gaNapati bhadra maNDala krama

 

॥ गणपति भद्र मण्डल पूजा क्रमम् ॥

 

गणपतिभद्रं (17 रेखात्मकम्) –

 

अथातः संप्रवक्ष्यामि मण्डलं सर्वसिद्धितम् ।

नाम्ना च विघ्नमर्दाख्यं विनायकव्रते हितम् ॥

 

तिर्यगूर्ध्व सप्तदशरेखाः कार्याः सुशोभनाः ।

खण्डेन्दुस्त्रिपदः कोणे शृङ्खला च चतुर्ष्पदैः ॥

 

कार्या नवपदा वल्ली भद्रं रक्तं चतुष्पदम् ।

ततो विंशतिकोष्ठेषु कार्यो गणपतिः शुभः ॥

 

कोष्ठद्वयेन मुकुटं गणेशस्य च कारयेत् ।

पीतश्च परिधिः कार्यः पदैर्विंशतिभिस्तदा ॥

 

मध्ये षोडशकोष्ठैश्च पद्मं कार्यं सुशोभनम् ।

सर्वतोभद्रवान्यै विशेषेणात्र योजयेत् ॥

 

गणेशभद्रं (30 रेखात्मकं) –

 

तिर्यगूर्ध्वगता रेखाः कार्यास्त्रिंशत् ऋजुश्शुभाः ।

कोणेन्दुखण्दस्त्रिपदैः श्वेतेन नवशृखला ॥

 

एकोनविंशद्वल्ली च कृषनीलेन पूरयेत् ।

भद्रं चतुषपदैश्चैव रक्तेनैकपदम् त्यजेत् ॥

 

तत्पदं च पदादूर्ध्वं त्रित्रिकेषु पदेषु च ।

कोणे कोणान्तराले च सितं तदधश्च वै ॥

 

तिर्यगस्याधोऽधस्तिर्यगेवं द्वादशेके पदे ।

रक्तवर्णेन संपूर्य तत्रस्थस्तु गजाननः ॥

 

पदमेकं पदं हित्वोर्ध्वं द्वितीयो गजाननः ।

एवं चतुः प्रतिदिशं सङ्ख्या चैव च षोडश ॥

 

गणेशाद्यद्वयोर्मध्ये ऊर्ध्व पञ्चसु वापिका ।

द्वित्रयोर्मध्यभागे तु लिङ्गं कृष्णाष्टकं ततः ॥

 

वल्लीवापीद्वयोः पार्ष्वे द्वयं लिङ्गं तु पूर्ववत् ।

तयोर्मध्ये गणेशस्य रक्तवर्णैश्चतुर्दिशम् ॥

 

तदूर्ध्वं परिधिः कार्यः द्वात्रिंशत्पीतवर्णकः ।

मध्ये एकोनपञ्चाशत्पदे महागजनाननः ॥

 

पदानि त्ववशेषाणि सत्वेन च प्रपूरयेत् ।

एकविंशतिगाणेशं मण्डलं तद्व्रतस्य च ॥

 

॥ गणपति भद्रमण्डल स्थापन विधानम् ॥

 

तत्वाचमनम्

 

ओं श्रीं ह्रीं क्लीं आत्मतत्वं शोधयामि स्वाहा ।

ओं श्रीं ह्रीं क्लीं विद्यातत्वं शोधयामि स्वाहा ।

ओं श्रीं ह्रीं क्लीं शिवतत्वं शोधयामि स्वाहा ।

ओं श्रीं ह्रीं क्लीं सर्वतत्वं शोधयामि स्वाहा ।

 

सङ्कल्पः

 

श्री गणेश पूजाङ्गत्वेन गणेशभद्रमण्डल पूजनं चाऽहं करिष्ये ।

 

विधानम्

 

मध्ये 49 पदेषु

 

1. ओं गणानांत्वा इति मन्त्रस्य । गृत्समदः भार्गवः शौनकः ऋषयः । जगती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं गणानां॑ त्वा गणप॑तिं हवामहे कविं क॑वीनामु॑पमश्र॑वस्तमम् ।

ज्येष्ठराजं ब्रह्म॑णां ब्रह्मणास्पत आ नः॑ शृण्वन्नूतिभिः॑ सीद साद॑नम् ॥

 

ओं भूर्भुवस्वः । ब्रह्मणस्पतये नमः । ब्रह्मणपतिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् । (एवं सर्वत्र चतुर्द्वारे पूर्वादिक्रमेण )

 

पूर्वद्वारे –

 

2. ओं देवश्चित्ते इति मन्त्र्स्य । गृत्समदः भार्गवः शौनकः ऋषयः । जगती छन्दः । बृहस्पतिर्देवता ।

 

ओं देवश्चि॑त्ते असुर्य प्रचे॑तसो बृह॑स्पते यज्ञियं॑ भागमा॑नशुः । उस्राइ॑व सूर्यो ज्योती॑षा महो विश्वे॑षामिज्ज॑निता ब्रह्म॑णामसि ॥

 

ओं भूर्भुवस्वः । सुमुखाय नमः । सुमुखं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

दक्षिणद्वारे –

 

3. ओं आ तू न इति मन्त्रस्य । कुसीदी काण्वः ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं आ तू न॑ इन्द्र क्षुमन्तं॑ चित्रं ग्राभं सं गृ॑भाय । महाहस्ती दक्षि॑णेन ॥

 

ओं भूर्भुवस्वः । एकदन्ताय नमः । एकदन्तं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पश्चिमद्वारे –

 

4. ओं उत्तिष्ठ ब्रह्मणस्पते इति मन्त्रस्य । कण्वः घौरः ऋषयः । बृहती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं उत्ति॑ष्ठ ब्रह्मणस्पते देवयन्त॑स्त्वेमहे । उप प्र य॑न्तु मरुतः॑ सुदान॑व इन्द्र॑ प्राशूर्भवा सचा॑ ।

 

ओं भूर्भुवस्वः । कपिलाय नमः । कपिलं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

उत्तरद्वारे –

 

5. ओं सेमामविड्ढि इति मन्त्रस्य । गृत्समदः भार्गवः शौनकः ऋषयः । जगती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं सेमाम॑विड्ढि प्रभृ॑तिं य ईशि॑षेऽया वि॑धेम नव॑या महा गिरा । यथा॑ नो मीढ्वान्त्स्तव॑ते सखा तव बृह॑स्पते सीष॑धः सोत नो॑ मतिम् ॥

 

ओं भूर्भुवस्वः । गजकर्णाय नमः । गजकर्णं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पूर्वे चतुर्मुखा उदक्संस्थाः –

 

6. ओं आ विबाध्या इति मन्त्रस्य । गृत्समदः भार्गवः शौनकः ऋषयः । जगती छन्दः । बृहस्पतिर्देवता ।

 

ओं आ विबाध्या॑ परिरापस्तमां॑सि च ज्योति॑ष्मन्तं रथ॑मृतस्य॑ तिष्ठसि । बृह॑स्पते भीमम॑मित्रदम्भ॑नं रक्षोहणं॑ गोत्रभिदं॑ स्वर्विद॑म् ॥

 

ओं भूर्भुवस्वः । लम्बोदराय नमः । लम्बोदरं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

7. ओं विद्माहित्वा इति मन्त्रस्य । कुशीदी काण्व ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं विद्मा हि त्वा॑ तुविकूर्मिं तुविदे॑ष्णं तुवीम॑घम् । तुविमात्रमवो॑भिः ॥

 

ओं भूर्भुवस्वः । विकटाय नमः । विकटं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

8. ओं त्वामिद्धि इति मन्त्रस्य । कण्वः घौर ऋषयः । सतोबृहती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं त्वामिद्धि स॑हसस्पुत्र मर्त्यं॑ उपब्रूते धने॑ हिते । सुवीर्यं॑ मरुत आ स्वश्व्यं दधी॑त यो व॑ आचके ॥

 

ओं भूर्भुवस्वः । विघ्ननाशनाय नमः । विघ्ननाशनं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

9. ओं यो नन्त्वा इति मन्त्रस्य । गृत्समदः भार्गवः शौनक ऋषयः । जगती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं यो नन्त्वान्यन॑मन्न्योज॑सोताद॑र्दर्मन्युना शम्ब॑राणि वि । प्राच्या॑वयदच्यु॑ता ब्रह्म॑णस्पतिरा चावि॑शद्वसु॑मन्तं वि पर्व॑तम् ॥

 

ओं भूर्भुवस्वः । गणाधिपाय नमः । गणाधिपं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

10. ओं सुनीति इति मन्त्रस्य । गृत्समदः भार्गवः शौनक ऋषयः । जगती छन्दः । बृहस्पतिर्देवता ।

 

ओं सुनीतिभि॑र्नयसि त्राय॑से जनं यस्तुभ्यं दाशान्न तमंहो॑ अश्रवत् । ब्रह्मद्विषस्तप॑नो मन्युमीर॑सि बृह॑स्पते महि तत्ते॑ महित्वनम् ॥

 

ओं भूर्भुवस्वः । धूम्रकेतवे नमः । धूम्रकेतुं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

11. ओं नहि त्वा इति मन्त्रस्य । कुसीदी काण्वः ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं नहि त्वा॑ शूर देवा न मतां॑सो दित्स॑न्तम् । भीमं न गां वारय॑न्ते ॥

 

ओं भूर्भुवस्वः । गणाध्यक्षाय नमः । गणाध्यक्षं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

12. ओं प्रैतु ब्रह्मणस्पति इति मन्त्रस्य । कण्व घौर ऋषिः । बृहती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं प्रैतु ब्रह्म॑णस्पतिः प्र देव्ये॑तु सूनृता॑ । अच्छा॑ वीरं नर्यं॑ पङ्क्तिरा॑धसं देवा यज्ञं न॑यन्तु नः ॥

 

ओं भूर्भुवस्वः । फालचन्द्राय नमः । फालचन्द्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

13. ओं तद्देवानां इति मन्त्रस्य । गृत्समदः भार्गवः शौनकः ऋषयः । जगती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं तद्देवानां॑ देवत॑माय कर्त्वमश्र॑थ्नन्दृळ्हाव्र॑दन्त वीळिता । उद्गा आ॑जदभि॑नद्ब्रह्म॑णा वलमगू॑हत्तमो व्य॑चक्षयत्स्वः॑ ॥

 

ओं भूर्भुवस्वः । गजाननाय नमः । गजाननं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पश्चिम उदक्संस्थाः –

 

14. ओं न तमंहो इति मन्त्रस्य । गृत्समदः भार्गवः शौनकः ऋषयः । जगती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं न तमंहो न दु॑रितं कुत॑श्चन नारा॑तयस्तितिरुनं द्व॑याविनः । विश्वा इद॑स्माद्ध्वरसो वि बा॑धसे यं सु॑गोपा रक्ष॑सि ब्रह्मणस्पते ॥

 

ओं भूर्भुवस्वः । वक्रतुण्डाय नमः । वक्रतुण्डं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

15. ओं यो वाधते इति मन्त्रस्य । कण्व घौर ऋषिः । सतोबृहती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं यो वाधते ददा॑ति सूनरं वसु स ध॑त्ते अक्षि॑ति श्रवः॑ । तस्मा इळां॑ सुवीरा मा य॑जामहे सुप्रतू॑र्तिमनेहस॑म् ॥

 

ओं भूर्भुवस्वः । गणपाय नमः । गणपं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

16. ओं सोमानं स्वरणं इति मन्त्रस्य । मेधातिथिः काण्व ऋषिः । गायत्री छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं सोमानं स्वर॑णं कृणुहि ब्र॑ह्मणस्पते । कक्षीव॑न्तं य औ॑शिजः ॥

 

ओं भूर्भुवस्वः । विघ्नराजाय नमः । विघ्नराजं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

17. ओं व्रातं व्रातं इति मन्त्रस्य । विश्वामित्र गाथिनः ऋषिः । जगती छन्दः । मरुतो देवता ।

 

ओं व्रातं॑व्रातं गणंग॑णं सुशस्तिभि॑रग्नेर्भामं॑ मरुतामोज॑ ईमहे । पृष॑दश्वासो अनवभ्ररा॑धसो गन्ता॑रो यज्ञं विदथे॑षु धीराः॑ ॥

 

ओं भूर्भुवस्वः । विनायकाय नमः । विनायकं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

18. ओं यो रेवान्यो इति मन्त्रस्य । मेधातिथिः काण्वः ऋषिः । गायत्री छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं यो रेवान्यो अ॑मीवहा व॑सुवित्पु॑ष्टिवर्ध॑नः । स नः॑ सिषक्तु यस्तुरः ॥

 

ओं भूर्भुवस्वः । गणपतये नमः । गणपतिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

19. ओं प्र नूनं इति मन्त्रस्य । कण्व घौर ऋषिः । बृहती छन्दः । ब्रह्मणस्पतिर्देवता ।

 

ओं प्र नूनं ब्रह्म॑णस्पतिर्मन्त्रं॑ वदत्युक्थ्य॑म् । यस्मिन्निन्द्रो वरु॑णो मित्रो अ॑र्यमा देवा ओकां॑सि चक्रिरे ॥

 

ओं भूर्भुवस्वः । गणनाथाय नमः । गणनाथं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

20. ओं आ नो भर इति मन्त्रस्य । कुसोदी कण्व ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं आ नो॑ भर दक्षि॑णेनाभि सव्येन प्र मृ॑श । इन्द्र मा नो वसोर्निर्भा॑क् ॥

 

ओं भूर्भुवस्वः । हेरम्बाय नमः । हेरम्बं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

21. ओं सद्योजुवस्ते इति मन्त्रस्य । कुसोदी कण्व ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं सद्योजुव॑स्ते वाजा॑ अस्मभ्यं॑ विश्वश्च॑न्द्राः । वशै॑श्च मक्षू ज॑रन्ते ॥

 

ओं भूर्भुवस्वः । धरणीधराय नमः । धरणीधरं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ईशानपूर्वान्तराले पञ्चकोष्ठात्मकवाप्यां –

 

22. ओं इन्द्रं विश्वा इति मन्त्रस्य । जेता माधुच्छन्दसः ऋषिः । अनुष्टुप् छन्दः । इन्द्रो देवता ।

 

ओं इन्द्रं विश्वा॑ अवीवृधन्त्समुद्रव्य॑चसं गिरः॑ । रथीत॑मं रथीनां वाजा॑नां सत्प॑तिं पति॑म् ॥

 

ओं भूर्भुवस्वः । इन्द्राय नमः । इन्द्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पूर्वाग्नेयानराले वाप्यां –

 

23. ओं अग्निं दूतं वृणीमहे इति मन्त्रस्य । मेधातिथिः काण्वः ऋषिः । गायत्री छन्दः । अग्निर्देवता ।

 

ओं अग्निं दूतं वृ॑णीमहे होता॑रं विश्ववे॑दसम् । अस्य यज्ञस्य॑ सुक्रतु॑म् ॥

 

ओं भूर्भुवस्वः । अग्नये नमः । अग्निं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

अग्नियमान्तराले वाप्यां –

 

24. ओं यमाय सोमं इति मन्त्रस्य । वैवस्वत यम ऋषिः । अनुष्टुप् छन्दः । यमो देवता ।

 

यमाय सोमं॑ सुनुत यमाय॑ जुहुता हविः । यमं ह॑ यज्ञो ग॑च्छत्यग्निदू॑तो अरं॑कृतः ॥

 

ओं भूर्भुवस्वः । यमाय नमः । यमं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

यमनिरृत्यान्तराले वाप्यां –

 

25. ओं मो षु णः इति मन्त्रस्य । कण्व गौरः ऋषिः । गायत्री छन्दः । मरुतो देवता ।

 

ओं मो षु णः परा॑परा निऋ॑तिर्दुर्हणा॑ वधीत् । पदीष्ट तृष्ण॑या सह ॥

 

ओं भूर्भुवस्वः । निरृतये नमः । निरृतिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

निरृतिवरुणान्तराले वाप्यां –

 

26. ओं त्वां ह्यग्ने इति मन्त्रस्य । वामदेव गौतम ऋषिः । अष्टिः छन्दः । अग्निर्देवता ।

 

ओं त्वं ह्य॑ग्ने सदमित्स॑मन्यवो॑ देवासो॑ देवम॑रतिं न्ये॑रिर इति क्रत्वा॑ न्येरिरे ।

 

अम॑र्त्यं यजत मर्त्येष्वा देवमादे॑वं जनत प्रचे॑तसं विश्चमादे॑वं जनत प्रचे॑तसम् ॥

 

ओं भूर्भुवस्वः । वरुणाय नमः । वरुणं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

वरुणवायव्यान्तराले वाप्यां –

 

27. ओं वायो ये ते इति मन्त्रस्य । गृत्समद: भार्गवः शौनकः ऋषयः । गायत्री छन्दः । वायुर्देवता ।

 

ओं वायो ये ते॑ सहस्त्रिणो रथा॑सस्तेभिरा ग॑हि । नियुत्वान्त्सोम॑पीतये ॥

 

ओं भूर्भुवस्वः । वायवे नमः । वायुं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

वायुसोमान्तराले वाप्यां –

 

28. ओं वयं सोमव्रते इति मन्त्रस्य । बन्धुः श्रुतबन्धुः विप्रबन्धुः गौपायनाः ऋषः । गायत्री छन्दः । विश्वे देवा देवताः ।

 

ओं वयं सो॑म व्रते तव मन॑स्तनूषु बिभ्रतः । प्रजाव॑न्तः सचेमहि ॥

 

ओं भूर्भुवस्वः । सोमाय नमः । सोमं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

सोमेशानान्तराले वाप्यां –

 

29. ओं तमीशानं इति मन्त्रस्य । गोतमः राहूगणः ऋषयः । जगती छन्दः । विश्वेदेवाः देवताः ।

 

ओं तमीशा॑नं जग॑तस्तस्थुषस्पतिं॑ धियंजिन्वमव॑से हूमहे वयम् । पूषा नो यथा वेद॑सामस॑द्वृधे र॑क्षिता पायुरद॑ब्धः स्वस्तये॑ ॥

 

ओं भूर्भुवस्वः । ईशानाय नमः । ईशानं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

आग्नेयकोणेन्दुखण्डे –

 

30. ओं विष्णोर्नु कं इति मन्त्रस्य । दीर्घतमः औचथ्यः ऋषिः । त्रिष्टुप् छन्दः । विष्णोदेवता ।

 

ओं विष्णोर्नु कं॑ वीर्या॑णि प्र वो॑चं यः पार्थि॑वानि विममे रजां॑सि । यो अस्क॑भायदुत्त॑रं सधस्थं॑ विचक्रमाणस्त्रेधोरु॑गायः ॥

 

ओं भूर्भुवस्वः । विष्णवे नमः । विष्णुं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

निरृतिकोणेन्दुखण्डे –

 

31. ओं त्र्यंबकं इति मन्त्रस्य । वसिष्ठः मैत्रावरुणिः ऋषयः । अनुष्टुप् छन्दः । रुद्रो देवता ।

 

ओं त्र्य॑म्बकं यजामहे सुगन्धिं॑ पुष्टिवर्ध॑नम् । उर्वारुकमि॑व बन्ध॑नान्मृत्योर्मु॑क्षीय मामृता॑त् ॥

 

ओं भूर्भुवस्वः । रुद्राय नमः । रुद्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

वायव्यकोणेन्दुखण्डे –

 

32. ओं अश्विना वर्तिरस्मदा इति मन्त्रस्य । उष्णिक् छन्दः । अश्विनौ देवता ।

 

ओं अश्वि॑ना वर्तिरस्मदा गोम॑द्रूस्रा हिर॑ण्यवत् । अर्वाग्रथं सम॑नसा नि य॑च्छतम् ॥

 

ओं भूर्भुवस्वः । अश्विभ्यां नमः । अश्विभ्यां ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ईशानकोणेन्दुखण्डे –

 

33. ओं कदा वसो इति मन्त्रस्य । सुमित्रः दुर्मित्रः वा कौत्सः ऋषयः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं कदा व॑सो स्तोत्रं हर्य॑त आव॑ श्मशा रु॑धद्वाः । दीर्घं सुतं वाताप्या॑य ॥

 

ओं भूर्भुवस्वः । कन्दर्पाय नमः । कन्दर्पं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ईशानपूर्वान्तराले भद्रे –

 

34. ओं ये नः सपत्ना इति मन्त्रस्य । आङ्गिरसः ऋषयः । जगती छन्दः । विश्वे देवाः देवता ।

 

ओं ये नः॑ सपत्ना अप ते भ॑वन्त्विन्द्राग्निभ्यामव॑ बाधामहे तान् । वस॑वो रुद्रा आ॑दित्या उ॑परिस्पृशं॑ मोग्रं चेत्ता॑रमधिराजम॑क्रन् ॥

 

ओं भूर्भुवस्वः । अष्टवसुभ्यो नमः । अष्टवसुभ्यः ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

इन्द्राग्न्यन्तराले भद्रे –

 

35. ओं इमा रुद्राय इति मन्त्रस्य । कुत्सः आङ्गिरसः ऋषयः । जगती छन्दः । रुद्रो देवता ।

 

ओं इमा रुद्राय॑ तवसे॑ कपर्दिने॑ क्षयद्वी॑राय प्र भ॑रामहे मतीः ।

यथा शमस॑द्विपदे चतु॑ष्पदे विश्वं॑ पुष्टं ग्रामे॑ अस्मिन्न॑नातुरम् ॥

 

ओं भूर्भुवस्वः । रुद्राय नमः । रुद्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

अग्नियमान्तराले भद्रे –

 

36. ओं सत्येनोत्त इति मन्त्रस्य । सावित्री सूर्य ऋषिः । अनुष्टूप् छन्दः । सोमो देवता ।

 

ओं सत्येनोत्त॑भिता भूमिः सूर्येणोत्त॑भिता द्यौः । ऋतेना॑दित्यास्ति॑ष्ठन्ति दिवि सोमो अधि॑ श्रितः ॥

 

ओं भूर्भुवस्वः । सूर्यासावित्र्यै नमः । सूर्यसावित्रीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

यमनिरृत्यन्तराले भद्रे –

 

37. ओं अश्विना पिबतं इति मन्त्रस्य । मेधातिथिः काण्व ऋषिः । गायत्री छन्दः । अश्विनौ देवता ।

 

अश्वि॑ना पिब॑तं मधु दीद्य॑ग्नी शुचिव्रता । ऋतुना॑ यज्ञवाहसा ॥

 

ओं भूर्भुवस्वः । अश्विभ्यां नमः । अश्विभ्यां ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

निरृतिवरुणान्तराले भद्रे –

 

38. ओं विश्वेदेवा शास्तन इति मन्त्रस्य । सौचीक अत्रि ऋषिः । त्रिष्टुप् छन्दः । विश्वे देवाः देवता ।

 

ओं विश्वे॑ देवाः शास्तन॑ मा यथेह होता॑ वृतो मनवै यन्निषद्य॑ ।

 

प्र मे॑ ब्रूत भागधेयं यथा॑ वो येन॑ पथा हव्यमा वो वहा॑नि ॥

 

ओं भूर्भुवस्वः । विश्वेभ्यो देवेभ्यो नमः । विश्व देवभ्यां ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

वरुणवायव्यान्तराले भद्रे –

 

39. ओं उदीरतामवर इति मन्त्रस्य । शङ्ख यामायन ऋषिः । त्रिष्टुप् छन्दः । पितरो देवता ।

 

ओं उदी॑रतामव॑र उत्परा॑स उन्म॑ध्यमाः पितरः॑ सोम्यासः॑ ।

 

असुं य ईयुर॑वृका ऋ॑तज्ञास्ते नो॑ऽवन्तु पितरो हवे॑षु ॥

 

ओं भूर्भुवस्वः । पितृभ्यो नमः । पितरं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

वायुसोमान्तराले भद्रे –

 

40. ओं आयं गौ इति मन्त्रस्य । सार्प राज्ञी ऋषिः । गायत्री छन्दः । आत्म वा सूर्य देवता ।

 

ओं आयं गौः पृश्नि॑रक्रमीदस॑दन्मातरं॑ पुरः । पितरं॑ च प्रयन्त्स्वः॑ ॥

 

ओं भूर्भुवस्वः । सर्पेभ्यो नमः । सर्पं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

सोमेशान्तराले भद्रे –

 

41. ओं यदक्रन्दः इति मन्त्रस्य । दीर्घतमाः औचथ्यः ऋषयः । त्रिष्टुप् छन्दः । अश्वः देवता ।

 

ओं यदक्र॑न्द्रः प्रथमं जाय॑मान उद्यन्त्स॑मुद्रादुत वा पुरी॑षत् । श्येनस्य॑ पक्षा ह॑रिणस्य॑ बाहू उ॑पस्तुत्यं महि॑ जातं ते॑ अर्वन् ॥

 

ओं भूर्भुवस्वः । स्कन्दाय नमः । स्कन्दं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ब्रह्मणस्पतीशानमध्ये शृङ्खलायां –

 

42. ओं ऋषभं मा इति मन्त्रस्य । ऋषभः वैराज शाक्कर ऋषयः । अनुष्टुप् छन्दः । सपत्ननाशन देवता ।

 

ओं ऋषभं मा॑ समानानां॑ सपत्ना॑नां विषासहिम् । हन्तारं शत्रू॑णां कृधि विराजं गोप॑तिं गवा॑म् ॥

 

ओं भूर्भुवस्वः । ऋषभाय नमः । ऋषभं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव वामवल्ल्यां –

 

43. ओं विष्णोर्नु कं इति मन्त्रस्य । दीर्घतमः औचथ्यः ऋषिः । त्रिष्टुप् छन्दः । विष्णोदेवता ।

 

ओं विष्णोर्नु कं॑ वीर्या॑णि प्र वो॑चं यः पार्थि॑वानि विममे रजां॑सि । यो अस्क॑भायदुत्त॑रं सधस्थं॑ विचक्रमाणस्त्रेधोरु॑गायः ॥

 

ओं भूर्भुवस्वः । नारायणाय नमः । नारायणं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव दक्षिणवल्ल्यां –

 

44. ओं अदितिर्ह्यजनिष्ट इति मन्त्रस्य । लौक्यः बृहस्पति, आङ्गीरसः, दाक्षायणी, अदितिः वा ऋषयः । अनुष्टुप् छन्दः । देवाः देवता ।

 

ओं अदि॑तिर्ह्यज॑निष्ट दक्ष या दु॑हिता तव॑ । तां देवा अन्व॑जायन्त भद्रा अमृत॑बन्धवः ॥

 

ओं भूर्भुवस्वः । दक्षाय नमः । दक्षं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ब्रह्मणस्पत्यग्निमध्ये –

 

45. ओं जातवेदसे इति मन्त्रस्य । कश्यप मरीचः ऋषिः । त्रिष्टुप् छन्दः । जातवेदो अग्निर्देवता ।

 

ओं जातवे॑दसे सुनवाम सोम॑मरातीयतो नि द॑हाति वेदः॑ । स नः॑ पर्षदति॑ दुर्गाणि विश्वा॑ नावेव सिन्धुं दुरितात्यग्निः ॥

 

ओं भूर्भुवस्वः । दुर्गायै नमः । दुर्गां ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव वामवल्ल्यां –

 

46. ओं उदीरतामवर इति मन्त्रस्य । शङ्ख यामायन ऋषिः । त्रिष्टुप् छन्दः । पितरो देवता ।

 

ओं उदी॑रतामव॑र उत्परा॑स उन्म॑ध्यमाः पितरः॑ सोम्यासः॑ । असुं य ईयुर॑वृका ऋ॑तज्ञास्ते नो॑ऽवन्तु पितरो हवे॑षु ॥

 

ओं भूर्भुवस्वः । स्वधायै नमः । स्वधां ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव दक्षिणवल्ल्यां –

 

47. ओं त्र्यंबकं इति मन्त्रस्य । वसिष्ठः मैत्रावरुणिः ऋषयः । अनुष्टुप् छन्दः । रुद्रो देवता ।

 

ओं त्र्य॑म्बकं यजामहे सुगन्धिं॑ पुष्टिवर्ध॑नम् । उर्वारुकमि॑व बन्ध॑नान्मृत्योर्मु॑क्षीय मामृता॑त् ॥

 

ओं भूर्भुवस्वः । मृत्युञ्जय रुद्राय नमः । मृत्युञ्जय रुद्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ब्रह्मणस्पति निरृतिमध्ये शृङ्खलायां –

 

48. ओं पुनर्दाय ब्रह्मजायां इति मन्त्रस्य । जुहू ब्रह्मजाया ऋषिः । त्रिष्टुप् छन्दः । विश्वे देवाः देवताः ।

 

ओं पुनर्दाय॑ ब्रह्मजायां कृत्वी देवैर्नि॑किल्बिषम् । ऊर्जं॑ पृथिव्या भक्त्वायो॑रुगायमुपा॑सते ॥

 

ओं भूर्भुवस्वः । रोगेभ्यो नमः । रोगं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव वामवल्ल्यां –

 

49. ओं समुद्रादूर्मि इति मन्त्रस्य । वामदेव गौतमः ऋषयः । त्रिष्तुप् छन्दः । अग्निसूर्याब्गोघृतनामन्यतमः देवता ।

 

ओं समुद्रादूर्मिर्मधु॑मां उदा॑रदुपांशुना सम॑मृतत्वमा॑नट् ।

 

घृतस्य नाम गुह्यं यदस्ति॑ जिह्वा देवाना॑ममृत॑स्य नाभिः॑ ॥

 

ओं भूर्भुवस्वः । समुद्राय नमः । समुद्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव दक्षिणवल्ल्यां –

 

50. ओं सितेसिते इति मन्त्रस्य । सरितः ऋषिः । त्रिष्टुप् छन्दः । अप् देवता ।

 

ओं सितासि॑ते सरी॑ते यत्र सङ्ग॑ते तत्रा॑प्लुता सो दिवमु॑पतन्ति । ये वै तन्वं॑ विस्रजन्ति धीरा॑स्ते जना॑सो अमृ॑तत्वं भज॑न्ति ॥

 

ओं भूर्भुवस्वः । सरिद्भ्यो नमः । सरितं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

ब्रह्मणस्पति वायुमध्ये शृङ्खलायां –

 

51. ओं मरुतो यस्य इति मन्त्रस्य । गौतमः राहूगणाः ऋषयः । गायत्री छन्दः। मरुतो देवता ।

 

ओं मरु॑तो यस्य हि क्षये॑ पाथा दिवो वि॑महसः । स सु॑गोपात॑मो जनः॑ ॥

 

ओं भूर्भुवस्वः । मरुद्भ्यो नमः । मरुतं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव वामवल्ल्यां –

 

52. ओं आ तू न इति मन्त्रस्य । कुसीदी काण्वः ऋषिः । गायत्री छन्दः । इन्द्रो देवता ।

 

ओं आ तू न॑ इन्द्र क्षुमन्तं॑ चित्रं ग्राभं सं गृ॑भाय । महाहस्ती दक्षि॑णेन ॥

 

ओं भूर्भुवस्वः । गणेशाय नमः । गणेशं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

तत्रैव दक्षिणवल्ल्यां –

 

53. ओं स्योना पृथिवी इति मन्त्रस्य । मेधातिथिः काण्वः ऋषयः । गायत्री छन्दः । पृथिवी देवता ।

 

ओं स्योना पृ॑थिवी भवानृक्षरा निवेश॑नी । यच्छा॑ नः शर्म सप्रथः॑ ॥

 

ओं भूर्भुवस्वः । भूम्यै नमः । भूमिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पूर्वे त्रयलिङ्गे –

 

54. ओं भूर्भुवस्वः । रुद्राय नमः । रुद्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

55. ओं भूर्भुवस्वः । अजैकपदे नमः । अजैकपदं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

56. ओं भूर्भुवस्वः । अहिर्बुध्न्याय नमः । अहिर्बुध्न्यं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् । एवं सर्वत्र त्रिषु लिङ्गुषु ।

 

57. ओं भूर्भुवस्वः । विरूपाक्षाय नमः । विरूपाक्षं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

58. ओं भूर्भुवस्वः । रैवताय नमः । रैवतं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

59. ओं भूर्भुवस्वः । हराय नमः । हरं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पश्चिमे त्रयलिङ्गे –

 

60. ओं भूर्भुवस्वः । विरूपाय नमः । विरूपं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

61. ओं भूर्भुवस्वः । त्र्यंबकाय नमः । त्र्यंबकं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

62. ओं भूर्भुवस्वः । सुरेश्वराय नमः । सुरेश्वरं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

उत्तरे लिङ्गमये –

 

63. ओं भूर्भुवस्वः । मृत्यवे नमः । मृत्युं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

64. ओं भूर्भुवस्वः । अन्तकाय नमः । अन्तकं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

65. ओं भूर्भुवस्वः । सर्वभूतक्षयाय नमः । सर्वभूतक्षयं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पीतपरिघौ पूर्वादिक्रमेणा –

 

66. ओं भूर्भुवस्वः । वज्राय नमः । वज्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

67. ओं भूर्भुवस्वः । शक्तये नमः । शक्तिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

68. ओं भूर्भुवस्वः । दण्डाय नमः । दण्डं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

69. ओं भूर्भुवस्वः । खड्गाय नमः । खड्गं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

70. ओं भूर्भुवस्वः । पाशाय नमः । पाशं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

71. ओं भूर्भुवस्वः । अङ्कुशाय नमः । अङ्कुशं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

72. ओं भूर्भुवस्वः । गदायै नमः । गदा ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

73. ओं भूर्भुवस्वः । त्रिशूलाय नमः । त्रिशूलं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

सत्वपरिघौ –

 

74. ओं भूर्भुवस्वः । गौतमाय नमः । गौतमं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

75. ओं भूर्भुवस्वः । भरद्वाजाय नमः । भरद्वाजं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

76. ओं भूर्भुवस्वः । विश्वामित्राय नमः । विश्वामित्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

77. ओं भूर्भुवस्वः । कश्यपाय नमः । कश्यपं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

78. ओं भूर्भुवस्वः । जमदग्नये नमः । जमदग्निं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

79. ओं भूर्भुवस्वः । वसिष्ठाय नमः । वसिष्ठं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

80. ओं भूर्भुवस्वः । अत्रये नमः । अत्रिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

81. ओं भूर्भुवस्वः । अरुन्दध्यै नमः । अरुन्दधीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पूर्वादिक्रमेण तद्बहिः पीतपरिघौ –

 

82. ओं भूर्भुवस्वः । आदित्याय नमः । आदित्यं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

83. ओं भूर्भुवस्वः । चन्द्राय नमः । चन्द्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

84. ओं भूर्भुवस्वः । मङ्गलाय नमः । मङ्गलं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

85. ओं भूर्भुवस्वः । बुधाय नमः । बुधं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

86. ओं भूर्भुवस्वः । बृहस्पतये नमः । बृहस्पतिं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

87. ओं भूर्भुवस्वः । शुक्राय नमः । शुक्रं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

88. ओं भूर्भुवस्वः । शनैश्चराय नमः । शनैश्चरं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

89. ओं भूर्भुवस्वः । राहवे नमः । राहुं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

90. ओं भूर्भुवस्वः । केतवे नमः । केतुं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

पूर्वादिक्रमेण तद्बहिः कृष्णपरिघौ –

 

91. ओं भूर्भुवस्वः । ऐन्द्र्यै नमः । ऐन्द्रीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

92. ओं भूर्भुवस्वः । कौमार्यै नमः । कौमारीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

93. ओं भूर्भुवस्वः । ब्राह्म्यै नमः । ब्राह्मीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

94. ओं भूर्भुवस्वः । वाराह्यै नमः । वाराहीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

95. ओं भूर्भुवस्वः । चामुण्डायै नमः । चामुण्डीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

96. ओं भूर्भुवस्वः । वैष्णव्यै नमः । वैष्णवीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

97. ओं भूर्भुवस्वः । माहेश्वर्यै नमः । माहेश्वरीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।

 

98. ओं भूर्भुवस्वः । वैनायक्यै नमः । वैनायकीं ध्यायामि आवाहयामि स्थापयामि ॥ पुष्पाक्षतैः पूजयेत् । पञ्चपूजां कुर्यात् ।