॥ श्री गायत्री विधानम् ॥
॥ श्री गायत्री मन्त्रजप क्रमः ॥
Click to show/hide
अस्य श्री गायत्री महामन्त्रस्य विश्वामित्र ऋषिः ।
गायत्री छन्दः । श्री गायत्र्यम्बा देवता ।
तत्सवितुर्वरेण्यं बीजं । धीयोयोनः प्रचोदयात् शक्तिः । भर्गोदेवस्य धीमहि कीलकं ।
श्री गायत्र्यम्बा प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
ब्रह्म शापविमोचनम् –
अस्य श्री ब्रह्मशापविमोचन महामन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः । भुक्तिमुक्तिप्रदा ब्रह्मानुगृहीता ब्रह्मशापविमोचनी गायत्री शक्तिर्देवता ।
ब्रह्मशापविमोचनार्थे जपे विनियोगः ।
औं गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः ।
तां पश्यन्ति धीराः सुमनसा वाचामग्रतः ॥
ॐ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् ।
ॐ देवि । गायत्री । त्वं ब्रह्मशापात् विमुक्ता भव ।
वसिष्ठ शापविमोचनम् –
अस्य श्री वसिष्ठशापविमोचन महामन्त्रस्य निग्रहानुग्रह कर्ता वसिष्ठ ऋषिः ।
विश्वोद्भवा गायत्री छन्दः ।
वसिष्ठानुगृहीता गायत्रीशक्तिर्देवता ।
वसिष्ठ शापविमोचनार्थे जपे विनियोगः ।
सोऽहमर्कमयं ज्योतिरर्कज्योतिरहं शिवः ।
आत्मज्योतिरहं शुक्ल सर्वज्योती रसोऽस्म्यहम् ॥ योनि मुद्रां प्रदर्श्य ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । (3 वारं)
ॐ देवि । गायत्री । त्वं वसिष्ठ शापात् विमुक्ता भव ।
विश्वामित्र शापविमोचनम् –
अस्य श्री विश्वामित्र शापविमोचनमहामन्त्रस्य नूतनसृष्टि कर्ता विश्वामित्र ऋषिः ।
गायत्री छन्दः । विश्वामित्रानुगृहीता गायत्रीशक्तिर्देवता ।
विश्वामित्र शापविमोचनार्थे जपे विनियोगः ।
ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवाः ।
देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीं इष्टकरीं प्रपद्ये ॥
यन्मुखान्निः सृतोऽखिलवेदगर्भः ॥
ॐ देवि । गायत्री । त्वं विश्वामित्र शापात् विमुक्ता भव ।
शुक्र शापविमोचनम् –
अस्य श्री शुक्रशापविमोचन महामन्त्रस्य सञ्जीवन कर्ता शुक्र ऋषिः ।
कामदुधा गायत्री छन्दः । शुक्रानुगृहीता गायत्रीशक्तिर्देवता ।
शुक्र शापविमोचनार्थे जपे विनियोगः ।
ॐ ईदृशीं चैव गायत्रीं ध्यायेद्यस्तु नित्यशः ।
सर्वं पापं परित्यज्य स गच्छेत् परमं पदम् ॥
ॐ भगवति । गायत्री । त्वं शुक्र शापात् विमुक्ता भव ।
वरुण शापविमोचनम् –
अस्य श्री वरुणशापविमोचन महामन्त्रस्य गौतमवामदेवसप्तसागरा ऋषयः ।
अनुष्टुप् छन्दः । वरुणो देवता ।
वरुणशापविमोचनार्थे जपे विनियोगः ।
ॐ धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्चः ।
यदापोऽघ्निया वरुणेति शपामहे ततो वरुणनो मुञ्चः ॥
ॐ भगवति । गायत्री । त्वं वरुण शापात् विमुक्ता भव ।
अग्नि शापविमोचनम् –
अस्य श्री अग्निशापविमोचनमहामन्त्रस्य चतुःशृङ्गवामदेवो ऋषिः ।
गायत्री छन्दः । गायत्री शक्तिर्देवता ।
अग्निशापविमोचनार्थे जपे विनियोगः ।
ॐ शीर्षण्वन्ती कर्णवन्ती विषरूपा भयङ्करी प्रचोदयात् नः यो धियो धीमहि देवस्य भर्गो वरेण्यं सवितुस्तत् ।
यदग्रहिण्यौ दिहाह्यत्वावितत्य योजया सुवहन् हुं फट् ।
ॐ भगवति । गायत्री । त्वं अखिलाग्नि शापात् विमुक्ता भव ।
गायत्रि उत्कीलनम्
ॐॐॐॐॐॐॐॐॐ हौं जूं सः भूः तत्सवितुर्वरेण्यं सः जूं हौं ॐ ।
ॐॐॐॐॐॐॐॐॐ हौं जूं सं भुवः भर्गो देवस्य धीमहि सः जूं हौं ॐ ।
ॐॐॐॐॐॐॐॐॐ हौं जूं सं स्वः धीयोर्योनः प्रचोदयात् सः जूं हौं ॐ ।
ॐ भगवती गायत्री त्वं उत्कीलिता भव ।
करन्यासं
ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने तर्जिनीभ्यां नमः ।
ॐ धियो यो नः प्रचोदयात् रुद्रात्मने मध्यमाभ्यां नमः ।
ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरों ईश्वरात्मने अनामिकाभ्यां नमः ।
ॐ परोरजसेऽसावदोम् सदाशिवात्मने कनिष्ठाभ्यां नमः ।
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासं
ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः ।
ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने शिरसे स्वाहा ।
ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् ।
ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं ।
ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् ।
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् ।
ॐ भूर्भुवस्वरों इति दिग्बन्धः ॥
ध्यानम्
मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्-मुखैस्त्रीक्षणैः
युक्तां-इन्दुकला-निबद्ध-मुकुटां तत्वार्थ-वर्णात्मिकाम् ।
गायत्री वरदाभय-अङ्कुश-कशाः शुभ्रं कपालं गुणं (गदां)
शङ्खं चक्रं अथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायैअमृतं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
मूलमन्त्रः ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोर्योनः प्रचोदयात् ॥ (108 वारं)
अङ्गन्यासः
ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः ।
ॐ भर्गोदेवस्य धीमही विष्णवात्मने शिरसे स्वाहा ।
ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् ।
ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं ।
ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् ।
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्विमोगः ।
ध्यानम्
मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्-मुखैस्त्रीक्षणैः
युक्तां-इन्दुकला-निबद्ध-मुकुटां तत्वार्थ-वर्णात्मिकाम् ।
गायत्री वरदाभय-अङ्कुश-कशाः शुभ्रं कपालं गुणं (गदां)
शङ्खं चक्रं अथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायैअमृतं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री गायत्री आवरण पूजा क्रमः ॥
Click to show/hide
पीठ पूजा
प्रह्लादिन्यै नमः ।
प्रभायै नमः ।
नित्यायै नमः ।
विश्वम्भरायै नमः ।
विलासिन्यै नमः ।
प्रभावत्यै नमः ।
जयायै नमः ।
शान्त्यै नमः ।
कान्त्यै नमः ।
दुर्गायै नमः ।
सरस्वत्यै नमः ।
विश्वरूपायै नमः ।
विशालायै नमः ।
ईशान्यै नमः ।
व्यापिन्यै नमः ।
विमलायै नमः ।
तमोऽपहारिण्यै नमः ।
सूक्ष्मायै नमः ।
विश्वायै नमः ।
जयावहायै नमः ।
पद्मालयायै नमः ।
परायै नमः ।
शोभायै नमः ।
पद्मरूपायै नमः ।
श्री गायत्री आवाहनम्
मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्-मुखैस्त्रीक्षणैः
युक्तां-इन्दुकला-निबद्ध-मुकुटां तत्वार्थ-वर्णात्मिकाम् ।
गायत्री वरदाभय-अङ्कुश-कशाः शुभ्रं कपालं गुणं (गदां)
शङ्खं चक्रं अथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बां ध्यायामि आवाहयामि । आवाहन मुद्रां प्रदर्शय ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा स्थापितो भव । स्थापण मुद्रां प्रदर्शय ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा संस्थितो भव । संस्थित मुद्रां प्रदर्शय ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा सन्निरुद्धो भव । सन्निरुद्ध मुद्रां प्रदर्शय ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा सम्मुखी भव । सम्मुखी मुद्रां प्रदर्शय ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा अवकुण्ठितो भव । अवकुण्डन मुद्रां प्रदर्शय ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि नमः । वन्दन देनु योनि मुद्रांश्च प्रदर्शय ॥
ॐ जय जय जगन्माता यावत् पूजा वसानकम् ।
तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । आसनं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । पादयोः पाद्यं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । हस्तयोः अर्घ्यं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । मुखे आचमनीयं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । शुद्धोदक स्नानं कल्पयामि नमः । अनन्तरं आचमनीयं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । वस्त्राणि कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । आभरणानि कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । दिव्यपरिमल गन्धं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । गन्धस्योऽपरि हरिद्रा कुङ्कुमं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । पुष्पाक्षतान् कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । धूपं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । दीपं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । नैवेद्यं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । अमृतपानीयं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । सुगन्ध ताम्बूलं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । कर्पूर नीराञ्जनं कल्पयामि नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बायै नमः । प्रदक्षिण नमस्कारान् कल्पयामि नमः ।
ॐ संविन्मये परे देवि परामृत रुचि प्रिये ।
अनुज्ञां गायत्रीं देहि परिवारार्चनाय मे ॥
षडङ्ग तर्पणम्
ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
लयाङ्ग पूजा
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्रीगायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)
प्रथमावरणम् (त्रिकोणे)
ॐ तत्सवितुर्वरेण्यं गायत्र्यै नमः । गायत्री श्रीपादुकां पूजयामि तर्पयामि नमः । (नैर्ऋते)
ॐ भर्गोदेवस्य धीमहि सावित्र्यै नमः । सावित्री श्रीपादुकां पूजयामि तर्पयामि नमः । (पूर्वे)
ॐ धीयो यो नः प्रचोदयात् सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः । (वायव्ये)
ॐ स्वः ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः । (आग्नेये)
ॐ भुवः विष्णवे नमः । विष्णु श्रीपादुकां पूजयामि तर्पयामि नमः । (पश्चिमे)
ॐ भूः रुद्राय नमः । रुद्र श्रीपादुकां पूजयामि तर्पयामि नमः । (ऐशान्ये)
ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥
अनेन प्रथमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
द्वितीयावरणम् (षट्कोणे)
ॐ तत्सवितुर्वरेण्यं ब्रह्मात्मने हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ भर्गोदेवस्य धीमही विष्ण्वात्मने शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ धियो यो नः प्रचोदयात् रुद्रात्मने शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ईश्वरात्मने कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ परोरजसेऽसावदोम् सदाशिवात्मने नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् ॐ आपो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्वरोम् ॐ परोरजसेऽसावदोम् सर्वात्मने अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥
अनेन द्वितीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
तृतीयावरणम् (अष्टदले)
ॐ आदित्याय नमः । आदित्य श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऐं रवये नमः । रवी श्रीपादुकां पूजयामि तर्पयामि नमः । (आग्नेये)
ॐ उं भानवे नमः । भानू श्रीपादुकां पूजयामि तर्पयामि नमः । (नैर्ऋते)
ॐ इं भास्कराय नमः । भास्कर श्रीपादुकां पूजयामि तर्पयामि नमः । (वायव्ये)
ॐ अं सूर्याय नमः । सूर्य श्रीपादुकां पूजयामि तर्पयामि नमः । (ईशान्ये)
ॐ उं उषायै नमः । उषा श्रीपादुकां पूजयामि तर्पयामि नमः । (पूर्वे)
ॐ प्रं प्रज्ञायै नमः । प्रज्ञा श्रीपादुकां पूजयामि तर्पयामि नमः । (दक्षिणे)
ॐ प्रं प्रभायै नमः । प्रभा श्रीपादुकां पूजयामि तर्पयामि नमः । (पश्चिमे)
ॐ सं सन्ध्यायै नमः । सन्ध्या श्रीपादुकां पूजयामि तर्पयामि नमः । (उत्तरे)
ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥
अनेन तृतीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
तुरीयावरणम् (अष्टदलमूले )
ॐ तत् प्रह्लादिन्यै नमः । प्रह्लादिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सं प्रभायै नमः । प्रभा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ विं नित्यायै नमः । नित्या श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ तुं विश्वम्भरायै नमः । विश्वम्भरा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ र्वं विलासिन्यै नमः । विलासिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रें प्रभावत्यै नमः । प्रभावती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ णिं जयायै नमः । जया श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यं शान्त्यै नमः । शान्ता श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥
अनेन तुरीयावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
पञ्चमावरणम् (अष्टदलवामे)
ॐ भं कान्त्यै नमः । कान्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ र्गों दुर्गायै नमः । दुर्गा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ दें सरस्वत्यै नमः । सरस्वती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वं विश्वरूपायै नमः । विश्वरूपा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ स्यं विशालायै नमः । विशाला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ धीं ईशान्यै नमः । ईशानी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ मं व्यापिन्यै नमः । व्यापिनी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हिं विमलायै नमः । विमला श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥
अनेन पञ्चमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
षष्ठावरणम् (अष्टदल दक्षणे)
ॐ धिं तमोऽपहारिण्यै नमः । तमोऽपहारिणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यों सूक्ष्मायै नमः । सूक्ष्मा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यों विश्वायै नमः । विश्वा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ नं जयावहायै नमः । जयावहा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ प्रं पद्मालयायै नमः । पद्मालया श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ चों परायै नमः । परा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ दं शोभायै नमः । शोभा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यात् पद्मरूपायै नमः । पद्मरूपा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥
अनेन षष्ठावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
सप्तमावरणम् (पूर्वद्वारस्य दक्षिण शोभायाम्)
ॐ आं ब्राह्म्यै नमः । ब्राह्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ईं माहेश्वर्यै नमः । माहेश्वरी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऊं कौमार्यै नमः । कौमारी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऋं वैष्णव्यै नमः । वैष्णवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऌं वाराह्यै नमः । वाराही श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ऐं ऐन्द्राण्यै नमः । ऐन्द्राणी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ओं चामुण्डायै नमः । चामुण्डा श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ अः महालक्ष्मयै नमः । महालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः सप्तमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥
अनेन सप्तमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
अष्टमावरणम् (आग्नेयादि कोणे)
ॐ अं अरुणाय नमः । अरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ मों रवये नमः । रवी श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ईं सोमाय नमः । सोम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ कों भौमाय नमः । भौम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यों बुधाय नमः । बुध श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ओं गुरवे नमः । गुरु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पों सौरये नमः । सौर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यों राहवे नमः । राहू श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ षों केतवे नमः । केतु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः अष्टमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं अष्टमावरणार्चनम् ॥
अनेन अष्टमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
नवमावरणम् (भूपुरे)
ॐ लां इन्द्राय वज्रहस्ताय सुराधिपतये पीतवर्णाय ऐरावतवाहनाय इन्द्राणीशक्ति सहिताय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रां अग्नये शक्तिहस्ताय तोजोऽधिपतये रक्तवर्णाय मेषवाहनाय स्वाहाशक्ति सहिताय नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ टां यमाय दण्डहस्ताय प्रेताधिपतये श्यामवर्णाय महिषवाहनाय वाराहीशक्ति सहिताय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ क्षां निर्ऋतये खड्गहस्ताय रक्षोऽधिपतये धूम्रवर्णाय प्रेतवाहनाय खड्गिणीशक्ति सहिताय नमः । निर्ऋती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ वां वरुणाय पाशहस्ताय जलाधिपतये शुक्लवर्णाय मकरवाहनाय वारुणीशक्ति सहिताय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ यां वायवे अङ्कुशहस्ताय प्राणाधिपतये धूम्रवर्णाय मृगवाहनाय वायवीशक्ति सहिताय नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सां कुबेराय गदहस्ताय यक्षाधिपतये मौक्तिकवर्णाय नरवाहनाय कौबेरीशक्ति सहिताय नमः । कुबेर श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ हौं ईशानाय त्रिशूलहस्ताय देवाधिपतये शुक्लवर्णाय वृषभवाहनाय ईशानीशक्ति सहिताय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आं ब्रह्मणे पद्महस्ताय लोकाधिपतये रक्तवर्णाय हंसवाहनाय वाणीशक्ति सहिताय नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ ह्रीं अनन्ताय चक्रहस्ताय नागाधिपतये शुक्लवर्णाय गरुडवाहनाय योगिनीशक्ति सहिताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः नवमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
अनेन नवमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
दशमावरणम् (भूपुरे)
ॐ पीतवर्णाय वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ शुक्लवर्णाय शक्तये नमः । शक्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ असितवर्णाय दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ आकाशवर्णाय खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ विद्युत्प्रभाय पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ रक्तवर्णाय अङ्कुशाय नमः । अङ्कुश श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ सितवर्णाय गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ असितवर्णाय शूलाय नमः । शूल श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ कुरुविन्दवर्णाय पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।
ॐ पाटलाभाय चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।
ओं एताः दशमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्तर्पिताः सन्तुष्ठाः सन्तु नमः ।
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमही धीयोयोनः प्रचोदयात् । श्री गायत्र्यम्बा श्रीपादुकां पूजयामि तर्पयामि नमः । ( 3 वारं )
ओं अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं दशमावरणार्चनम् ॥
अनेन दशमावरणार्चनेन भगवति सर्वदेवात्मिका श्री गायत्र्यम्बा प्रीयताम् । (योनिमुद्रया प्रणमेत्)
पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं कल्पयामि ।
हं आकाशात्मिकायै पुष्पाणि कल्पयामि ।
यं वाय्वात्मिकायै धूपं कल्पयामि ।
रं अग्न्यात्मिकायै दीपं कल्पयामि ।
वं अमृतात्मिकायै अमृतं कल्पयामि ।
सं सर्वात्मिकायै ताम्बूलादि समस्तोपचारान् कल्पयामि ।
॥ श्री गायत्री अष्टोत्तरशतनाम स्तोत्रम् ॥ (नामावलिश्च)
ओं तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला । विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ 1 ॥ वरदाभयहस्ताब्जा रेवातीरनिवासिनी । प्रणित्यय विशेषज्ञा यन्त्राकृतविराजिता ॥ 2 ॥ भद्रपादप्रिया चैव गोविन्दपदगामिनी । देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ 3 ॥ स्यन्दनोत्तमसंस्था च धीरजीमूतनिस्वना । मत्तमातङ्गगमना हिरण्यकमलासना ॥ 4॥ धीजनाधारनिरता योगिनी योगधारिणी । नटनाट्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ 5 ॥ चोरचारक्रियासक्ता दारिद्र्यच्छेदकारिणी । यादवेन्द्रकुलोद्भूता तुरीयपथगामिनी ॥ 6 ॥ गायत्री गोमती गङ्गा गौतमी गरुडासना । गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥ 7 ॥ गन्धर्वनगराकारा गौरवर्णा गणेश्वरी । गुणाश्रया गुणवती गह्वरी गणपूजिता ॥ 8 ॥ गुणत्रयसमायुक्ता गुणत्रयविवर्जिता । गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥ 9 ॥ गार्ग्यप्रिया गुरुपदा गुह्यलिङ्गाङ्गधारिणी । सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥ 10 ॥ सुप्रकाशा सुखासीना सुमतिः सुरपूजिता । सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ 11 ॥ सुधांशुबिम्बवदना सुस्तनी सुविलोचना । सीता सर्वाश्रया सन्ध्या सुफला सुखधायिनी ॥ 12 ॥ सुभ्रोः सुवासा सुश्रोणी संसारार्णवतारिणी । सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ 13 ॥ वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी । महालक्ष्मी महासिद्धी महामाया महेश्वरी ॥ 14॥ मोहिनी मदनाकारा मधुसूदनचोदिता । मीनाक्षी मधुरावासा नागेन्द्रतनया उमा ॥ 15 ॥ त्रिविक्रमपदाक्रान्ता त्रिस्वरा त्रिविलोचना । सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥ 16 ॥ वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता । व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥ 17 ॥ कालचक्रवितानस्था चन्द्रमण्डलदर्पणा । ज्योत्स्नातपानुलिप्ताङ्गी महामारुतवीजिता ॥ 18 ॥ सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी । नमस्तेस्तु महालक्ष्मी महासम्पत्तिदायिनी ॥ 19 ॥ नमस्तेस्तु करुणामूर्ती नमस्ते भक्तवत्सले । गायत्र्यां प्रजपेद्यस्तु नाम्नां अष्टोत्तरं शतम् ॥ 20 ॥ फलश्रुतिः – तस्य पुण्य फलं वक्तुं ब्रह्मणाऽपि नशक्यते । प्रातः काले च मध्याह्ने सायं वा द्विजोत्तम ॥ 21 ॥ ये पठन्तीह लोकेस्मिन् सर्वान्कामानवाप्नुयात् । पठनादेव गायत्री नाम्नां अष्टोत्तरं शतम् ॥ 22 ॥ ब्रह्म हत्यादि पापेभ्यो मुच्यते नाऽत्र संशयः । दिने दिने पठेद्यस्तु गायत्री स्तवमुत्तमम् ॥ 23 ॥ स नरो मोक्षमाप्नोति पुनरावृत्ति विवर्जितम् । पुत्रप्रदमपुत्राणाम् दरिद्राणां धनप्रदम् ॥ 24॥ रोगीणां रोगशमनं सर्वैश्वर्यप्रदायकम् । बहुनात्र किमुक्तेन स्तोत्रं शीघ्रफलप्रदम् ॥ 25 ॥ नामावलिः ओं तरुणादित्यसङ्काशायै नमः । ओं सहस्रनयनोज्ज्वलायै नमः । ओं विचित्रमाल्याभरणायै नमः । ओं तुहिनाचलवासिन्यै नमः । ओं वरदाभयहस्ताब्जायै नमः । ओं रेवातीरनिवासिन्यै नमः । ओं प्रणित्यय विशेषज्ञायै नमः । ओं यन्त्राकृतविराजितायै नमः । ओं भद्रपादप्रियायै नमः । ओं गोविन्दपदगामिन्यै नमः । (10) ओं देवर्षिगणसन्तुष्टायै नमः । ओं वनमालाविभूषितायै नमः । ओं स्यन्दनोत्तमसंस्थानायै नमः । ओं धीरजीमूतनिस्वनायै नमः । ओं मत्तमातङ्गगमनायै नमः । ओं हिरण्यकमलासनायै नमः । ओं धीजनाधारनिरतायै नमः । ओं योगिन्यै नमः । ओं योगधारिण्यै नमः । ओं नटनाट्यैकनिरतायै नमः । (20) ओं प्रणवाद्यक्षरात्मिकायै नमः । ओं चोरचारक्रियासक्तायै नमः । ओं दारिद्र्यच्छेदकारिण्यै नमः । ओं यादवेन्द्रकुलोद्भूतायै नमः । ओं तुरीयपथगामिन्यै नमः । ओं गायत्र्यै नमः । ओं गोमत्यै नमः । ओं गङ्गायै नमः । ओं गौतम्यै नमः । ओं गरुडासनायै नमः । (30) ओं गेयगानप्रियायै नमः । ओं गौर्यै नमः । ओं गोविन्दपदपूजितायै नमः । ओं गन्धर्वनगराकारायै नमः । ओं गौरवर्णायै नमः । ओं गणेश्वर्यै नमः । ओं गुणाश्रयायै नमः । ओं गुणवत्यै नमः । ओं गह्वर्यै नमः । ओं गणपूजितायै नमः । (40) ओं गुणत्रयसमायुक्तायै नमः । ओं गुणत्रयविवर्जितायै नमः । ओं गुहावासायै नमः । ओं गुणाधारायै नमः । ओं गुह्यायै नमः । ओं गन्धर्वरूपिण्यै नमः । ओं गार्ग्यप्रियायै नमः । ओं गुरुपदायै नमः । ओं गुह्यलिङ्गाङ्गधारिण्यै नमः । ओं सावित्र्यै नमः । (50) ओं सूर्यतनयायै नमः । ओं सुषुम्नानाडिभेदिन्यै नमः । ओं सुप्रकाशायै नमः । ओं सुखासीनायै नमः । ओं सुमत्यै नमः । ओं सुरपूजितायै नमः । ओं सुषुप्त्यवस्थायै नमः । ओं सुदत्यै नमः । ओं सुन्दर्यै नमः । ओं सागराम्बरायै नमः । (60) ओं सुधाम्शुबिम्बवदनायै नमः । ओं सुस्तन्यै नमः । ओं सुविलोचनायै नमः । ओं सीतायै नमः । ओं सर्वाश्रयायै नमः । ओं सन्ध्यायै नमः । ओं सुफलायै नमः । ओं सुखदायिन्यै नमः । ओं सुभ्रुवे नमः । ओं सुवासायै नमः । (70) ओं सुश्रोण्यै नमः । ओं संसारार्णवतारिण्यै नमः । ओं सामगानप्रियायै नमः । ओं साध्व्यै नमः । ओं सर्वाभरणभूषितायै नमः । ओं वैष्णव्यै नमः । ओं विमलाकारायै नमः । ओं महेन्द्र्यै नमः । ओं मन्त्ररूपिण्यै नमः । ओं महालक्ष्म्यै नमः । (80) ओं महासिद्ध्यै नमः । ओं महामायायै नमः । ओं महेश्वर्यै नमः । ओं मोहिन्यै नमः । ओं मदनाकारायै नमः । ओं मधुसूदनचोदितायै नमः । ओं मीनाक्ष्यै नमः । ओं मधुरावासायै नमः । ओं नागेन्द्रतनयायै नमः । ओं उमायै नमः । (90) ओं त्रिविक्रमपदाक्रान्तायै नमः । ओं त्रिस्वरायै नमः । ओं त्रिविलोचनायै नमः । ओं सूर्यमण्डलमध्यस्थायै नमः । ओं चन्द्रमण्डलसंस्थितायै नमः । ओं वह्निमण्डलमध्यस्थायै नमः । ओं वायुमण्डलसंस्थितायै नमः । ओं व्योममण्डलमध्यस्थायै नमः । ओं चक्रिण्यै नमः । ओं चक्ररूपिण्यै नमः । (100) ओं कालचक्रवितानस्थायै नमः । ओं चन्द्रमण्डलदर्पणायै नमः । ओं ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः । ओं महामारुतवीजितायै नमः । ओं सर्वमन्त्राश्रयायै नमः । ओं धेनवे नमः । ओं पापघ्न्यै नमः । ओं परमेश्वर्यै नमः । (108)Click to show/hide
॥ श्री गायत्री सहस्रनाम स्तोत्रम् ॥
Click to show/hide
नारद उवाच –
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ 1 ॥
सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ 2 ॥
ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ 3 ॥
वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः ।
श्रीनारायण उवाच –
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ ॥ 4॥
शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् ।
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ 5 ॥
सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते ।
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ 6 ॥
छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता ।
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ 7 ॥
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः ।
अथ ध्यानम् प्रवक्ष्यामि साधकानां हिताय वै ॥ 8 ॥
ध्यानम् –
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनीत्रोज्ज्वलां
रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ 9 ॥
ओं अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी ।
अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ 10 ॥
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता ।
अजराजापराधर्मा अक्षसूत्रधराधरा ॥ 11 ॥
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी ।
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ 12 ॥
अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा ।
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ 13 ॥
अजा चाजमुखावासाप्यरविन्दनिभानना ।
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ 14॥
असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता ।
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ 15 ॥
आदित्यपदवीचाराप्यादित्यपरिसेविता ।
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ 16 ॥
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता ।
आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ 17 ॥
आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी ।
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ 18 ॥
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा ।
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ 19 ॥
इक्षुकोदण्डसम्युक्ता चेषुसन्धानकारिणी ।
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी ॥ 20 ॥
इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता ।
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ 21 ॥
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा ।
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ 22 ॥
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी ।
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता ॥ 23 ॥
ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी ।
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋजुप्रदा ॥ 24॥
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी ।
लूतारिवरसम्भूता लूतादिविषहारिणी ॥ 25 ॥
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता ।
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ 26 ॥
ओङ्कारा ह्योषधी चोता चोतप्रोतनिवासिनी ।
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ 27 ॥
अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी ।
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ 28 ॥
कमला कामिनी कान्ता कामदा कालकण्ठिनी ।
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ 29 ॥
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी ।
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ 30 ॥
कालजिह्वा करालास्या कालिका कालरूपिणी ।
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ 31 ॥
कौशिकी कमलाकारा कामचारप्रभञ्जिनी ।
कौमारी करुणापाङ्गी ककुवन्ता करिप्रिया ॥ 32 ॥
केसरी केशवनुता कदम्बकुसुमप्रिया ।
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ 33 ॥
काममाता क्रतुमती कामरूपा कृपावती ।
कुमारी कुण्डनिलया किराती कीरवाहना ॥ 34॥
कैकेयी कोकिलालापा केतकी कुसुमप्रिया ।
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ 35 ॥
कलहंसगतिः कक्षा कृतकौतुकमङ्गला ।
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ 36 ॥
कर्पूरलेपना कृष्णा कपिला कुहराश्रया ।
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ 37 ॥
खड्गखेटधरा खर्वा खेचरी खगवाहना ।
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ 38 ॥
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी ।
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ 39 ॥
गायत्री गोमती गीता गान्धारी गानलोलुपा ।
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ 40 ॥
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता ।
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ 41 ॥
गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ 42 ॥
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा ।
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ 43 ॥
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी ।
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ 44॥
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी ।
घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ 45 ॥
घनारिमण्डला घूर्णा घृताची घनवेगिनी ।
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ 46 ॥
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता ।
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ 47 ॥
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला ।
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ 48 ॥
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका ।
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ 49 ॥
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता ।
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ 50 ॥
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका ।
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ 51 ॥
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी ।
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ 52 ॥
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी ।
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ 53 ॥
छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी ।
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ 54॥
छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया ।
जननी जन्मरहिता जातवेदा जगन्मयी ॥ 55 ॥
जाह्नवी जटिला जेत्री जरामरणवर्जिता ।
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ 56 ॥
जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया ।
जातरूपमयी जिह्वा जानकी जगती जरा ॥ 57 ॥
जनित्री जह्नुतनया जगत्त्रयहितैषिणी ।
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ 58 ॥
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता ।
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ 59 ॥
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला ।
झिञ्झिका झणनिर्घोषा झञ्झामारुतवेगिनी ॥ 60 ॥
झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता ।
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ 61 ॥
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा ।
टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ 62 ॥
डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता ।
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ 63 ॥
डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा ।
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ 64॥
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी ।
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः ॥ 65 ॥
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी ।
तरुणादित्यसङ्काशा तामसी तुहिना तुरा ॥ 66 ॥
त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना ।
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ 67 ॥
तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी ।
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ 68 ॥
त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी ।
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ 69 ॥
तन्तुजालसमायुक्ता तारहारावलिप्रिया ।
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ 70 ॥
तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता ।
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी ॥ 71 ॥
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः ।
तप्तकाञ्चनसङ्काशा तप्तकाञ्चनभूषणा ॥ 72 ॥
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी ।
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ 73 ॥
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः ।
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ 74॥
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी ।
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ 75 ॥
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा ।
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ 76 ॥
दण्डकारण्यनिलया दण्डिनी देवपूजिता ।
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ 77 ॥
दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी ।
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ 78 ॥
धुरन्धरा धराधारा धनदा धान्यदोहिनी ।
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ 79 ॥
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा ।
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ 80 ॥
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका ।
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ 81 ॥
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः ।
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ 82 ॥
नादबिन्दुकलातीता नादबिन्दुकलात्मिका ।
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ 83 ॥
नरकक्लेशशमनी नारायणपदोद्भवा ।
निरवद्या निराकारा नारदप्रियकारिणी ॥ 84॥
नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका ।
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ 85 ॥
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी ।
नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥ 86 ॥
निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी ।
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ 87 ॥
नवजाम्बूनदप्रख्या नागलोकाधिदेवता ।
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ 88 ॥
निमग्नारक्तनयना निर्घातसमनिस्वना ।
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ 89 ॥
पार्वती परमोदारा परब्रह्मात्मिका परा ।
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ 90 ॥
परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी ।
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ 91 ॥
पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ 92 ॥
पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ 93 ॥
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा ।
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ 94॥
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ 95 ॥
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ 96 ॥
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ 97 ॥
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ 98 ॥
पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ 99 ॥
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ 100 ॥
परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ 101 ॥
पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ 102 ॥
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ 103 ॥
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ 104॥
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
प्राणप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ 105 ॥
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ 106 ॥
पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ 107 ॥
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ 108 ॥
बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या बडवा बुद्धिसंस्तुता ॥ 109 ॥
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ 110 ॥
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता बृन्दा बृन्दावनविहारिणी ॥ 111 ॥
बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ 112 ॥
बहुबाहुयुता बीजरूपिणी बहुरूपिणी ।
बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ 113 ॥
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ 114॥
बृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ 115 ॥
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती बडबानलवेगिनी ॥ 116 ॥
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ 117 ॥
भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ 118 ॥
भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ 119 ॥
भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ 120 ॥
भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ 121 ॥
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ 122 ॥
महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ 123 ॥
मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ 124॥
मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ 125 ॥
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ 126 ॥
मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ 127 ॥
महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ 128 ॥
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ 129 ॥
योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ 130 ॥
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ 131 ॥
यकारादिहकारान्ता याजुषी यज्ञरूपिणी ।
यामिनी योगनिरता यातुधानभयङ्करी ॥ 132 ॥
रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ 133 ॥
रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता ॥ 134॥
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ 135 ॥
रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ 136 ॥
रोगेशी रोगशमनी राविणी रोमहर्षिणी ।
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ 137 ॥
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ 138 ॥
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ 139 ॥
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ 140 ॥
विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ 141 ॥
वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ 142 ॥
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ 143 ॥
वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ 144॥
शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ 145 ॥
शोभावती शिवाकारा शङ्करार्धशरीरिणी ।
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ 146 ॥
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ 147 ॥
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ 148 ॥
षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरूपसुमती सुरासुरनमस्कृता ॥ 149 ॥
सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ 150 ॥
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ 151 ॥
सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ 152 ॥
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा ।
सरधा सूर्यतनया सुकेशी सोमसंहतिः ॥ 153 ॥
हिरण्यवर्णा हरिणी ह्रीङ्कारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ 154॥
गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ 155 ॥
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ 156 ॥
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ 157 ॥
जपं कृत्वा होम पूजा ध्यानम् कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ 158 ॥
सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ 159 ॥
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति ॥ 160 ॥
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् ।
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ 161 ॥
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ 162 ॥
ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ 163 ॥
असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाषतः ।
पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ 164॥
इदं रहस्यममलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ 165 ॥
॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे श्रीगायत्री सहस्रनाम स्तोत्रं संपूर्णम् ॥
॥ श्री गायत्री कवच स्तोत्रम् ॥
Click to show/hide
अस्य श्रीगायत्रीकवचस्तोत्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्री गायत्रीदेवी देवता ।
भूः बीजम् । भुवः शक्तिः । स्वः कीलकं ।
श्री गायत्रीदेवी प्रीत्यर्थे जपे विनियोगः ।
ध्यानम् –
पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् ।
सावित्रीं ब्रह्मवरदां चन्द्रकोटिसुशीतलाम् ॥ 1 ॥
त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् ।
वराभयाङ्कुशकशाहेमपात्राक्षमालिकाम् ॥ 2 ॥
शङ्खचक्राब्जयुगलं कराभ्यां दधतीं वराम् ।
सितपङ्कजसंस्थां च हंसारूढां सुखस्मिताम् ॥ 3 ॥
ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥ 4॥
ब्रह्मोवाच –
ओं विश्वामित्र महाप्राज्ञ गायत्रीकवचं शृणु ।
यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् ॥ 5 ॥
सावित्री मे शिरः पातु शिखायां अमृतेश्वरी ।
ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥ 6 ॥
कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिका ।
गायत्री वदनं पातु शारदा दशनच्छदौ ॥ 7 ॥
द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।
साङ्ख्यायनी नासिकां मे कपोलौ चन्द्रहासिनी ॥ 8 ॥
चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।
स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥ 9 ॥
उदरं विश्वभोक्त्री च नाभौ पातु सुरप्रिया ।
जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥ 10 ॥
पार्श्वौ मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु ।
ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकाऽवतु ॥ 11 ॥
जङ्घयोः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।
सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥ 12 ॥
सर्वाङ्गं वेदजननी पातु मे सर्वदाऽनघा ।
इत्येतत्कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् ॥ 13 ॥
पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ।
त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानववाप्नुयात् ॥ 14 ॥
सर्वशास्त्रार्थतत्त्वज्ञः स भवेद्वेदवित्तमः ।
सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात् ।
प्राप्नोति जपमात्रेण पुरुषार्थांश्चतुर्विधान् ॥ 15 ॥
॥ इति श्रीविश्वामित्र संहितायां श्री गायत्री कवच स्तोत्रं संपूर्णम् ॥
॥ श्री गायत्री स्तोत्रम् ॥
नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरेऽमरे माता त्राहि मां भवसागरात् ॥ 1 ॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ते ॥ 2 ॥ अनन्तकोटिब्रह्माण्डव्यापिनी ब्रह्मचारिणी । नित्यानन्दे महामाये परेशानी नमोऽस्तु ते ॥ 3 ॥ त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता । मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ॥ 4 ॥ पूषाऽर्यमा मरुत्वांश्च ऋषयोपि मुनीश्वराः । पितरो नागयक्षांश्च गन्धर्वाऽप्सरसां गणाः ॥ 5 ॥ रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरी । ऋग्यजुस्सामविद्याश्च ह्यथर्वाङ्गिरसानि च ॥ 6 ॥ त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः । पुराणानि च तन्त्राणि महागममतानि च ॥ 7 ॥ त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरी । ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरी ॥ 8 ॥ तत्सद्ब्रह्मस्वरूपा त्वं किञ्चित्सदसदात्मिका । परात्परेशी गायत्री नमस्ते मातरम्बिके ॥ 9 ॥ चन्द्रकलात्मिके नित्ये कालरात्रि स्वधे स्वरे । स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरी ॥ 10 ॥ नमो नमस्ते गायत्री सावित्री त्वं नमाम्यहम् । सरस्वती नमस्तुभ्यं तुरीये ब्रह्मरूपिणी ॥ 11 ॥ अपराध सहस्राणि त्वसत्कर्मशतानि च । मत्तो जातानि देवेशी त्वं क्षमस्व दिने दिने ॥ 12 ॥Click to show/hide