This is the last in the series of pancadEvatA stuti. There are two components of vArAhi stOtram – anugrahaM and nigrahaM. They are both aShTakaMs and are chanted during pancadEvatA AvaraNam and also during the vArAhi navarAtri. The first half of the navarAtri is considered anugrahaM and the later half is considered nigrahaM.
This stuti of vArAhi is included in nityOtsavA in the vArAhi kramA.
वाराही स्तोत्रम्
अनुग्रहाष्टकम्
कुवलयनिभा कौशेयार्घोरुका मुकुटोज्ज्वला
हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी।
कपिलनयना मध्ये क्षामा कठोरघनस्तनी
जयति जगतां मातः सा ते वराहमुखी तनुः॥ १॥
तरति विपदो घोरा दूरात्परिह्रियते भय-
स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया।
क्षपयति रिपूनीष्टे वाचां रणे लभते जयं
वशयति जगत्सर्वं वाराहि यस्त्वयि भक्तिमान्॥ २॥
स्तिमित गतयस्सीदद्वाचः परिच्युतहेतयः
क्षुभितहृदयास्सध्यो नश्यद्दृशो गलितौर्जसः।
भयपरवशा भग्नोत्साहाः पराहतपौरुषाः
भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः॥ ३॥
किसलयमृदुर्हस्तः क्लिश्येत कन्दुकलीलया
भगवति महाभारः क्रीडासरोरुहमेव ते।
तदपि मुसलं धत्से हस्ते हलं समयद्रुहां
हरसि च तदाघातैः प्राणानहो तव साहसं॥४॥
जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयोः
मृदु भुज लतामन्दा क्षेपप्रणर्तितचामरे।
सततमुदिते गुह्याचारद्रुहां रुधिरासवै –
रूपशमयतां शत्रून् सर्वानुभे मम दैवते॥५॥
हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां
रुधिरमदिरामत्तः प्राणोपहार बलिप्रियः।
अविरतचटत्कुर्वदृंष्ट्रास्थि कोटिरटन्मुखो
भगवति स ते चण्डोच्चण्डः सदा पुरतः स्थितः॥६॥
क्षुभित मकरैर्वीचीहस्तोपरुद्धपरस्परै-
श्चतुरुदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः।
जननि कथमुत्तिष्ठेत् पाताल सर्प बिलादिला
तव तु कुटिले दंष्ट्राकोटी न चेदवलम्बनम्॥ ७॥
तमसि बहुले शून्याटव्यां पिशाचनिशाचर –
प्रथमकलहे चोरव्याघ्रोरगद्विपसङ्कटे।
क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कृतो भयं
सकृदपि मुखे मातस्त्वन्नाम सन्निहितं यदि॥ ८॥
विदितविभवं हृध्यैः पध्यैर्वराहमुखीस्तवं
सकलफलदं पूर्णं मन्त्राक्षरैरिममेव यः।
पठति स पटुः प्राप्नोत्यायुश्चिरं कवितां प्रियां
सुतसुखधनारोग्यं कीर्तिं श्रियं जयमुर्वराम्॥ ९॥
निग्रहाष्टकम्
देवि क्रोडमुखि त्वदङ्घ्रिकमल द्वन्द्वानुषक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः।
तस्याध्य त्वदयोऽग्रनिष्टुरहलाघातप्रभूतव्यथा –
पर्यस्यन्मनसो भवन्तु वपुष प्राणाः प्रयाणोन्मुखाः॥१॥
देवि त्वत्पदपद्मभक्तिविभव प्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि।
यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः
सध्यः पूरयसे कराब्जचषकं वाञ्चाफलैर्मामपि॥२॥
चण्डोच्चण्डमखण्डदुष्टहृदयप्रोक्षिप्तरक्तच्छटा-
हालापानमदाट्टहासजनिताटोपप्रतापोत्कटम्।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वय –
ध्यानोद्धामरवैर्भवोदयवशात् सन्तर्पयामि क्षणात्॥३॥
वाराहि व्यथमानमानसगलत्संज्ञं त्वदाज्ञाबलात्
सीदद्धैर्यमपाकृताद्ध्यवसितं प्राप्ताखिलार्थाहतिम्।
क्रन्दद्बन्धुजनं कलङ्कितकुलं कण्ठे व्रणोद्ध्यत्कृमि
पश्यामि प्रतिपक्षमाशु सततं शान्तं लुठन्तं पुनः॥४॥
वाराहि त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे
शक्तिव्याप्त चराचरामिह खलु त्वामेतदभ्यर्थये।
त्वत्पादाम्बुजसङ्गिनो मम सकृत् पापं चिकीर्षन्ति ये
तेषां त्वं कुरु शङ्करप्रियतमे देहान्तरावस्थितिम्॥ ५॥
विश्वाधीश्वर वल्लभे विजयसे या त्वं नियत्यात्मिके
भूतानां पुरुषायुषावधिकरी पाकप्रदा कर्मणां।
तां याचे भवतीं किमप्यवितथं योऽस्मद्विरोधी जन –
स्तस्यायुर्मम वाञ्छितावधि भवेन्मातस्तवैवाज्ञया॥६॥
मातस्सम्यगुपासितुं जडमतिस्त्वां नाद्ध्य शक्नोम्यहं
यद्ध्यप्यङ्चित देशिकाङ्घ्नि कमलानुक्रोशपात्रस्य मे।
जन्तुः कङ्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं
भूयाद्धेवि विरोधिनो मम च ते श्रेयः पदा सङ्गिनः॥ ७॥
श्यामं तामर सारूणत्रिनयनां सोमार्धचूडां जग –
त्राणव्यग्रहलामुदग्रमुसलामत्रस्तमुद्रावतीं।
ये त्वां रक्तकपालिनीं शिव वरारोहे वराहाननां
भावे सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः॥८॥



