nIlakaNTha shiva vidhAnam

 

॥ श्रीनीलकण्ठ शिव महामन्त्र जप क्रमः ॥

[toggle]

अस्य श्री नीलकण्ठ शिव महामन्त्रस्य हर (अरुण) ऋषिः ।

अनुष्टुप् छन्दः । श्री नीलकण्ठ शिवो देवता ।

 

प्रो बीजं । ठः शक्तिः । न्रीं कीलकं ।

श्री नीलकण्ठ महामन्त्र प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

 

करन्यासः –

 

हर हर स्वाहा अङ्गुष्ठाभ्यां नमः ।

कपर्दिने स्वाहा तर्जनीभ्यां नमः ।

नीलकण्ठाय स्वाहा मध्यमाभ्यां नमः ।

कालकूटविषभक्षणाय हुं फट् अनामिकाभ्यां नमः ।

नीलकण्ठिने स्वाहा करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः –

 

हर हर स्वाहा हृदयाय नमः ।

कपर्दिने ठः ठः शिरसे स्वाहा ।

नीलकण्ठाय ठः ठः शिखायै वषट् ।

कालकूटविषभक्षणाय हुं फट् कवचाय हुं ।

नीलकण्ठिने स्वाहा अस्त्राय फट् ।

 

मूल मन्त्र न्यासः –

 

प्रों नमः – शिरसि ।

न्रीं नमः – कण्ठे ।

ठः नमः – शिरसि ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानम् –

 

बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं

       नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः ।

खड्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं

       व्याघ्रत्वक् परिधानं अब्जनिलयं श्रीनीलकण्ठं भजे ॥

 

अन्य ध्यानम् –

 

ध्यायेद्देवं नीलकण्ठं बालार्कायुतवर्चसम् ।

जटाजूटलसच्चन्द्रशकलं फणिसत्तमैः ॥

 

कृताकल्पं करांभोजैर्दधानं जपमालिकाम् ।

शूलं च दक्षिणाधोर्ध्वं वामोर्ध्वं च कपालकम् ॥

 

खट्वाङ्गं तदधोहस्ते पञ्चवक्त्रविराजितम् ।

प्रतिवक्त्रं त्रिनयनं व्याघ्रचर्माम्बरावृतम् ।

पद्ममध्ये समासीनमतिसुन्दरविग्रहम् ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं नैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

मूलं – प्रों न्रीं ठः । (108 वारं)

अन्य मन्त्रः – प्रों व्रीं ठः । (108 वारं)

 

अङ्गन्यासः –

 

हर हर स्वाहा हृदयाय नमः ।

कपर्दिने ठः ठः शिरसे स्वाहा ।

नीलकण्ठाय ठः ठः शिखायै वषट् ।

कालकूटविषभक्षणाय हुं फट् कवचाय हुं ।

नीलकण्ठिने स्वाहा अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ॥

 

ध्यानम् –

 

बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं

       नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः ।

खड्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं

       व्याघ्रत्वक् परिधानं अब्जनिलयं श्रीनीलकण्ठं भजे ॥

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं नैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

 

पुरश्चरण विधिः –

 

लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा ।

हविषा जुहुयात् सम्यक् संस्कृते हव्यवाहने ॥

 

यन्त्रः –

 

अष्टदल कमलं तद्बहिः चतुर्द्वार त्रीः चतुरस्रम् ।

[/toggle]

॥ श्री नीलकण्ठ शिव आवरण पूजा क्रमः ॥

[toggle]

श्रीकण्ठ न्यासः

 

अस्य श्री श्रीकण्ठन्यास महामन्त्रस्य भगवान् दक्षिणामूर्ति ऋषिः ।

गायत्री छन्दः । श्री अर्धनारीश्वरो देवता ।

 

ह्ल्भ्यो बीजेभ्यो नमः । स्वरेभ्यः शक्तिभ्यो नमः । बिन्दुभ्यः कीलकेभ्यो नमः ।

मम श्रीनीलकण्ठशिवावरणपूजाङ्गत्वेन न्यासे विनियोगः ॥

 

करन्यासः

 

ॐ ह्रीं नमो भगवति ब्राह्मी रक्ष रक्ष पद्महस्तेन मां रक्ष रक्ष अं कं खं गं घं ङं आं हौं ह्रीं ह्सौं सञ्जीविनी अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं नमो भगवति माहेश्वरी रक्ष रक्ष शूलहस्तेन मां रक्ष रक्ष इं चं छं जं झं ञं ईं हौं ह्रीं ह्सौं ऊर्ध्वकेशिनी तर्जनीभ्यां नमः ।

ॐ ह्रीं नमो भगवति कौमारी रक्ष रक्ष शक्तिहस्तेन मां रक्ष रक्ष उं टं ठं डं ढं णं ऊं हौं ह्रीं ह्सौं जटिलिनी मध्यमाभ्यां नमः ।

ॐ ह्रीं नमो भगवति वैष्णवी रक्ष रक्ष चक्रहस्तेन मां रक्ष रक्ष एं तं थं दं धं नं ऐं हौं ह्रीं ह्सौं महात्रैलोक्यरप सहस्रपरिवर्तिनि अनामिकाभ्यां नमः ।

ॐ ह्रीं नमो भगवति वाराही रक्ष रक्ष दंष्ट्रहस्तेन मां रक्ष रक्ष ओं पं फं बं भं मं औं हौं ह्रीं ह्सौं तारकाक्षिणी कनिष्ठिकाभ्यां नमः ।

ॐ ह्रीं नमो भगवति ऐन्द्री रक्ष रक्ष वज्रहस्तेन मां रक्ष रक्ष अं यं रं अः हौं ह्रीं ह्सौं मारय मारय करतलकरपृष्ठाभ्यां नमः ।

ॐ ह्रीं नमो भगवति चामुण्डे रक्ष रक्ष पाशहस्तेन मां रक्ष रक्ष अं इं उं एं ओं अं आं ईं ऊं ऐं औं अः हौं ह्रीं ह्सौं मम सर्वाङ्गं रक्ष रक्ष सर्वाङ्गव्यापिनि स्वाहा । सर्वाङ्गे ॥

                                                          

अङ्गन्यासः

 

ॐ ह्रीं नमो भगवति ब्राह्मी रक्ष रक्ष पद्महस्तेन मां रक्ष रक्ष अं कं खं गं घं ङं आं हौं ह्रीं ह्सौं सञ्जीविनी हृदयाय नमः ।

ॐ ह्रीं नमो भगवति माहेश्वरी रक्ष रक्ष शूलहस्तेन मां रक्ष रक्ष इं चं छं जं झं ञं ईं हौं ह्रीं ह्सौं ऊर्ध्वकेशिनी शिरसे स्वाहा ।

ॐ ह्रीं नमो भगवति कौमारी रक्ष रक्ष शक्तिहस्तेन मां रक्ष रक्ष उं टं ठं डं ढं णं ऊं हौं ह्रीं ह्सौं जटिलिनी शिखायै वषट् ।

ॐ ह्रीं नमो भगवति वैष्णवी रक्ष रक्ष चक्रहस्तेन मां रक्ष रक्ष एं तं थं दं धं नं ऐं हौं ह्रीं ह्सौं महात्रैलोक्यरप सहस्रपरिवर्तिनि कवचाय हुं ।

ॐ ह्रीं नमो भगवति वाराही रक्ष रक्ष दंष्ट्रहस्तेन मां रक्ष रक्ष ओं पं फं बं भं मं औं हौं ह्रीं ह्सौं तारकाक्षिणी नेत्रत्रयाय वौषट् ।

ॐ ह्रीं नमो भगवति ऐन्द्री रक्ष रक्ष वज्रहस्तेन मां रक्ष रक्ष अं यं रं अः हौं ह्रीं ह्सौं मारय मारय अस्त्राय फट् ।

ॐ ह्रीं नमो भगवति चामुण्डे रक्ष रक्ष पाशहस्तेन मां रक्ष रक्ष अं इं उं एं ओं अं आं ईं ऊं ऐं औं अः हौं ह्रीं ह्सौं मम सर्वाङ्गं रक्ष रक्ष सर्वाङ्गव्यापिनि स्वाहा । सर्वाङ्गे ॥

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानम्

 

पाशाङ्कुश वराक्षस्रक् पाणिं शीतांशु शेखरम् ।

त्र्यक्षं रक्तवर्णं अर्धनारीश्वरं भजे ॥

 

दक्षाधः करमारभ्य दक्षोर्ध्वकरपर्यन्तं आयुधानि ध्यात्वा ।

 

ऐं ह्रीं श्रीं ह्सौः स्हौः अं श्रीकण्ठेश पूर्णोदर्यै नमः – शिरसि ।

ऐं ह्रीं श्रीं ह्सौः स्हौः आं अनन्तेश विरजायै नमः – मुखवृते ।

ऐं ह्रीं श्रीं ह्सौः स्हौः इं सूक्ष्मेश शाल्मल्यै नमः – दक्षनेत्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ईं त्रिमुर्तीश लोलाक्ष्यै नमः – वामनेत्रे । 

ऐं ह्रीं श्रीं ह्सौः स्हौः उं अमरेश वर्तुलाक्ष्यै नमः – दक्षकर्णे । 

ऐं ह्रीं श्रीं ह्सौः स्हौः ऊं अर्धेश दीर्घोषणायै नमः – वामकर्णे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ऋं भूरिभूतेश सुदीर्घमुख्यै नमः – दक्षनासापुटे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ॠं तिथीश गोमुख्यै नमः – वामनासापुटे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ऌं स्थाण्वीश दीर्घजिह्वायै नमः – दक्षकपोले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ॡं हरेशाय कुण्डोदर्यै नमः – वामकपोले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः एं झण्डीश ऊर्ध्वकेश्यै नमः – ऊर्ध्वोष्ठे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ऐं भौतिकेश विकृतमुख्यै नमः – अधरोष्ठे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ओं सद्योजात ज्वालामुख्यै नमः – ऊर्ध्वदन्तपङ्क्तौ ।

ऐं ह्रीं श्रीं ह्सौः स्हौः औं अनुग्रहेश उल्कामुख्यै नमः – अधोदन्तपङ्क्तौ ।

ऐं ह्रीं श्रीं ह्सौः स्हौः अं अक्रूरेश श्रीमुख्यै नमः – जिह्वाग्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः अः महासेनेश विद्यामुख्यै नमः – कण्ठे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः कं क्रोधीश महाकाल्यै नमः – दक्षबाहुमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः खं चण्डेश सरस्वत्यै नमः – दक्षकूर्परे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः गं पञ्चान्तकेश सर्वसिद्धिगौर्यै – दक्षमणिबन्धे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः घं शिवोत्तमेश त्रैलोक्यविद्यायै नमः – दक्षकराङ्गुलिमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ङं एकरूपेश मन्त्रशक्त्यै नमः – दक्षकराङ्गुल्यग्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः चं कूर्मेश आत्मशक्त्यै नमः – वामबाहुमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः छं एकनेत्रेश भुतमात्रे नमः – वामकूर्परे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः जं चतुराननेश लम्बोदर्यै नमः – वाममणिबन्धे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः झं अजेश विद्राविण्यै नमः – वामकराङ्गुलिमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ञं शर्मेश नागर्यै नमः – वामकराङ्गुल्यग्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः टं सोमेश खेचर्यै नमः – दक्षोरुमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ठं लाङ्गलीश मञ्जर्यै नमः – दक्षजानुनी ।

ऐं ह्रीं श्रीं ह्सौः स्हौः डं दारुकेश रूपिण्यै नमः – दक्षगुल्फे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ढं अर्धनारीश्वराधीश वीरिण्यै नमः – दक्षपादाङ्गुलिमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः णं उमाकान्तेश काकोदर्यै नमः – दक्षपादाङ्गुल्यग्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः तं आषाढीश पूतनायै नमः – वामोरुमूले । 

ऐं ह्रीं श्रीं ह्सौः स्हौः थं दण्डीश भद्रकाल्यै नमः – वामजानुनी ।

ऐं ह्रीं श्रीं ह्सौः स्हौः दं आर्द्रीश योगिन्यै नमः – वामगुल्फे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः धं मीनेश शङ्खिन्यै नमः – वामपादाङ्गुलिमूले ।

ऐं ह्रीं श्रीं ह्सौः स्हौः नं मेषेश गर्जन्यै नमः – वामपादाङ्गुल्यग्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः पं लोहितेश कालरात्र्यै नमः – दक्षपार्श्वे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः फं शिकीश कुर्दिन्यै नमः – वामपार्श्वे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः बं छगलाण्डेश कपर्दिन्यै नमः – पृष्ठे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः भं द्विरण्डेश वज्रिण्यै नमः – नाभौ । 

ऐं ह्रीं श्रीं ह्सौः स्हौः मं महाकालेश जयायै नमः – जठरे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः यं त्वगात्मक कापालीश सुमुख्यै नमः – हृदये ।

ऐं ह्रीं श्रीं ह्सौः स्हौः रं असृगात्मक भुजङ्गीश रेवत्यै नमः – दक्षकक्ष्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः लं मांसात्मक पिनाकीश माधव्यै नमः – गलपृष्ठे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः वं मेदात्मक खड्गीश वारुण्यै नमः – वामकक्ष्रे ।

ऐं ह्रीं श्रीं ह्सौः स्हौः शं अस्त्यात्मक भगेश वायव्यै नमः – हृदयादिदक्षकरान्ङ्गुल्यन्ते ।

ऐं ह्रीं श्रीं ह्सौः स्हौः षं मज्जात्मक श्वेतेश रक्षोविदारिण्यै नमः – हृदयादिवामकरान्ङ्गुल्यन्ते ।

ऐं ह्रीं श्रीं ह्सौः स्हौः सं शुक्लात्मक भृग्वीश सहजायै नमः – हृदयादिवामकरान्ङ्गुल्यन्ते।

ऐं ह्रीं श्रीं ह्सौः स्हौः हं प्राणात्मक नकुलीश महालक्ष्म्यै नमः – हृदयादि-वामपादान्ङ्गुल्यन्ते ।

ऐं ह्रीं श्रीं ह्सौः स्हौः ळं शवत्यामक शिवेश व्यापिन्यै नमः – कट्यादि-पादाङ्गुल्यन्तं ।

ऐं ह्रीं श्रीं ह्सौः स्हौः क्षं नमःशिवाय क्षं शिवात्मक संवर्तेश महामायायै नमः – कट्यादि-ब्रह्मरन्ध्रान्तं ।

 

पीठ पूजा –

 

ॐ ह्रीं हौं वामायै नमः ।

ॐ ह्रीं हौं ज्येष्ठायै नमः ।

ॐ ह्रीं हौं रौद्य्रै नमः ।

ॐ ह्रीं हौं काळ्यै नमः ।

ॐ ह्रीं हौं कलविकरिण्यै नमः ।

ॐ ह्रीं हौं बलविकरिण्यै नमः ।

ॐ ह्रीं हौं बलप्रमथिन्यै नमः ।

ॐ ह्रीं हौं सर्वभूतदमन्यै नमः ।

ॐ ह्रीं हौं मनोन्मन्यै नमः ।

 

ॐ नमो भगवते सकलगुणात्मकशक्तियुक्ताय अनन्ताय योगपीठात्मने नमः ।

 

ध्यानम् –

 

बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं

       नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः ।

खड्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं

       व्याघ्रत्वक् परिधानं अब्जनिलयं श्रीनीलकण्ठं भजे ॥

 

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वरं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । स्थापिता भव । स्थापण मुद्रां प्रदर्श्य ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । संस्थितो भव । संस्थित मुद्रां प्रदर्श्य ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्श्य ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । सम्मुखी भव । सम्मुखी मुद्रां प्रदर्श्य ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्श्य।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय श्रीपादुकां पूजयामि नमः । वन्दन धेनु पञ्चमुखी मुद्रां प्रदर्श्य ।

 

ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

षोडश उपचार पूजा –

 

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । आसनं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । पादयोः पाद्यं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । मुखे आचमनीयं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । शुद्धोदक स्नानं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । वस्त्राणि कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । आभरणानि कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । दिव्य परिमल गन्धं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । पुष्पाक्षतानि कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । धूपं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । दीपं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । नैवेद्यं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । अमृतपानीयं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

प्रों न्रीं ठः । श्री नीलकण्ठ महेश्वराय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ॐ संविन्मये परेदेव परामृतरुचिप्रिय ।

अनुज्ञां देहि परमन् परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम् –

 

हर हर स्वाहा हृदयाय नमः । हृदय शक्ती श्री पादुकां पूजयामि तर्पयामि नमः ।

कपर्दिने ठः ठः शिरसे स्वाहा । शिरो शक्ती श्री पादुकां पूजयामि तर्पयामि नमः ।

नीलकण्ठाय ठः ठः शिखायै वषट् । शिखा शक्ती श्री पादुकां पूजयामि तर्पयामि नमः।

कालकूटविषभक्षणाय हुं फट् कवचाय हुं । कवच शक्ती श्री पादुकां पूजयामि तर्पयामि नमः ।

नीलकण्ठिने स्वाहा अस्त्राय फट् । अस्त्र शक्ती श्री पादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम् –

 

प्रों न्रीं ठः । श्री नीलकण्ठ शिव श्री पादुकां पूजयामि तर्पयामि नमः । (१० वारं)

 

प्रथमावरणम् – अष्टदले मूले

 

हर हर स्वाहा हृदयाय नमः । हृदय शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।

कपर्दिने ठः ठः शिरसे स्वाहा । शिरो शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।

नीलकण्ठाय ठः ठः शिखायै वषट् । शिखा शक्ति श्री पादुकां पूजयामि तर्पयामि नमः।

कालकूटविषभक्षणाय हुं फट् कवचाय हुं । कवच शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।

नीलकण्ठिने स्वाहा अस्त्राय फट् । अस्त्र शक्ति श्री पादुकां पूजयामि तर्पयामि नमः ।

 

सत्वगुणाय नमः । सत्व गुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

रजोगुणाय नमः । रजो गुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

तमोगुणाय नमः । तमो गुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

प्रों न्रीं ठः । श्री नीलकण्ठ शिव श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मक श्री नीलकण्ठ शिव प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

द्वितीयावरणम् – अष्टदलाग्रे

 

ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

माहेन्द्र्यै नमः । माहेन्द्री श्रीपादुकां पूजयामि तर्पयामि नमः ।

चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

महालक्ष्म्यै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितियावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

प्रों न्रीं ठः । श्री नीलकण्ठ शिव श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं द्वितियावरणार्चनम् ॥

 

अनेन द्वितियावरणार्चनेन भगवान् सर्वदेवात्मक श्री नीलकण्ठ शिव प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

तृतीयावरणम् – अष्टदलमध्ये

 

असिताङ्ग भैरवाय नमः । असिताङ्ग भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

रुरु भैरवाय नमः । रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

चण्ड भैरवाय नमः । चण्ड भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

क्रोध भैरवाय नमः । क्रोध भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

उन्मत्त भैरवाय नमः । उन्मत्त भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

कापाल भैरवाय नमः । कापाल भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

भीषण भैरवाय नमः । भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

संहार भैरवाय नमः । संहार भैरव श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

प्रों न्रीं ठः । श्री नीलकण्ठ शिव श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री नीलकण्ठ शिव प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

तुरीयावरणम् – भूपुरे

 

लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

टां यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

क्षां निर्ऋतये नमः । निरृति श्रीपादुकां पूजयामि तर्पयामि नमः ।

वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

प्रों न्रीं ठः । श्री नीलकण्ठ शिव श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं तुरियावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मक श्री नीलकण्ठ शिव प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

पञ्चमावरणम् – भूपुर बहिः

 

वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

गं गदायै नमः । गदा श्रीपादुकां पूजयामि तर्पयामि नमः ।

त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

प्रों न्रीं ठः । श्री नीलकण्ठ शिव श्रीपादुकां पूजयामि तर्पयामि नमः । (३ वारं)

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मक श्री नीलकण्ठ शिव प्रीयताम् । (योनि मुद्रया प्रणमेत् ।)

 

पञ्चपूजा –

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं नैवेद्यं कल्पयामि ।

सं सर्वात्मने समस्तोपचार पूजान् कल्पयामि ।

[/toggle]

श्रीनीलकण्ठ स्तवः

[toggle]

नमो भूतनाथं नमो देवदेवं

      नमः कालकालं नमो दिव्यतेजः ।

नमः कालभस्मं नमः शान्तशीलं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 1

 

सदा तीर्थसिद्धं सदा भक्तरक्षं

      सदा शैवपूज्यं सदा शुभ्रभस्मम् ।

सदा ध्यानयुक्तं सदा ज्ञानतल्पं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 2

 

श्मशाने शयानं महास्थानवासं

      शरीरं गजानां सदा चर्मवेष्टम् ।

पिशाचा(आदिनाथं)पशूनां प्रतिष्ठं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 3

 

फणीनागकण्ठं भुजङ्गाङ्गभूषं

      गले रुण्डमालं महावीरशूरम् ।

कटिव्याघ्रचर्माञ्चिताभस्मलेपं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 4

 

शिरश्शुद्धगङ्गं शिवावामभागं

      वियद्दीर्घकेशं सदा मां त्रिनेत्रम् ।

फणीनागकर्णं सदास्फालचन्द्रं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 5

 

करे शूलधारं महाकष्टनाशं

      सुरेशं परेशं महेशं जनेशम् ।

धने चारु ईशं ध्वजेशं गिरीशं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 6

 

उदासं सुदासं सुकैलासवासं

      धरानिर्झरे संस्थितं ह्यादिदेवम् ।

अजं हेमकल्पद्रुमं कल्पसेव्यं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 7

 

मुनीनां वरेण्यं गुणं रूपवर्णं

      द्विजा सम्पठन्तं शिवं वेदशास्त्रैः ।

अहो दीनवत्सं कृपालुं शिवं तं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 8

 

सदा भावनाथं सदा सेव्यमानं

      सदा भक्तिदेवं सदा पूज्यमानम् ।

महातीर्थवासं सदा सेव्यमेकं

      भजे पार्वतीवल्लभं नीलकण्ठम् ॥ 9

 

॥ इति श्रीनीलकण्ठस्तवः सम्पूर्णम् ॥

[/toggle]

॥ श्रीरुद्र नमक स्तोत्रम् ॥

[toggle] 

ध्यानम् –

 

आपाताल नभः स्थलान्त भुवन ब्रह्माण्डमाविस्फुर-

ज्ज्योतिःस्फाटिकलिङ्ग मौलिविलसत् पूर्णेन्दु वान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्

ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥

 

ब्रह्माण्डव्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः

कण्ठे कालाः कपर्दाः कलितशशिकलाश्चण्ड कोदण्ड हस्ताः ।
त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः

रुद्राः श्रीरुद्रसूक्त प्रकटित विभवाः नः प्रयच्छन्तु सौख्यम् ॥

 

इत्युक्त्वा सत्वरं साम्बं स्मृत्वा शङ्करपादुके

ध्यात्वा ययौ गणाधीशः शिवसन्निधिमादरात् ।


ततः प्रणम्य बहुधा कृताञ्जलिपुटः प्रभुः
शम्भुं स्तोतुं मतिं चक्रे सर्वाभीष्टप्रदायकम् ॥

 

गणेश उवाच –
नमस्ते देवदेवाय नमस्ते रुद्र मन्यवे ।
नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ 1 ॥

 

नमस्ते पार्वतीकान्तायैकरूपाय धन्वने ।
नमस्ते भगवन् शम्भो बाहुभ्यामुत ते नमः ॥ 2 ॥

 

इषुः शिवतमा या ते तया मृडाय रुद्र माम् ।
शिवं धनुर्यद्बभूव तेनापि मृडयाधुना ॥ 3 ॥

 

शरव्या या शिवतमा तयापि मृडय प्रभो ।
या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ 4 ॥

 

तयाभिचाकशीहि त्वं तनुवा मामुमापते ।
घोरया तनुवाचापि रुद्राद्यापापकाशिनी ॥ 5 ॥

 

या तया मृडय स्वामिन् सदा शन्तमया प्रभो ।
गिरिशन्त महारुद्र हस्ते यामिषुमस्तवे ॥ 6 ॥

 

बिभर्षि तां गिरित्राद्य शिवां कुरु शिवापते ।
शिवेन वचसा रुद्र नित्यं वाचा वदामसि ॥ 7 ॥

 

त्वद्भक्ति परिपूताङ्गं महिंसीः पुरुषं जगत् ।
यच्च शर्व जगत्सर्वमयक्ष्मं सुमना असत् ॥ 8 ॥

 

यथा तथावमां रुद्र तदन्यधापि मे प्रभो ।
रुद्र त्वं प्रथमो दैव्यो भिषक् पापविनाशकः ॥ 9 ॥

 

अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा ।
अहीन् सर्वान् यातु धान्यः सर्वा अप्यद्य जम्भयन् ॥ 10 ॥

 

असौ ताम्रोरुणो बभ्रुः नीलग्रीवः सुमङ्गलः ।
विलोहितोस्त्वयं शम्भो त्वदधिष्ठान एव हि ॥ 11 ॥

 

नमो नमस्ते भगवन् नीलग्रीवाय मीढुषे ।
सहस्राक्षाय शुद्धाय सच्चिदानन्दमूर्तये ॥ 12 ॥

 

उभयोगार्त्नियोर्ज्या या धन्वनस्तां प्रमुञ्चताम् ।
सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ 13 ॥

 

अस्मद्भय विनाशार्थ मधुनाभयद प्रभो ।
याश्च ते हस्त इषवः परता भगवो वाप ॥ 14 ॥

 

अवतत्य धनुश्च त्वं सहस्राक्ष शतेषुधे ।
मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ 15 ॥

 

विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि ।
अनेशन्निषवश्चापि ह्याभुरस्तु निषङ्गथिः ॥ 16 ॥

 

कपर्दिनो महेशस्य यदि नाभुर्निषङ्गथिः ।
इषवो पि समर्थाश्चेत् सामर्थ्येतु भयं भवेत् ॥ 17 ॥

 

या ते हेतिर्धनुर्हस्ते मीढुष्टम बभूव या ।
तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ 18 ॥

 

अनाततायायुधाय नमस्ते धृष्णवे नमः ।
बाहुभ्यां धन्वने शम्भो नमो भूयो नमो नमः ॥ 19 ॥

 

परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु नः ।
इषुधिस्तव या तावदस्मदारे निधेहि तम् ॥ 20 ॥

 

हिरण्यबाहवे तुभ्यं सेनान्ये ते नमो नमः ।
दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ 21 ॥

 

त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते ।
नमः पथीनां पतये बभ्लुशाय नमो नमः ॥ 22 ॥

 

नमो विव्याधिनेन्नानां पतये प्रभवे नमः ।
नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥ 23 ॥

 

पुष्टानां पतये तुभ्यं जगतां पतये नमः ।
संसार हेति रूपाय रुद्रायाप्याततायिने ॥ 24 ॥

 

क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।
अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ 25 ॥

 

रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।
कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ 26 ॥

 

तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।
ओषाधीनां च पतये नमस्तुभ्यं महात्मने ॥ 27 ॥

 

उच्चैर्घोषाय धीराय धीरान् क्रन्दयते नमः ॥ 28 ॥

 

पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ।
धावते धवलायापि सत्त्वनां पतये नमः ॥ 29 ॥

 

आव्याधिनीनां पतये ककुभाय निषङ्गिणे ।
स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ 30 ॥

 

तस्कराणां च पतये वञ्चते परिवञ्चते ।
स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ 31 ॥

 

नमः परिचरायाऽपि महारुद्राय ते नमः ।
अरण्यानां च पतये मुष्णतां पतये नमः ॥ 32 ॥

 

उष्णीषिणे नमस्तुभ्यं नमो गिरिचराय ते ।
कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ 33 ॥

 

नमो रुद्राय शर्वाय तुभ्यं पशुपते नमः ।
नम उग्राय भीमाय नमश्चाग्रेवधाय च ॥ 34 ॥

 

नमो दूरेवधायाऽपि नमो हन्त्रे नमो नमः ।
हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ 35 ॥

 

नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने ।
नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ 36 ॥

 

गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।
नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ 37 ॥

 

मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः ।
नमः शिवाय शर्वाय नमः शिवतराय च ॥ 38 ॥

 

नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।
आवार्याय नमस्तेऽस्तु नमः प्रतरणाय च ॥ 39 ॥

 

नम उत्तरणायाऽपि हरातार्याय ते नमः ।
आलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ 40 ॥

 

नमः शष्प्याय फेन्याय सिकत्याय नमो नमः ।
प्रवाह्याय नमस्तेऽस्तु ह्रस्वायाऽस्तु नमो नमः ॥ 41 ॥

 

वामनाय नमस्तेऽस्तु बृहते च नमो नमः ।
वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ 42 ॥

 

संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।
प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ 43 ॥

 

शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः ।
नम ऊर्म्याय शर्वायाऽप्यवस्वन्याय ते नमः ॥ 44 ॥

 

स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः ।
ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ 45 ॥

 

पूर्वजाय नमस्तुभ्यं नमोस्त्वपरजाय च ।
मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ 46 ॥

 

जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः ।
सोभ्याय प्रतिसर्याय याम्याय च नमो नमः ॥ 47 ॥

 

क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।
उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ 48 ॥

 

श्लोक्याय चावसान्यायावस्वन्याय च ते नमः ।
नमो वन्याय कक्ष्याय मौञ्ज्याय च नमो नमः ॥ 49 ॥

 

श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।
आशुषेणाय शूराय नमोस्त्वाऽशुरथाय च ॥ 50 ॥

 

वरूथिने पर्मिणे च बिल्मिने च नमो नमः ।
श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ 51 ॥

 

दुन्दुभ्याय नमस्तुभ्यमाहनन्याय ते नमः ।
प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ 52 ॥

 

पाराय पारविन्दाय नमस्तीक्ष्णेषवे नमः ।
सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ 53 ॥

 

नमः स्रुत्याय पथ्याय नमः काट्याय ते नमः ।
नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥ 54 ॥

 

नमो नाद्याय भव्याय वैशन्ताय नमो नमः ।
अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥ 55 ॥

 

अवर्ष्याय च वर्ष्याय मेघ्याय च नमो नमः ।
विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ 56 ॥

 

आतप्याय नमस्तुभ्यं वात्याय च नमो नमः ।
रेष्मियाय नमस्तुभ्यं वास्तव्याय च ते नमः ॥ 57 ॥

 

वास्तुपाय नमस्तुभ्यं नमः सोमाय ते नमः ।
नमो रुद्राय ताम्रायाऽप्यरुणाय च ते नमः ॥ 58 ॥

 

नम उग्राय भीमाय नमः शङ्गाय ते नमः ।
नमस्तीर्थ्याय कूल्याय सिकत्याय नमो नमः ॥ 59 ॥

 

प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः ।
नमस्ते चन्द्रचूडाय प्रपथ्याय नमो नमः ॥ 60 ॥

 

किंशिलाय नमस्तेऽस्तु क्षयणाय च ते नमः ।
कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ 61 ॥

 

नमो गोष्ठ्याय गृह्याय ग्रहाणां पतये नमः ।
नमस्तल्प्याय गेह्याय गुहावासाय ते नमः ॥ 62 ॥

 

काट्याय गह्वरेष्ठाय ह्रदय्याय च ते नमः ।
निवेष्प्याय नमस्तुभ्यं पांसव्याय ते नमः ॥ 63 ॥

 

रजस्याय नमस्तुभ्यं परात्पर तराय च ।
नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ 64 ॥

 

हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः ।
नमः उर्म्याय सूर्म्याय पर्ण्याय च नमो नमः ॥ 65 ॥

 

नमोपगुरमाणाय पर्णशद्याय ते नमः ।
अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥ 66 ॥

 

विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।
त्र्यम्बकाय च रुद्राय गिरिजापतये नमः ॥ 67 ॥

 

मणिकोटीरकोटिस्थ कान्तिदीप्ताय ते नमः ।
वेदवेदान्त वेद्याय वृषारूढाय ते नमः ॥ 68 ॥

 

अविज्ञेयस्वरूपाय सुन्दराय नमो नमः ।
उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ 69 ॥

 

हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च ।
नमो हिरण्यरूपाय रूपातीताय ते नमः ॥ 70 ॥

 

हिरण्यपतये तुभ्यमम्बिकापतये नमः ।
उमायाः पतये तुभ्यं नमः पापप्रणाशक ॥ 71 ॥

 

मीढुष्टमाय दुर्गाय कद्रुद्राय प्रचेतसे ।
तव्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ 72 ॥

 

अपार कल्याण गुणार्णवाय श्री नीलकण्ठाय निरञ्जनाय ।
कालान्तकायापि नमो नमस्ते दिक्कालरूपाय नमो नमस्ते ॥ 73 ॥

 

वेदान्तबृन्दस्तुत सद्गुणाय गुणप्रवीणाय गुणाश्रयाय ।
श्री विश्वनाथाय नमो नमस्ते काशीनिवासाय नमो नमस्ते ॥ 74 ॥

 

अमेय सौन्दर्य सुधानिधान समृद्धिरूपाय नमो नमस्ते ।
धराधराकार नमो नमस्ते धारास्वरूपाय नमो नमस्ते ॥ 75 ॥

 

नीहार शैलात्मज हृद्विहार प्रकाशहार प्रविभासि वीर ।
वीरेश्वरापार दयानिधान पाहि प्रभो पाहि नमो नमस्ते ॥ 76 ॥

 

व्यास उवाच –
एवं स्तुत्वा महादेवं प्रणिपत्य पुनः पुनः ।
कृताञ्जलिपुटस्तस्थौ पार्श्वे डुण्ठिविनायकः ॥ 77 ॥

 

तमालोक्य सुतं प्राप्तं वेदं वेदाङ्गपारगम् ।
स्नेहाश्रुधारा संवीतं प्राह डुण्ठिं सदाशिवः ॥ 78 ॥

 

॥ इति श्री शिवरहस्ये तन्त्रे हराख्ये तृतीयांशे पूर्वार्थे गणेशकृत रुद्राध्याय स्तुतिः नाम दशमोऽध्यायः ॥

[/toggle]

॥ श्री नीलकण्ठ मालामन्त्र स्तोत्रम् ॥

[toggle]

 

ओं नीलकण्ठं जगन्नाथं निर्मलानन्दविग्रहम् ।

हृदि ध्यात्वा प्रवक्ष्यामि यन्त्रसिद्धत्वमे च ॥ 1 ॥

 

नमस्ते नीलकण्ठाय सर्वमन्रविशारदः ।

नीलकण्ठास्त्रविद्या च अथर्वणशिर शिखा ॥ 2 ॥

 

वद मे करुणासिन्धो कृतसर्वोपकारकम् ।

सर्वमन्त्रमयी विद्या सर्वशास्त्रर्थमेव च ॥ 3 ॥

 

क्षेत्रसिद्धिप्रदं मन्त्रमाद्यानां क्षिप्रसिद्धदम् ।

अपि रोगघ्नविद्या च अद्भुतं शुभदायकम् ॥ 4 ॥

 

षट्कर्मसिद्धिदा विद्या वषट्कारात्मको मनुः ।

वडवानलमन्त्रषु अस्त्राणां वडवानलैः ॥ 5 ॥

 

अथर्वणमहाविद्या मन्त्रराजेषु भूतले ।

एतत् विद्या समं देवि नास्तीत्युक्त्वा पुनः पुनः ॥ 6 ॥

 

सर्वविद्यां वद स्वामिन् ! ममापेक्षा च वर्तते ॥ 7 ॥

 

ईश्वर उवाच –

साधि साधु महादेवि ! सर्वमन्त्रविशारदे ।

एतदाधारिणी विद्या महासिद्धिप्रदायिका ॥ 8 ॥

 

विनाभूतशुद्धिभूतं च विनाकर्म कलौयुगे ।

न्यास ध्यानं विना देवि ! सर्वसिद्धिप्रदायकः ॥ 9 ॥

 

अथर्वणास्त्रं तृतीयं नीलकण्ठश्चतुर्थकम् ।

एकविंशत् समायुक्तं एतत्ते वडवानलम् ॥ 10 ॥

 

अथर्वणास्त्र शिरसि नीलकण्ठशिखामनुः ।

साधकस्तु जपेत् सिद्धिः सार्वभौम वरप्रदाम् ॥ 11 ॥

 

सर्वदा सर्वरोगघ्नीं सर्वदा भयनाशिनीम् ।

सर्वदा क्रूरसर्पादिभयं नास्तीति साधके ॥ 12 ॥

 

चौरादिराजराजादिभयं किञ्चिन्न विद्यते ।

बाल-ग्रह-पिशाचादि मन्त्राणामभिमन्त्रितम् ॥ 13 ॥

 

नीलकण्ठास्त्रमन्त्रेण बालानां रोगनाशनम् ।

सद्यो विमुक्ति रोगाणां त्रिवारं मन्त्रितं बुधैः ॥ 14 ॥

 

त्रिवारं मन्त्रितं भस्मयाचयेदुष्णवारिणा ।

एवं ज्वरादयः सर्वे कार्यलाघवगौरवात् ॥ 15 ॥

 

त्रिदिनं पञ्चरात्रं वा ज्वरशान्तिर्भविष्यति ।

नानारोगांश्चोदरस्थान् गुल्मानि बहुलानि च ॥ 16 ॥

 

स्पृष्ट्वा मन्त्रेण मन्त्रैर्वा सप्ताहाच्छान्तिमाप्नुयात् ।

चन्द्रसूर्यपरागेषु लक्ष्मीसर्वेषु साधकः ॥ 17 ॥

 

पुरश्चर्या प्रकुर्वीत मन्त्रसिद्धिर्भवेन्नरः ।

अथवा कार्तिकेमासे माघवैशाखमासयोः ॥ 18 ॥

 

पुरश्चर्या विधानेन जपसिद्धिमवाप्नुयात् ।

येनेदं नीलकण्ठास्त्रं महाविद्यां च साधकः ॥ 19 ॥

 

सर्वदा विचरेद् देवि ! जपेन्मन्त्रं महामनुः ।

यं यं वापि स्मरेच्छान्तिं तं तं प्राप्नोति निश्चितम ॥ 20 ॥

 

मालामन्त्रमहाविद्या नीलकण्थास्त्रमेव च ।

पुत्राय च सशिष्याय दातव्यं नात्र संशयः ॥ 21 ॥

 

ओं अस्य श्रीमहानीलकण्ठ अर्थवणः शिरः शिखावडवानल नीलकण्ठास्त्र महामन्त्रस्य

अथर्वण ऋषिः शिरसि । नानाछन्दांसि मुखे । श्रीमहानीलकण्ठो रुद्रो देवता हृदि।

 

ह्रीं बीजं गुह्ये । सः शक्तिः पादयोः । ग्लौं कीलकं नाभौ ।

श्रीनीलकण्ठ प्रसादप्रीत्यर्थे जपे विनियोगः सर्वाङ्गे ॥ (मूलेन त्रिः व्यापकं कुर्यात् )

 

अङ्गन्यासः

 

ओं ह्रां वडवानलास्त्राय नीलकण्ठास्त्राय अङ्गुष्ठाभ्यां नमः ।

ओं ह्रीं अथर्वण शिरशिखा नीलकण्ठास्त्राय तर्जनीभ्यां नमः ।

ओं ह्रूं कालरुद्राय नीलकण्ठास्त्राय मध्यमाभ्यां नमः ।

ओं ह्रैं नीलकण्ठास्त्राय अनामिकाभ्यां नमः ।

ओं ह्रौं व्योमव्यापिने हिरण्याय नीलकण्ठास्त्राय कनिष्ठिकाभ्यां नमः ।

ओं ह्रः अनेक ब्रह्माण्डाय नीलकण्ठास्त्राय करतलकरपृष्ठाभ्यां नमः ।

 

करन्यासः

 

ओं ह्रां वडवानलास्त्राय नीलकण्ठास्त्राय हृदयाय नमः ।

ओं ह्रीं अथर्वण शिरशिखा नीलकण्ठास्त्राय शिरसे स्वाहा ।

ओं ह्रूं कालरुद्राय नीलकण्ठास्त्राय शिखायै वषट् ।

ओं ह्रैं नीलकण्ठास्त्राय कवचाय हुं ।

ओं ह्रौं व्योमव्यापिने हिरण्याय नीलकण्ठास्त्राय नेत्रत्रयाय वौषट् ।

ओं ह्रः अनेकब्रह्माण्डाय नीलकण्ठास्त्राय अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्बन्धः ॥

 

ध्यानम् –

 

बाणं कालान्तरकालं ह्यभयवरकरं सोमसूर्याग्निनेत्रम् ।

कालं कालाग्निरुद्रं त्रिपुरहरमहामन्मथं दह्यमानम् ॥

खड्गं खेटं पिनाकं सर्पशुडमरूभिण्डिपालं त्रिशूलम् ।

घोरास्त्रं पञ्चवक्त्रं गलनिहितगरं नीलकण्ठं भजेऽहम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

अथर्वणास्त्रमन्त्रश्च वडवानलनामकम् ।

नीलकण्ठास्त्रविद्याख्यं मन्त्ररूपं हृदि स्मरेत् ॥ 1 ॥

 

कोटिसूर्यप्रतीकाशं ताण्डवप्रलयाकृतिम् ।

भस्मीकृतजगद् व्याप्तं विग्रहं च समाश्रये ॥ 2 ॥

 

मृत्युघ्नं पापदमनं धृतानाममृतप्रदम् ।

सुधामयं नीलकण्ठं अस्त्ररूपं हृदि स्मरेत् ॥ 3 ॥

 

एवं त्रिकालप्रयोगं प्रजपेत् साधकोत्तमः ।

सर्वार्थसिद्धिः पठनात् तेजोवृद्धिकरं परम् ॥ 4 ॥

 

ओं आं ह्रीं ग्लौं ऐं क्लीं सौं श्रीं स्त्रां क्षां क्षां वं क्रौं एह्येहि महानीलकण्ठाय परमितवक्त्राय आविर्भूत चतुर्दशभुवनय अण्डज पिण्डज उद्भिजजरायुज अन्तर्यामिने पञ्चनयनाय उमावराय वृषभवाहनाय भस्मोधूलितविग्रहाय फाललोचनाय परमहंसाय पञ्चत्त्वस्वरूपाय पञ्चाग्निमयाय पद्यबाणन्तकाय तत्पुरुषाय घोरघोर सद्योजात वामदेवेशाय अनादि पञ्चब्रह्माण्डाय अष्टमूर्तये सृष्टिरक्षणसंहार-तत्पराय रक्षोघ्ननि-कृन्तनाय लक्ष्मीवरसखाय त्रिपुरान्तकाय त्र्यम्बकाय त्रिदशपूजिताय त्रिनेत्राग्निमयाय त्र्ययीपुष्करात्मकाय ज्वलस्वरूपाय जगज्जनकाय ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्षां क्षीं क्षूं क्षैं क्षौं क्षः ग्लां ग्लीं ग्लूं ग्लैं ग्लौं ग्लः झ्रां झ्रीं झ्रूं झ्रैं झ्रौं झ्रः छ्रां छ्रीं छ्रूं छ्रैं छ्रौं छ्रः रां रीं रूं रैं रौं रः रविकोटिप्रभाय रजोगुणदूराय कैलाशवासिने करुणाकराय कन्दर्पकोटिकान्तियुक्ताय युगान्तकाय प्रलयरुद्राय कामिकफलप्रदाय कालिन्दराय एकमूर्ति द्विमूर्ति त्रिमूर्ति चतुर्मूर्ति पञ्चमूर्ति मयाय पञ्चवक्त्राय पञ्चदर्शनकरुणाय लोकान्विताय अनन्तब्रह्माण्डमयाय कालब्रह्मेश्वराय अवरलवर अन्धकासुरसंहारकारिणे अमितपराक्रमाय तारकासुर-निरनाशकाय वडनानल नीलकण्ठाय स्फुर स्फुर प्रस्फुर प्रस्फुर परमकारुणीकाय घोर-घोरतर तनुरूप-तत्त्वात्मिकाय चट चट प्रचट प्रचट परमहंसनिर्वापणाय कह कह यम यम गङ्गाधराय बन्धय बन्धय घातय घातय मङ्गल प्रदाय प्रदाय वीर वीर कएईलह्रीं कालरूपधराय हसकलह्रीं सच्चिदानन्दाय सकलह्रीं ह्रीं ह्रीं नित्यमुक्तिप्रियाय एकाहिक द्वयाहिक त्र्याहिक चातुर्थिक पक्षज्वर मासिकज्वर साम्वत्सरिकज्वर सर्वज्वरान् नाशय नाशय वातरोग श्वासरग पैत्रकरोग श्लेष्मरोगान् हर हर क्रिमज्वरान् नाशय नाशय पिशाचादीन् निकृन्तय निकृन्तय आविर्भूतानन्तब्रह्माण्डाय विश्वमयाय शाश्वतहिरामग्राय ह्रुं ह्रं ह्रूं कृत-भस्मोद्धूलितसर्वोत्तम-किङ्किणीरव महाशङ्कराय उमार्द्धदेहाय चन्द्रशेखराय नानाविषं सर्वविषं हर हर शमय शमय निर्विषं दन्तीविषं धत्तूरविषं कृत्रिमविषं शमय शमय प्रधान अमृतं नीलकण्ठाय आवेशय-आवेशय स्फुर-स्फुर सूर्यशशाङ्काय चन्द्रकोटि-सुशीतलाय सान्द्र-सिन्दूरम्यय आं ह्रिं क्रों कालरुद्राय करुणाकरय हर विषं हर रोगान् हर रोगान् हर निकृन्तनाय कृत्र्न् निर्नाशय निर्नाशय ग्रह निग्रहानुग्रहान् शमय शमय शान्ति कुरु कुरु प्रारब्धसञ्चितक्रियमाणां नाशय नाशय अकारणबान्धवाय अनवरत-लक्षणैक-कटाक्ष-परायणाय  सर्वसिद्धिप्रदाय चिन्तित-मनोरथ-सुन्दराय आनन्द परायणाय मां रक्ष रक्ष शत्रून् द्वेषकान् किल्विषासाद्रसोदुर्मपाय आं ह्रीं क्रों ह्रुं कालरुद्राय करुणाकराय कृत्रिमधारकान् शत्रून् क्षुद्धौघधरान् भस्मी कुरु कुरु असुयापरान् निकृन्तय परमन्त्र परयन्त्र परतन्त्र चेटक पर वाक् कटु परजप होम कृताभिचारान् नाशय नाशय स्व मन्त्र स्व तन्त्र स्व यन्त्र स्व कृत प्रयोगान् प्रकाशय प्रकाशय मे मनोरथान् क्षिप्रं सफलं कुरु कुरु सर्वजगन्मयाय स्वतन्त्र स्वमन्त्र स्वयन्त्रमयाय सर्वागम सकल वैद्यकार्चेयशावराधनेकादि तन्त्रस्वरूपाय पञ्चवक्त्रवडवानलाय नीलकण्ठाय एह्येहि आगच्छ आगच्छ सुहृदयकमल आवाहितोभव संस्थापितो भव सर्वतोमुखसदा शिवाय सर्वाय मकर किरीट कान्त्यालङ्कृताय पादपद्माय आं ह्रीं क्रों वडवानलप्रलयाग्नि अथर्वणास्त्र नीलकण्ठाय ममैव हृदये सदा स्फुर स्फुर प्रलयानल घोर घोरतर तनुरूप चट चट प्रचट प्रचट वं वं नीलकण्ठाय वडवानल अथर्वणास्त्ररूपिणे वरदाभयक्षिप्र-प्रसन्नो भव मम कायिक-वाचिक-मानसिक-सिद्धि देहि-देहि हुं हुं आं हां वं ओं क्रीं अमृत नीलकण्ठाय मम हृदये वशं मम कालमृत्युविनाशनं कुरु कुरु अपमृत्यु निर्दलनं कुरु कुरु अपमृत्युं प्रधान् अमृतनीलकण्ठाय मम शरीरे अमृतं कुरु कुरु अत्यन्त लक्ष्मी सरस्वती निदानं कुरु कुरु ममिव कर स्पर्शान् नानारोगान् नाशय नाशय भूत-प्रेत-पिशाच-ब्रह्मराक्षस-शाकिनी-डाकिनी-रुद्र-पिशाचान् अनेक भूत-प्रेत-पिशाचान् पलायनं कुरु मम मनसास्मरणमात्रेण दारिद्रं विदारित विग्रहस्थस्य अपरमितैश्वर्यप्रसन्नं कुरु कुरु वाक् सिद्धिं देहि नीलकण्ठनवनाथ चतुरशीतिसिद्धैः सदापूजितचरणकमलाय चर्चित चिद्रूपाय निवारसूकररूपाय चिदानन्द-ज्ञान-भक्ति-वैराग्य-प्रदाय मम हृदये आवेशय सदानन्दसर्वकामित सर्वज्ञ आगताबागता ज्ञानवान् कुरु-कुरु चतुःषष्टिविद्या प्रवीणां कुरु कुरु आं ह्रां ऐं ग्लों झ्रां क्लीं श्रीं ह्रीं क्रों सद्यः सकलविद्या प्रदानीलकण्ठाय वद-वद वाग्विद्वांसं मां कुरु कुरु प्रचण्ड ब्रह्माण्ड परिपूरितविद्या नीलकण्ठवाग्विलास चण्डवान् कुरु कुरु क्रों ऐं ह्रूं स्त्रां आं उल्लसत्तटि नीलकण्ठाय उत्कृष्टफलप्रदाय उमार्धशरीराय उत्तरोत्तरचिरकाल महादरिद्रान्धकारनिलयवन्तं निर्मलैश्वर्यानिदा-नोत्यानन्दलक्ष्मीसारस्वतं कुरु कुरु लक्ष्मीतत् पदाम्बुज लक्ष्मीप्रद नीलकण्ठ मां रक्ष रक्ष मम शत्रून् विद्यान शमदमादिशान्तिगुणप्रदाय परम अच्र्कहनलण्ठाय खण्डतं वैदि दण्ड प्रचण्ड दोर्दण्ड पिण्डी कृत वैरि मण्डलाय अमर पुण्डरीक सखाय द्रां द्रीं द्रुं द्रैं द्रौं द्रः ढक्कावाद्यप्रियाय नरकपालहस्ताय शाश्वतकीर्तये सहस्रभुजाय सर्वमन्त्र सिद्धिं कुरु कुरु अयुतभुजाय आयुतार्णवाय आयुष्मन्तं कुरु कुरु नीलकण्ठाय सततं मम हृदये चिन्तित मनोरथ सिद्धि कुरु कुरु चिदानन्दकाङ्कुर चिदानन्दकाङ्कुर कुरु कुरु पञ्चवक्त्र-शतवक्त्र-सहस्रवक्त्र-अयुतवक्त्र-अनन्तवक्त्र अनन्तानन्तभुज अनन्तभुज ब्रह्माण्डपरिपूर्ण विराट्रूपाय विश्वतोमुख विश्वरूपाक्ष ओं क्लीं ह्रीं ह्रीं फट् स्वाहा रूपं महापाशुपतास्त्राय ह्रां ह्रीं क्लीं ऐं ग्लौं श्रीं ह्रीं क्रों सम्मोहनाय महापाशुपतास्त्राय वडवानल नीलकण्ठस्त्राय एह्येहि नीलकण्ठास्त्राय एहि आगच्छ आगच्छ स्फुर स्फुर प्रस्फुर प्रस्फुर प्रलयानल घोरतर तनुरूपाय चट चट प्रचट प्रचट सम्मोहनाय सदा मां रक्ष रक्ष मम हृदये सदा स्थिरो भव वरप्रदो भव साक्षात्कार सिद्धि प्रदो भव चर्मचक्षष्क दर्शन् प्रदो भव सिद्धि महाथर्वणास्त्राय प्रलयानल मृत्युञ्जय प्रसन्न सम्मोहनपाशुपत दर्शय दर्शय सहशत्रु मन्त्रखगुन विषं ध्वंशन वीरघोर नीलकण्ठास्त्राय वीरघोर मां रक्ष-रक्ष मम हृदये सदा स्थिरो भवमङ्गलाना दोषान् संमङ्गल सहस्त्रानन्तव्रत नीलकण्ठास्यायं हुं फट् स्वाहा ॥

 

करन्यासः

 

ओं ह्रां वडवानलास्त्राय नीलकण्ठास्त्राय हृदयाय नमः ।

ओं ह्रीं अथर्वण शिरशिखा नीलकण्ठास्त्राय शिरसे स्वाहा ।

ओं ह्रूं कालरुद्राय नीलकण्ठास्त्राय शिखायै वषट् ।

ओं ह्रैं नीलकण्ठास्त्राय कवचाय हुं ।

ओं ह्रौं व्योमव्यापिने हिरण्याय नीलकण्ठास्त्राय नेत्रत्रयाय वौषट् ।

ओं ह्रः अनेकब्रह्माण्डाय नीलकण्ठास्त्राय अस्त्राय फट् ।

 

ओं भूर्भुवस्वरों इति दिग्विमोकः ॥

 

ध्यानम् –

 

बाणं कालान्तरकालं ह्यभयवरकरं सोमसूर्याग्निनेत्रम् ।

कालं कालाग्निरुद्रं त्रिपुरहरमहामन्मथं दह्यमानम् ॥

खड्गं खेटं पिनाकं सर्पशुडमरूभिण्डिपालं त्रिशूलम् ।

घोरास्त्रं पञ्चवक्त्रं गलनिहितगरं नीलकण्ठं भजेऽहम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

फलस्तुतिः –

 

कण्ठातिदारुणं अकण्डं मन्त्रं अस्त्रं च अथर्वणशिखास्त्रकम् ।

सहस्रं यो जपेद् विद्वान् मुण्डं च मुखोरपि वा ॥ 1 ॥

 

येन केनापि जपतो मन्त्रसिद्धिमवाप्नुयात् ।

कालरुद्रमहानाम्ना विषं च ध्वंनन्तथा ॥ 2 ॥

 

श्रीमहानीलकण्ठाख्यमस्त्रराजमिदं कृतम् ।

जपात् कुष्ठशरीराणां निर्मलं देहमाप्नुयात् ॥ 3 ॥

 

अष्टादशानि कुष्ठानि नश्यन्ते नात्र संशय ॥ 4 ॥

 

॥ इति अथर्वणरहस्ये श्रीनीलकण्ठ मालामन्त्र स्तोत्रं संपूर्णम् ॥

[/toggle]