shrI garuDa aShTottarashatanAma stotraM

॥ श्री महागरुड अष्टोत्तरशतनाम स्तोत्रम् ॥ (नामावलिश्च)

 

श्री देव्युवाच –

 

देवदेव महादेव सर्वज्ञ करुणानिधे ।

श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नाम् अष्ठोत्तरं शतम् ॥

 

ईश्वर उवाच –

 

श्रुणु देवी प्रवक्ष्यामि गरुडस्य महात्मनः ।

नाम्ना अष्ठोत्तरं शतं पवित्रं पापनाशनम् ॥

 

अस्य श्री गरुड अष्टोत्तरशतनाम महामन्त्रस्य ब्रह्मा ऋषिः ।

अनुष्टुप् छन्दः । श्री गरुडो देवता ।

ॐ बीजं । विद्या शक्तिः । वेदादि कीलकं ।

मम श्रीपक्षिराज प्रसाद सिद्ध्यर्थे अष्टोत्तरशतनामजपे विनियोगः ।

 

ध्यानम्

 

अमृत कलश हस्तं कान्ति सम्पूर्ण देहं

सकलविबुध वन्द्यं वेदशास्त्रैरचिन्त्यम् ।

विबुधसुलभपक्षर्धूयमानाऽडकोलं

सकल विश विनाशम् चिन्तयेत् पक्षिराजम् ॥

 

ओं वैनतेयः खगपतिः काश्यपोऽग्निर्महाबलः ।

तप्तकाञ्चनवर्णाभः सुपर्णो हरिवाहनः ॥ 1 ॥

 

छन्दोमयो महातेजा महोत्साहो महाबलाः ।

ब्रह्मण्यो विष्ण्नुभक्तश्च कुन्देन्दुधवलाननः ॥ 2 ॥

 

चक्रपाणिधरः श्रीमान्नागारिर्नागभूषणः ।

विज्ञानदो विशेषज्ञो विद्यानिधिरनामयः ॥ 3 ॥

 

भूतिदो भुवनत्राता भूशयो भक्तवत्सलः ।

सप्तछन्दोमयः पक्षी सुरासुरसुपूजितः ॥ 4 ॥

 

गजभृक् कच्छपाशी च दैत्यहन्ताऽरुणानुजः ।

अमृतांशोऽमृतवपुरानन्दनिधिरव्ययः ॥ 5 ॥

 

निगमात्मा निराहारो निस्त्रैगुण्यो निरप्ययः ।

निर्विकल्पः परं ज्योतिः परात्परतरः परः ॥ 6 ॥

 

शुभाङ्ग शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः ।

विषाशी विदितात्मा च विदितो जयवर्धनः ॥ 7 ॥

 

दार्ढ्याङ्गो जगदीशश्च जनार्दनमहाध्वजः ।

सतां सन्तापविच्छेत्ता जरामरण वर्जितः ॥ 8 ॥

 

कल्याणदः कलातीतः कलाधरसमप्रभः ।

सोमपः सुरसङ्घेशो यज्ञाङ्गो यज्ञभूषणः ॥ 9 ॥

 

महाजवो जितामित्रो मन्मथप्रियबान्धवः ।

शङ्खभृच्चक्रधारी च बालो बहुपराक्रमः ॥ 10 ॥

 

सुधाकुम्भ्बधरो धीमान् दुराधर्षो दुरारिहा ।

वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥ 11 ॥

 

विनतानन्दनः श्रोदो विजितारतिसङ्कुलः ।

पतद्वरिष्ठ सर्वेशः पापहा पापनाशनः ॥ 12 ॥

 

अग्निजित् जयघोषश्च जगदाह्लादकारकः ।

वज्रनाशः सुवक्त्रश्च मारिघ्नो मदभञ्जनः ॥ 13 ॥

 

कालज्ञ कमलेष्टश्च कलिदोषनिवारणः ।

विदुयन्निभो विशालाङ्गो विनतादास्यमोचनः ॥ 14 ॥

 

स्तोमात्मा च त्रयीमूर्धा भूमा गायत्रलोचनः ।

सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ॥ 15 ॥

 

इतीदं परं गुह्यं गरुडस्य महात्मनः ।

नाम्नां अष्टोत्तरशतं पवित्रं पापनाशनम् ॥

स्तूयमानं महादिव्यं विष्णुना समुदीरितम् ॥ 16 ॥

 

॥ इति श्रीब्रह्माण्डपुराणान्तर्गतं श्री गरुडाष्टोत्तरशतनाम स्तोत्रं संपूर्णम् ॥

 

नामावलिः

 

ओं वैनतेयाय नमः ।

ओं खगपतये नमः ।

ओं काश्यपाय नमः ।

ओं अग्नये नमः ।

ओं महाबलाय नमः ।

ओं तप्तकाञ्चनवर्णाभाय नमः ।

ओं सुपर्णाय नमः ।

ओं हरिवाहनाय नमः ।

ओं छन्दोमयाय नमः ।

ओं महातेजसे नमः । (10)

ओं महोत्साहाय नमः ।

ओं महाबलाय नमः ।

ओं ब्रह्मण्याय नमः ।

ओं विष्णुभक्ताय नमः ।

ओं कुन्देन्दुधवलाननाय नमः ।

ओं चक्रपाणिधराय नमः ।

ओं श्रीमते नमः ।

ओं नागारये नमः ।

ओं नागभूषणाय नमः ।

ओं विज्ञानदाय नमः । (20)

ओं विशेषज्ञाय नमः ।

ओं विद्यानिधये नमः ।

ओं अनामयाय नमः ।

ओं भूतिदाय नमः ।

ओं भुवनत्रात्रे नमः ।

ओं भूशयाय नमः ।

ओं भक्तवत्सलाय नमः ।

ओं सप्तछन्दोमयाय नमः ।

ओं पक्षिणे नमः ।

ओं सुरासुरसुपूजिताय नमः । (30)

ओं गजभुजे नमः ।

ओं कच्छपाशिने नमः ।

ओं दैत्यहन्त्रे नमः ।

ओं अरुणानुजाय नमः ।

ओं अमृतांशाय नमः ।

ओं अमृतवपुषे नमः ।

ओं आनन्दनिधये नमः ।

ओं अव्ययाय नमः ।

ओं निगमात्मने नमः ।

ओं निराहाराय नमः । (40)

ओं निस्त्रैगुपयाय नमः ।

ओं निरप्ययाय नमः ।

ओं निर्विकल्पाय नमः ।

ओं परस्मैज्योतिषे नमः ।

ओं परात्परतराय नमः ।

ओं परस्मै नमः ।

ओं शुभाङ्गाय नमः ।

ओं शुभदाय नमः ।

ओं शूराय नमः ।

ओं सूक्ष्मरूपिणे नमः । (50)

ओं बृहत्तनवे नमः ।

ओं विषाशिने नमः ।

ओं विदितात्मने नमः ।

ओं विदिताय नमः ।

ओं जयवर्धनाय नमः ।

ओं दार्ढ्याङ्गाय नमः ।

ओं जगदीशाय नमः ।

ओं जनार्दनमहाध्वजाय नमः ।

ओं सतां सन्तापविच्छेत्रे नमः ।

ओं जरामरणवर्जिताय नमः । (60)

ओं कल्याणदाय नमः ।

ओं कलातीताय नमः ।

ओं कलाधरसमप्रभाय नमः ।

ओं सोमपाय नमः ।

ओं सुरसङ्घेशाय नमः ।

ओं यज्ञाङ्गाय नमः ।

ओं यज्ञभूषणाय नमः ।

ओं महाजवाय नमः ।

ओं जितामित्राय नमः ।

ओं मन्मथप्रियबान्धवाय नमः । (70)

ओं शङ्खभृते नमः ।

ओं चक्रधारिणे नमः ।

ओं बालाय नमः ।

ओं बहुपराक्रमाय नमः ।

ओं सुधाकुम्भधराय नमः ।

ओं धीमते नमः ।

ओं दुराधर्षाय नमः ।

ओं दुरारिघ्ने नमः ।

ओं वज्राङ्गाय नमः ।

ओं वरदाय नमः । (80)

ओं वन्द्याय नमः ।

ओं वायुवेगाय नमः ।

ओं वरप्रदाय नमः ।

ओं विनतानन्दनाय नमः ।

ओं श्रीदाय नमः ।

ओं विजितारातिसङ्कुलाय नमः ।

ओं पतद्वरिष्ठाय नमः ।

ओं सर्वेशाय नमः ।

ओं पापघ्ने नमः ।

ओं पापनाशनाय नमः । (90)

ओं अग्रिजिते नमः ।

ओं जयघोषाय नमः ।

ओं जगदाह्लादकारकाय नमः ।

ओं वज्रनासाय नमः ।

ओं सुवक्त्राय नमः ।

ओं मारिघ्नाय नमः ।

ओं मदभञ्जनाय नमः ।

ओं कालज्ञाय नमः ।

ओं कमलेष्टाय नमः ।

ओं कलिदोषनिवारणाय नमः । (100)

ओं विद्युन्निभाय नमः ।

ओं विशालाङ्गाय नमः ।

ओं विनतादास्यमोचनाय नमः ।

ओं स्तोमात्मने नमः ।

ओं त्रयीमूर्ध्ने नमः ।

ओं भूम्ने नमः ।

ओं गायत्रलोचनाय नमः ।

ओं सामगानरताय नमः ।

ओं स्रग्विणे नमः ।

ओं स्वच्छन्दगतये नमः ।

ओं अग्रण्ये नमः । (111)

Leave a Reply

Your email address will not be published. Required fields are marked *