shrI vakratuNDA gaNapati AvaraNa pUjA kramaH

श्री वक्रतुण्ड गणेश आवरण पूजा क्रमः

 

पीठपूजा

 

मण्डूकादि परतत्वाय नमः ।

ओं श्रीं ह्रीं क्लीं तीव्रायै नमः ।

ओं श्रीं ह्रीं क्लीं ज्वालिन्यै नमः ।

ओं श्रीं ह्रीं क्लीं नन्दायै नमः ।

ओं श्रीं ह्रीं क्लीं भोगदायै नमः ।

ओं श्रीं ह्रीं क्लीं कामरूपिण्यै नमः ।

ओं श्रीं ह्रीं क्लीं उग्रायै नमः ।

ओं श्रीं ह्रीं क्लीं तेजोवत्यै नमः ।

ओं श्रीं ह्रीं क्लीं विघ्नविनाशिन्यै नमः ।

 

श्री वक्रतुण्ड गणपति ध्यानम्

 

नागास्यं चन्द्रचूडं त्रिनयनसहितं रत्नपीठेनिषण्णं

रक्तं पाशाङ्कुशाड्यं ह्यभयवरदके दन्तसद्बीजपूरे

बिभ्राणं बाहुपद्मैः पृथुतर जठरं पीतकौशेयवस्त्रं

ध्यायेहं बिन्दुसंस्थं मम हृदि सततं सिद्धिबुद्धि समेतम् ॥

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड णेशं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्श्य ।

ॐ श्रीं गं वक्रतुण्डाय हुं । स्थापिता भवा । स्थापण मुद्रां प्रदर्श्य ।

ॐ श्रीं गं वक्रतुण्डाय हुं । संस्थितो भवा । संस्थित मुद्रां प्रदर्श्य ।

ॐ श्रीं गं वक्रतुण्डाय हुं । सन्निरुद्धो भवा । सन्निरुद्ध मुद्रां प्रदर्श्य ।

ॐ श्रीं गं वक्रतुण्डाय हुं । सम्मुखी भवा । सम्मुखी मुद्रां प्रदर्श्य ।

ॐ श्रीं गं वक्रतुण्डाय हुं । अवकुण्ठितो भवा । अवकुण्ठन मुद्रां प्रदर्श्य ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्राञ्श्च प्रदर्श्य ।

 

ॐ जय जय जगन्नाथ यावत् पूजा वसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । आसनं कल्पयामि नमः

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । पादयोः पाद्यं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । मुखे आचमनीयं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । वस्त्राणि कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । आभरणानि कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । दिव्य परिमल गन्धं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । पुष्पाक्षतान् कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । धूपं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । दीपं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । नैवेद्यं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । अमृतपानीयं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेशाय नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

संविन्मये परे देव परामृत रुचिप्रिय ।

अनुज्ञां वक्रतुण्डं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ॐ हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

वक्रतुण्डाय कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

हुं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणं (बिन्दौ)

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

गुरुमण्डलार्चनम्

 

कुल गुरु क्रमः

ॐ श्रीं ह्रीं क्लीं गणेश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गणक्रीड सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विकट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विघ्ननायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं दुर्मुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सुमुख सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विघ्नराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गणाधिप सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

विद्यावतार गुरु क्रमः

ॐ श्रीं ह्रीं क्लीं सुरानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं प्रमोद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं हेरम्ब सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं महोत्कट सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं शङ्कर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं लम्बकर्ण सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं मेघनाद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं महाबल सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं गणञ्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओघत्रय पूजा

 

दिव्यौघः

ॐ श्रीं ह्रीं क्लीं विनायक सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं कवीश्वर सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विरूपाक्ष सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं विश्व सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ब्रह्मण्य सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं निधीश सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

सिद्धौघः

ॐ श्रीं ह्रीं क्लीं गजाधिराज सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं वरप्रद सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

मानवौघः

ॐ श्रीं ह्रीं क्लीं विजय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं दुर्जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं जय सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं दुःखारि सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सुखावह सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं परमात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सर्वभूतात्म सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं महानन्द सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं फालचन्द्र सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं सद्योजात सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं बुद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं शूरसिद्ध सिद्धाचार्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ॐ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।

भक्त्या समर्पये तुभ्यं गुरुपङ्क्तिप्रपूजनम् ॥

 

प्रथमावरणम् (बिन्दौ)

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं सिद्ध्यै नमः । श्री सिद्धि देवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं बुद्ध्यै नमः । श्री बुद्धि देवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री वक्रतुण्ड गणेश प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम्  (त्रिकोणे)

 

ॐ श्रीं ह्रीं क्लीं इच्छाशक्त्यै नमः । श्री इच्छा शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं ज्ञानशक्त्यै नमः । श्री ज्ञान शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं ह्रीं क्लीं क्रियाशक्त्यै नमः । श्री क्रिया शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री वक्रतुण्ड गणेश प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम् (ट्कोणे)

 

ॐ मोदाय नमः । श्री मोद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ प्रमोदाय नमः । श्री प्रमोद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ दुर्मुखाय नमः । श्री दुर्मुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ सुमुखाय नमः । श्री सुमुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अविघ्नाय नमः । श्री अविघ्न श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ विघ्नकारकाय नमः । श्री विघ्नकारक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ट्कोणे सन्धिषु

 

ॐ हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

श्रीं शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गं शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

वक्रतुण्डाय कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

हुं नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ श्रीं गं वक्रतुण्डाय हुं । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

एताः तृतीयामावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री वक्रतुण्ड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम् (अष्टपत्रे)

 

विनायकाय नमः । श्री विनायक श्रीपादुकां पूजयामि तर्पयामि नमः ।

विरूपाक्षाय नमः । श्री विरूपाक्ष श्रीपादुकां पूजयामि तर्पयामि नमः ।

क्रूरकर्माय नमः । श्री क्रूरकर्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

अपराजिताय नमः । श्री अपराजित श्रीपादुकां पूजयामि तर्पयामि नमः ।

गजग्रीवाय नमः । श्री गजग्रीव श्रीपादुकां पूजयामि तर्पयामि नमः ।

चण्डवेगाय नमः । श्री चण्डवेग श्रीपादुकां पूजयामि तर्पयामि नमः ।

क्रूरचण्डाय नमः । श्री क्रूरचण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

पराक्रमाय नमः । श्री पराक्रम श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरियावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री वक्रतुण्ड गणेश प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम् (भूपुरे)

 

प्रथम रेखायां

 

अं अणिमा सिद्ध्यै नमः । श्री अणिमा सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

मं महिमा सिद्ध्यै नमः । श्री महिमा सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

लं लघिमा सिद्ध्यै नमः । श्री लघिमा सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

गं गरिमा सिद्ध्यै नमः । श्री गरिमा सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ईं ईशित्व सिद्ध्यै नमः । श्री ईशित्व सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

वं वशित्व सिद्ध्यै नमः । श्री वशित्व सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

पं प्राकाम्य सिद्ध्यै नमः । श्री प्राकाम्य सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

पं प्राप्ति सिद्ध्यै नमः । श्री प्राप्ति सिद्धि श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

द्वितीय रेखायां

 

ॐ आं ब्राह्म्यै नमः । श्री ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ईं माहेश्वर्यै नमः । श्री माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऊं कौमार्यै नमः । श्री कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ॠं वैष्णव्यै नमः । श्री वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ॡं वाराह्यै नमः । श्री वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ऐं माहेन्द्र्यै नमः । श्री माहेन्द्री श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ औं चामुण्डायै नमः । श्री चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ अः महालक्ष्म्यै नमः । श्री महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

तृतीय रेखायां

 

लं इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

रं अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

टं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

क्षं निर्ऋतये नमः । निर्ऋती श्रीपादुकां पूजयामि तर्पयामि नमः ।

वं वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

यं वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

सां सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।

हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ॐ ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

ॐ श्रीं गं वक्रतुण्डाय हुं । श्री वक्रतुण्ड गणेश श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवतात्मकः श्री वक्रतुण्ड गणेश प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *