shrI kalki aShTottarashatanAma stotraM

॥ श्री कल्कि अष्टोत्तरशतनाम स्तोत्रम् ॥

 

ध्यानं

 

ध्यायेत् नीलहयारूढं श्वेतोष्णीषविराजितम्

महामुद्राढ्यहस्तंश्च कौस्तुभोद्दामकञ्चुकम् ।

मर्दयन्तं म्लोच्छगणं क्रोधधूर्णितलोचनम्

अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ॥

 

कल्की कल्की कल्किहन्ता कल्किजित्कलिमारकः ।

कल्क्यलभ्यः कल्मषघ्नः कल्पितक्षोणिमङ्गलः ॥ 1 ॥

 

कलिताश्वाकृतिः कन्तुसुन्दरः कञ्जलोचनः ।

कल्याणमूर्तिः कमलाचित्तचोरः कलानिधिः ॥ 2 ॥

 

कमनीयः कलिनिशाकल्यनामा कनत्तनुः ।

कलानिधिसहस्राभा कपर्दिगिरिसन्निभः ॥ 3 ॥

 

कन्दर्पदर्पदमनः कण्ठीरवपराक्रमः ।

कन्धरोच्चलितश्वेतपटानिर्धूतकन्धरः ॥ 4 ॥

 

कठोरहेषानिनदत्रासिताशेषमानुषः ।

कविः कवीन्द्रसंस्तुत्यः कमलासनसन्नुतः ॥ 5 ॥

 

कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलः ।

कचित्तदर्पदमनगमनस्तम्भिताहिपः ॥ 6 ॥

 

कलाकुलकलाजालचलवालामलाचलः ।

कल्याणकान्तिसन्तान पारदक्षालिताखिलः ॥ 7 ॥

 

कल्पद्रुकुसुमाकीर्णः कलिकल्पमहीरुहः ।

कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतिः ॥ 8 ॥

 

कञ्जासनाण्डामितात्मप्रतापः कन्धिबन्धनः ।

कठोरखुरविन्यासपीडिताशेषभूतलः ॥ 9 ॥

 

कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुरः ।

कदर्थीकृतरुद्रादिवीरवर्यः कठोरदृक् ॥ 10 ॥

 

कविलोकामृतासार वर्षायितदृगावलिः ।

कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततिः ॥ 11 ॥

 

कठोरश्वासनिर्धूतखलतूलावृताम्बुधिः ।

कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवः ॥ 12 ॥

 

कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुतः ।

कञ्जास्याण्डबिभित्योर्थ्वदृष्टिश्रुतियुगाद्भुतः ॥ 13 ॥

 

कनत्पक्षद्वयव्याज शङ्खचक्रोपशोभितः ।

कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चितः ॥ 14 ॥

 

कलितांशुगदावालः कण्ठसन्मणिविभ्रमः ।

कलानिधिलसत्फालः कमलालयविग्रहः ॥ 15 ॥

 

कर्पूरखण्डरदनः कमलाबडबान्वितः ।

करुणासिन्धुफेनान्तलम्बमानाधरोष्टकः ॥ 16 ॥

 

कलितानन्तचरणः कर्मब्रह्मसमुद्भवः ।

कर्मब्रह्माब्जमार्ताण्डः कर्मब्रह्मद्विरर्दनः ॥ 17 ॥

 

कर्मब्रह्ममयाकारः कर्मब्रह्मविलक्षणः ।

कर्मब्रह्मात्यविषयः कर्मब्रह्मस्वरूपवित् ॥ 18 ॥

 

कर्मास्पृष्टः कर्महीनः कल्याणानन्दचिन्मयः ।

कञ्जासनाण्डजठरः कल्पिताखिलविभ्रमः ॥ 19 ॥

 

कर्मालसजनाज्ञेयः कर्मब्रह्ममतासहः ।

कर्माकर्मविकर्मस्थः कर्मसाक्षी कभासकः ॥ 20 ॥

 

कचन्द्राग्न्युडुतारादिभासहीनः कमध्यगः ।

कचन्द्रादित्यलसनः कलावार्ताविवर्जितः ॥ 21 ॥

 

करुद्रमाधवमयः कलाभूतप्रमातृकः ।

कलितानन्तभुवन सृष्टिस्थितिलयक्रियः ॥ 22 ॥

 

करुद्रादि तरङ्गाध्यस्वात्मानन्दपयोदधिः ।

कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमाः ॥ 23 ॥

 

कलिचेतस्सरोहंसः कलिताखिलचोदनः ।

कलानिधिवरज्योत्स्नामृतक्षालितविग्रहः ॥ 24 ॥

 

कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेवितः ।

कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चितः ॥ 25 ॥

 

कलानिधिकलाश्वेतशारदाम्बुदविग्रहः ।

कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चितः ॥ 26 ॥

 

कलितात्मानन्दभुक्तिः करुङ्नीराजिताकृतिः ।

कश्यपादिस्तुतख्यातिः कविचेतस्सुमार्पणः ॥ 27 ॥

 

कलिताकारसद्धर्मः कलाफलमयाकृतिः ।

कठोरखुरघातात्तप्राणाधर्मवशुः कलिजित् ॥ 28 ॥

 

कलापूर्णीकृतवृषः कल्पितादियुगस्थितिः ।

कम्रः कल्मषपैशाचमुक्ततुष्टधरानुतः ॥ 29 ॥

 

कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तरः ।

कल्याणात्मयशोवल्लीपुष्पायितकलानिधिः ॥ 30 ॥

 

कल्याणात्मयशस्सिन्धु जाताप्सरसनर्तितः ।

कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधिः ॥ 31 ॥

 

कमलासनधीमन्थमथितानन्दसिन्धुभू ।

कल्याणसिन्धुः कल्याणदायी कल्याणमङ्गलः ॥ 32 ॥

Leave a Reply

Your email address will not be published. Required fields are marked *