यां नमः ।

नमः तर्जनीभ्यां नमः ।

कामरूपिणे मध्यमाभ्यां नमः ।

महाबलाय अनामिकाभ्यां नमः ।

नागाधिपतये कनिष्ठिकाभ्यां नमः ।

स्वाहा करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

ओं हृदयाय नमः ।

नमः शिरसे स्वाहा ।

कामरूपिणे शिखायै वषट् ।

महाबलाय कवचाय हुं ।

नागाधिपतये नेत्रत्रयाय वौषट् ।

स्वाहा अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम्

 

फणाष्टशतशेखरं द्रुतस्वर्णपुञ्जप्रभं

वराभरण भूषितं तरणि जालताम्रांशुकम् ।

सवज्रवरलक्षणं नवसरोज रक्तेक्षणं

नमामि शिरसा सुरासुरनमस्कृतं नागेन्द्रम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्व्यात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारपूजान् कल्पयामि ।

 

मन्त्रः ओं नमः कामरूपिणे महाबलाय नागाधिपतये स्वाहा । (108 वारं)

 

गायत्री मन्त्रः ओं नागराजाय विद्महे पद्महस्ताय धीमहि तन्नो अनन्तः प्रचोदयात् ।

 

अङ्गन्यासः

 

ओं हृदयाय नमः ।

नमः शिरसे स्वाहा ।

कामरूपिणे शिखायै वषट् ।

महाबलाय कवचाय हुं ।

नागाधिपतये नेत्रत्रयाय वौषट् ।

स्वाहा अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ।

 

ध्यानम्

 

फणाष्टशतशेखरं द्रुतस्वर्णपुञ्जप्रभं

वराभरण भूषितं तरणि जालताम्रांशुकम् ।

सवज्रवरलक्षणं नवसरोज रक्तेक्षणं

नमामि शिरसा सुरासुरनमस्कृतं नागेन्द्रम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्व्यात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारपूजान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *