shrI kalkyavatAra mahAmantra japa kramaH

 

॥ श्री कल्क्यवतार महामन्त्र जप क्रमः ॥

 

अस्य श्री कल्कि महामन्त्रस्य ब्रह्मा ऋषिः ।

गायत्री छन्दः । श्री कल्कि देवता ॥

कं बीजं । नमः शक्तिः ॥

 

श्री कल्क्यवतार महामन्त्र प्रसाद सिद्धर्थे जपे विनियोगः । (मूलेन त्रिः व्यापकं कुर्यात्)

 

करन्यासः

 

कं अङ्गुष्ठाभ्यां नमः ।

कं तर्जनीभ्यां नमः ।

ल्किं मध्यमाभ्यां नमः ।

नें अनामिकाभ्यां नमः ।

नं कनिष्ठिकाभ्यां नमः ।

मः करतलकरपृष्ठाभ्यां नमः ।

 

अङ्गन्यासः

 

कं हृदयाय नमः ।

कं शिरसे स्वाहा ।

ल्किं शिखायै वषट् ।

नें कवचाय हुं ।

नं नेत्रत्रयाय वौषट् ।

मः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्बन्धः ।

 

ध्यानम्

 

ध्यायेत् नीलहयारूढं श्वेतोष्णीषविराजितम्

महामुद्राढ्यहस्तंश्च कौस्तुभोद्दामकञ्चुकम् ।

मर्दयन्तं म्लोच्छगणं क्रोधधूर्णितलोचनम्

अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

 

मूलमन्त्रः ॐ कं कल्किने नमः ॥ (108 वारं)

 

अङ्गन्यासः

 

कं हृदयाय नमः ।

कं शिरसे स्वाहा ।

ल्किं शिखायै वषट् ।

नें कवचाय हुं ।

नं नेत्रत्रयाय वौषट् ।

मः अस्त्राय फट् ।

 

ॐ भूर्भुवस्वरों इति दिग्विमोकः ।

 

ध्यानम्

 

ध्यायेत् नीलहयारूढं श्वेतोष्णीषविराजितम्

महामुद्राढ्यहस्तंश्च कौस्तुभोद्दामकञ्चुकम् ।

मर्दयन्तं म्लोच्छगणं क्रोधधूर्णितलोचनम्

अन्तर्हितैर्देवमुनिगन्धर्वैः संस्तुतं हरिम् ॥

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पयामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *