shrI mahAgaruDa AvaraNa pUjA kramaH

॥ श्री महागरुड आवरण पूजा क्रमः ॥

 

मन्त्र न्यासः

 

सृष्टि न्यासं

 

क्षिं नमः – मूर्ध्नि ।

पं नमः – मुखे ।

ओं नमः – हृदये ।

स्वां नमः – नाभौ ।

हां नमः – पादयोः ।

 

स्थिति न्यासः

 

क्षिं नमः – नाभौ ।

पं नमः – पादयोः ।

ओं नमः – शिरसि ।

स्वां नमः – वक्त्रे ।

हां नमः – हृदये ।

 

संहार न्यासः

 

क्षिं नमः – पादयोः ।

पं नमः – नाभौ ।

ओं नमः – हृदये ।

स्वां नमः – वक्त्रे ।

हां नमः – मूर्ध्नि ।

 

पीठ पूजा

 

गुं गुरुभ्योः नमः ।

गं गणपतये नमः ।

आधारशक्तये नमः ।

मूलप्रकृत्यै नमः ।

आदिकूर्माय नमः ।

अनन्ताय नमः ।

पृथिव्यै नमः ।

श्वेतद्वीपाय नमः ।

रत्नमण्डपाय नमः ।

कल्पवृक्षाय नमः ।

श्वेतछत्राय नमः ।

सितचामराभ्यां नमः ।

रत्नसिंहासनाय नमः ।

धर्माय नमः ।

ज्ञानाय नमः ।

वैराग्याय नमः ।

ऐश्वर्याय नमः ।

अधर्माय नमः ।

अज्ञानाय नमः ।

अवैराग्याय नमः ।

अनैश्वर्याय नमः ।

सं सत्वाय नमः ।

रं रजसे नमः ।

तं तमसे नमः ।

मं मायायै नमः ।

विं विप्रायै नमः ।

अं अनन्ताय नमः ।

पं पद्माय नमः ।

अं सूर्यमण्डलाय नमः ।

उं सोममण्डलाय नमः ।

मं वह्निमन्डलाय नमः ।

आं आत्मने नमः ।

अं अन्तरात्मने नमः ।

पं परमात्मने नमः ।

ओं ह्रीं ज्ञानात्मने नमः ।

विं विमलायै नमः ।

उं उत्कर्षिण्यै नमः ।

ज्ञं ज्ञानायै नमः ।

क्रिं क्रियायै नमः ।

यों योगायै नमः ।

प्रं प्रह्व्यै नमः ।

सं सत्यायै नमः ।

ईं ईशानायै नमः ।

अं अनुग्रहायै नमः ।

 

ओं नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्म संयोग योगपीठात्मने नमः ॥

 

महागरुड आवाहनम्

 

अमृत कलश हस्तं कान्ति सम्पूर्ण देहं

सकलविबुध वन्द्यं वेदशास्त्रैरचिन्त्यम् ।

विबुधसुलभपक्षर्धूयमानाऽडकोलं

सकल विश विनाशम् चिन्तयेत् पक्षिराजम् ॥

 

क्षिप ओं स्वाहा । श्री महागरुडं ध्यायामि आवाहयामि नमः । आवाहन मुद्रां प्रदर्शय ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः स्थापितो भव । स्थापण मुद्रां प्रदर्शय ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः संस्थितो भव । संस्थित मुद्रां प्रदर्शय ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः सन्निरुधो भव । सन्निरुध मुद्रां प्रदर्शय ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः सम्मुखी भव । सम्मुखी मुद्रां प्रदर्शय ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः अवकुण्ठितो भव । अवकुण्ठन मुद्रां प्रदर्शय ।

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि नमः । वन्दन धेनु योनि मुद्रांश्च प्रदर्शय ॥

 

ओं जय जय जगन्नाथ यावत् पूजावसानकम् ।

तावत् त्वं प्रीति भावेन चक्रेस्मिन् सन्निधिं कुरु ॥

 

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  आसनं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  पादयोः पाद्यं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  हस्तयोः अर्घ्यं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  मुखे आचमनीयं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  शुद्धोदक स्नानं कल्पयामि नमः । स्नानानन्तरं आचमनीयं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  वस्त्राणि कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  आभरणानि कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  दिव्यपरिमळ गन्धं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  गन्धस्योऽपरि हरिद्राकुङ्कुमं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  पुष्पाक्षतान् कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  धूपं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  दीपं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  नैवेद्यं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  अमृतपानीयं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  सुगन्ध ताम्बूलं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  कर्पूर नीराञ्जनं कल्पयामि नमः ।

क्षिप ओं स्वाहा । श्री महागरुडाय नमः ।  प्रदक्षिण नमस्कारान् कल्पयामि नमः ।

 

ओं संविन्मये परे देव परामृत रुचिप्रिय ।

अनुज्ञां गरुडं देहि परिवारार्चनाय मे ॥

 

षडङ्ग तर्पणम्

 

ज्वल ज्वल महामहे हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गरुडचूडामणे शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गरुड शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गरुड प्रभञ्जन प्रभञ्जन प्रभेदन प्रभेदन मर्दन मर्दन कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

उग्ररूपधारक सर्वसर्पभयङ्कर भीषय भीषय सर्पान् दह दह भस्मीकुरु भस्मीकुरु नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

अप्रतिहतशासन हुं अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

लयाङ्ग तर्पणम्

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (10 वारं)

 

प्रथमावरणम्

 

ज्वल ज्वल महामहे हृदयाय नमः । हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गरुडचूडामणे शिरसे स्वाहा । शिरोशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गरुड शिखायै वषट् । शिखाशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

गरुड प्रभञ्जन प्रभञ्जन प्रभेदन प्रभेदन मर्दन मर्दन कवचाय हुं । कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

उग्ररूपधारक सर्वसर्पभयङ्कर भीषय भीषय सर्पान् दह दह भस्मीकुरु भस्मीकुरु नेत्रत्रयाय वौषट् । नेत्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

अप्रतिहतशासन हुं अस्त्राय फट् । अस्त्रशक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः प्रथमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

 

अनेन प्रथमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री महागरुड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

द्वितीयावरणम्

 

ओं सुं सुपर्णाय नमः । सुपर्ण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं गं गरुडाय नमः । गरुड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वैं वैनतेयाय नमः । वैनतेय श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं तां तार्क्ष्याय नमः । तार्क्ष्य श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं लं लक्ष्म्यै नमः । लक्ष्मी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं कीं कीर्त्यै नमः । कीर्ती श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं जं जयायै नमः । जया श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं मां मायायै नमः । माया श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः द्वितीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

 

अनेन द्वितीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री महागरुड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तृतीयावरणम्

 

ओं अं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वां वासुकिने नमः । वासुकी श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं तं तक्षकाय नमः । तक्षक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं कां कार्कोटकाय नमः । कार्कोटक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं मं महापद्माय नमः । महापद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं शं शङ्खपालाय नमः । शङ्खपाल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं कुं कुलिकाय नमः । कुलिक श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तृतीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

 

अनेन तृतीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री महागरुड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

तुरीयावरणम्

 

ओं कुं कुमुदाय नमः । कुमुद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं कुं कुमुदाक्षाय नमः । कुमुदाक्ष श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पुं पुण्डारीकाक्षाय नमः । पुण्डारीकाक्ष श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वां वामदेवाय नमः । वामदेव श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सं सनकाय नमः । सनक श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सं सनत्कुमाराय नमः । सनत्कुमार श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं शं शङ्खुकर्णाय नमः । शङ्खुकुर्ण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सं सर्वनेत्राय नमः । सर्वनेत्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सुं सुमुखाय नमः । सुमुख श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सुं सुप्रतिष्ठाय नमः । सुप्रतिष्ठ श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः तुरीयावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं तुरीयावरणार्चनम् ॥

 

अनेन तुरीयावरणार्चनेन भगवान् सर्वदेवात्मकः श्री महागरुड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चमावरणम्

 

ओं लां इन्द्राय नमः । इन्द्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं रां अग्नये नमः । अग्नि श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं टं यमाय नमः । यम श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं क्षं नि‌र्ऋतये नमः । निर्ऋति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं वां वरुणाय नमः । वरुण श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं यां वायवे नमः । वायु श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं सां कुबेराय नमः । कुबेर श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं हौं ईशानाय नमः । ईशान श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं आं ब्रह्मणे नमः । ब्रह्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं ह्रीं अनन्ताय नमः । अनन्त श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः पञ्चमावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

 

अनेन पञ्चमावरणार्चनेन भगवान् सर्वदेवात्मकः श्री महागरुड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

षष्ठावरणम्

 

ओं वं वज्राय नमः । वज्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं शं शक्तये नमः । शक्ति श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं दं दण्डाय नमः । दण्ड श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं खं खड्गाय नमः । खड्ग श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पं पाशाय नमः । पाश श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं ध्वं ध्वजाय नमः । ध्वज श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं गं गदायै नमः । गद श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं त्रिं त्रिशूलाय नमः । त्रिशूल श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं पं पद्माय नमः । पद्म श्रीपादुकां पूजयामि तर्पयामि नमः ।

ओं चं चक्राय नमः । चक्र श्रीपादुकां पूजयामि तर्पयामि नमः ।

 

ओं एताः षष्ठावरण देवताः साङ्गाः सायुधाः सशक्तिकाः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तर्पिताः सन्तुष्टाः सन्तु नमः ।

 

क्षिप ओं स्वाहा । श्री महागरुड श्रीपादुकां पूजयामि तर्पयामि नमः । (3 वारं)

 

ओं अभीष्टसिद्धिं मे देहि शरणागत वत्सल ।

भक्त्या समर्पये तुभ्यं षष्ठाख्यावरणार्चनम् ॥

 

अनेन षष्ठावरणार्चनेन भगवान् सर्वदेवात्मकः श्री महागरुड प्रीयताम् । (योनिमुद्रया प्रणमेत्)

 

पञ्चपूजा

 

लं पृथिव्यात्मने गन्धं कल्पायामि ।

हं आकाशात्मने पुष्पाणि कल्पयामि ।

यं वाय्वात्मने धूपं कल्पयामि ।

रं अग्न्यात्मने दीपं कल्पयामि ।

वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।

सं सर्वात्मने ताम्बूलादि समस्तोपचारान् कल्पयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *