॥ श्री गणपति गकार सहस्रनाम स्तोत्रम् ॥
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः (शिरसि) ।
अनुष्टुप् छन्दः (मुखे) । श्रीगणपतिर्देवता (हृदये) ।
गं बीजम् । स्वाहा शक्तिः । ग्लौं कीलकम् ।
श्रीमहागणपति प्रसादसिद्ध्यर्थे सहस्रनामजपे विनियोगः (सर्वाङ्गेषु) ॥
करन्यासः
ॐ अङ्गुष्ठाभ्यां नमः ।
श्रीं तर्जनीभ्यां नमः ।
ह्रीं मध्यमाभ्यां नमः ।
क्लीं अनामिकाभ्यां नमः ।
ग्लौं कनिष्ठिकाभ्यां नमः ।
गं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ॐ हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
ह्रीं शिखायै वषट् ।
क्लीं कवचाय हुं ।
ग्लौं नेत्रत्रयाय वौषट् ।
गं अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्बन्धः ।
ध्यानम्
ओङ्कार सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेत् महागणपतिं मतिसिद्धिकान्तम् ॥
वन्दे नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम्
एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।
शुण्डादण्डाढ्य गण्डोद्गलित मदजलोल्लोलमत्तालिजालम्
श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्व्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः ।
गणनाथो गणस्वामी गणेशो गणनायकः ॥ 1 ॥
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥ 2 ॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥ 3 ॥
गणबन्धुर्गणसुहृद् गणाधीशो गणप्रथः ।
गणप्रियसखः शश्वद् गणप्रियसुहृत् तथा ॥ 4 ॥
गणप्रियरतो नित्यं गणप्रीतिविवर्द्धनः ।
गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ 5 ॥
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः ।
गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥ 6 ॥
गणभीतिप्रमथनो गणभीत्यपहारकः ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ 7 ॥
गणसेनो गणचरो गणप्राज्ञो गणैकराट् ।
गणाग्र्यो गणनामा च गणपालनतत्परः ॥ 8 ॥
गणजिद्गणगर्भस्थो गणप्रवणमानसः ।
गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ 9 ॥
गणार्चिताङ्घ्रियुगळो गणरक्षणकृत् सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ 10 ॥
गणागणपरित्राता गणाधिहरणोद्धुरः ।
गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥ 11 ॥
गणहेतुर्गणग्राही गणानुग्रहकारकः ।
गणागणानुग्रहभूर्गणागणवरप्रदः ॥ 12 ॥
गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥ 13 ॥
गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।
गणप्रथितनामा च गणाभीष्टकरः सदा ॥ 14 ॥
गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।
गणपालो गणवरो गणगौरवदायकः ॥ 15 ॥
गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा ।
गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ 16 ॥
गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः ।
गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ 17 ॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः ॥ 18 ॥
गुणागुणवपुर्गौणशरीरो गुणमण्डितः ।
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥ 19 ॥
गुणसृष्टजगत्सङ्घो गुणमुख्यो गुणैकराट् ।
गुणप्रविष्टो गुणभूर्गुणीकृतचराचरः ॥ 20 ॥
गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ 21 ॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ 22 ॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ 23 ॥
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।
गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥ 24 ॥
गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् ।
गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥ 25 ॥
गुणाकरो गुणकरो गुणप्रवणवर्द्धनः ।
गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥ 26 ॥
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।
गुणहारी गुणकलो गुणसङ्घसखः सदा ॥ 27 ॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥ 28 ॥
गुणाधीशो गुणलयो गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणदाता गुणप्रभुः ॥ 29 ॥
गुणकृद्गुणसम्बोधो गुणभृद्गुणबन्धनः ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ 30 ॥
गुणचक्रधरो गौणावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ 31 ॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपो गुणपालकः ॥ 32 ॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ 33 ॥
गुणवद्गीतकीर्तिश्च गुणवद्बद्धसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ 34 ॥
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥ 35 ॥
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्द्धनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ 36 ॥
गुणवत्पोषणकरो गुनवच्छत्रुसूदनः ।
गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥ 37 ॥
गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः ।
गुणवत्कुलविद्वेषिविनाषकरणक्षमः ॥ 38 ॥
गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिस्वनः ।
गजो गजपतिर्गर्जद्गजयुद्धविषारदः ॥ 39 ॥
गजास्यो गजकर्णोऽथ गजराजो गजाननः ।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥ 40 ॥
गजाधीषो गजाधारो गजासुरजयोद्धुरः ।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ 41 ॥
गजमायो गजमयो गजश्रीर्गजगर्जितः ।
गजामयहरो नित्यं गजपुष्टिप्रदायकः ॥ 42 ॥
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः ।
गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ 43 ॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ 44 ॥
गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ 45 ॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः ।
गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥ 46 ॥
गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टपः ।
गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥ 47 ॥
गानश्लाघी गानरसो गानज्ञानपरायणः ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ 48 ॥
गानकृद्गानचतुरो गानविद्याविशारदः ।
गानध्येयो गानगम्यो गानध्यानपरायणः ॥ 49 ॥
गानभूर्गानशीलश्च गानशाली गतश्रमः ।
गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ 50 ॥
गानयत्तो गानमयो गानप्रणयवान् सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ 51 ॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।
गानङ्गज्ञानवान् गानमानवान् गानपेशलः ॥ 52 ॥
गानवत्प्रणयो गानसमुद्रो गानभूषणः ।
गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः ॥ 53 ॥
गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक् ।
गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥ 54 ॥
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा ।
गानमयो गानधरो गानविद्याविशोधकः ॥ 55 ॥
गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः ।
गानाधीशो गानलयो गानाधारो गतीश्वरः ॥ 56 ॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।
गानतानततो गानतानदानविमोहितः ॥ 57 ॥
गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः ।
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥ 58 ॥
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः ।
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥ 59 ॥
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः ।
गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥ 60 ॥
गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।
गुरुगौरवदायी च गुरुभीत्यपहारकः ॥ 61 ॥
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः ।
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ 62 ॥
गुरूरुगुरुपीनांसो गुरुप्रणयलालसः ।
गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा ॥ 63 ॥
गुरुसंशयभेत्ता च गुरुमानप्रदायकः ।
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥ 64 ॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ।
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः ॥ 65 ॥
गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ।
गुरुधर्मधरो गौरधर्माधारो गदापहः ॥ 66 ॥
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ।
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा ॥ 67 ॥
गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रदः ।
गुरुस्त्रीगमनो दोषप्रायश्चित्तनिवारकः ॥ 68 ॥
गुरुसंसारसुखदो गुरुसंसारदुःखभित् ।
गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् ॥ 69 ॥
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ।
गुरुकान्तिर्गुरुमयो गुरुशासनपालकः ॥ 70 ॥
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ।
गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः ॥ 71 ॥
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ।
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ॥ 72 ॥
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ।
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ॥ 73 ॥
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ।
गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः ॥ 74 ॥
गुरुविज्ञानविभवो गौरभानुवरप्रदः ।
गौरभानुस्तुतो गौरभानुत्रासापहारकः ॥ 75 ॥
गौरभानुप्रियो गौरभानुर्गौरववर्द्धनः ।
गौरभानुपरित्राता गौरभानुसखः सदा ॥ 76 ॥
गौरभानुर्प्रभुर्गौरभानुभीतिप्रणाशनः ।
गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः ॥ 77 ॥
गौरीस्तनन्धयो गौरीमनोवाञ्छित-सिद्धिकृत् ।
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ॥ 78 ॥
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ।
गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः ॥ 79 ॥
गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ।
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ॥ 80 ॥
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ।
गौतमाभीष्टवरदो गौतमाभयदायकः ॥ 81 ॥
गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ।
गौतमीतीरसञ्चारी गौतमीतीर्थनायकः ॥ 82 ॥
गौतमापत्परिहारो गौतमाधिविनाशनः ।
गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः ॥ 83 ॥
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ।
गोसहस्रो गोपवरो गोपगोपीसुखावहः ॥ 84 ॥
गोवर्द्धनो गोपगोपो गोमान् गोकुलवर्द्धनः ।
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ॥ 85 ॥
गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ।
गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्द्धनः ॥ 86 ॥
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ।
गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः ॥ 87 ॥
गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ।
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ॥ 88 ॥
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ।
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् ॥ 89 ॥
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ।
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः ॥ 90 ॥
गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ।
गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः ॥ 91 ॥
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ।
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः ॥ 92 ॥
गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ।
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा ॥ 93 ॥
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ।
गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायकः ॥ 94 ॥
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ।
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा ॥ 95 ॥
ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ।
ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ॥ 96 ॥
ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः ।
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ॥ 97 ॥
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ।
ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भशोधकः ॥ 98 ॥
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ।
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ॥ 99 ॥
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ।
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ॥ 100 ॥
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ।
ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ॥ 101 ॥
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ।
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः ॥ 102 ॥
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ।
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः ॥ 103 ॥
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ।
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः ॥ 104 ॥
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः ।
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः ॥ 105 ॥
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ।
गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः ॥ 106 ॥
गीतसंशयसञ्छेत्ता गीतसङ्गीतशाशनः ।
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः ॥ 107 ॥
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः ।
गीतासक्तो गीतलीनो गीताविगतसञ्ज्वरः ॥ 108 ॥
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः ।
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ॥ 109 ॥
गीतागीतविवेकज्ञो गीताप्रवणचेतनः ।
गतभीर्गतविद्वेषो गतसंसारबन्धनः ॥ 110 ॥
गतमायो गतत्रासो गतदुःखो गतज्वरः ।
गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः ॥ 111 ॥
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ।
गताहङ्कारसञ्चारो गतदर्पो गताहितः ॥ 112 ॥
गतविघ्नो गतभयो गतागतनिवारकः ।
गतव्यथो गतापायो गतदोषो गतेः परः ॥ 113 ॥
गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः ।
गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः ॥ 114 ॥
गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ।
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः ॥ 115 ॥
गताभावो गतभवो गततत्त्वार्थसंशयः ।
गयासुरशिरश्छेत्ता गयासुरवरप्रदः ॥ 116 ॥
गयावासो गयानाथो गयावासिनमस्कृतः ।
गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः ॥ 117 ॥
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ।
गयावासिस्तुतो गयान्मधुव्रतलसत्कटः ॥ 118 ॥
गायको गायकवरो गायकेष्टफलप्रदः ।
गायकप्रणयी गाता गायकाभयदायकः ॥ 119 ॥
गायक प्रवणस्वान्तो गायक प्रथमः सदा ।
गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा ॥ 120 ॥
गानगेयो गानकेशो गायकान्तरसञ्चरः ।
गायकप्रियदः शश्वद्गायकाधीनविग्रहः ॥ 121 ॥
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ।
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः ॥ 122 ॥
गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम् ।
गाढावगाढजलधिर्गाढप्रज्ञो गतामयः ॥ 123 ॥
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ।
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः ॥ 124 ॥
गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ।
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा ॥ 125 ॥
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ।
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ॥ 126 ॥
गङ्गाजलरसास्वादचतुरो गाङ्गनीरपः ।
गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ॥ 127 ॥
गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा ।
गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ 128 ॥
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ।
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ॥ 129 ॥
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्द्धनः ।
गकारबीजनिलयो गकारो गर्विगर्वनुत् ॥ 130 ॥
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ।
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ॥ 131 ॥
गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ।
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ॥ 132 ॥
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ।
गन्धर्वाभयदः शश्वद् गन्धर्वप्रतिपालकः ॥ 133 ॥
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ।
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ॥ 134 ॥
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ।
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा ॥ 135 ॥
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ।
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ॥ 136 ॥
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ।
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ॥ 137 ॥
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ।
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ॥ 138 ॥
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ।
गीर्वाणगीतचरितो गीर्वाणगणसेवितः ॥ 139 ॥
गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ।
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः ॥ 140 ॥
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् ।
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ॥ 141 ॥
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ।
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ॥ 142 ॥
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ।
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ॥ 143 ॥
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलन् ।
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ॥ 144 ॥
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ।
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः ॥ 145 ॥
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ।
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः ॥ 146 ॥
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ।
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ॥ 147 ॥
ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ।
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः ॥ 148 ॥
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ।
गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा ॥ 149 ॥
गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पतिः ।
गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः ॥ 150 ॥
गविरक्षणसन्नद्धो गवीभयहरः क्षणात् ।
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः ॥ 151 ॥
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ।
गण्डस्थललसद्दानमिलन्मत्ताळिमण्डितः ॥ 152 ॥
गुडो गुडप्रियो गुण्डगलद्दानो गुडाशनः ।
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ॥ 153 ॥
गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः ।
गुडाकेशार्चितपदो गुडाकेशसखः सदा ॥ 154 ॥
गदाधरार्चितपदो गदाधरवरप्रदः ।
गदायुधो गदापाणिर्गदायुद्धविशारदः ॥ 155 ॥
गदहा गददर्पघ्नो गदगर्वप्रणाशनः ।
गदग्रस्तपरित्राता गदाडम्बरखण्डकः ॥ 156 ॥
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ।
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ॥ 157 ॥
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः ।
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः ॥ 158 ॥
गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः ।
गिरीशजो गिरौशायी गिरिराज सुखावहः ॥ 159 ॥
गिरिराजार्चितपदो गिरिराजनमस्कृतः ।
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ॥ 160 ॥
गिरिराजेष्टवरदो गिरिराजप्रपालकः ।
गिरिराजसुतासूनुर्गिरिराजजयप्रदः ॥ 161 ॥
गिरिव्रजवनस्थायी गिरिव्रजचरः सदा ।
गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृतः ॥ 162 ॥
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ।
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ॥ 163 ॥
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ।
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ॥ 164 ॥
गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः ।
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः ॥ 165 ॥
गम्भीरो गणितप्रज्ञो गणितागमसारवित् ।
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ॥ 166 ॥
गणकप्रवणस्वान्तो गणितो गणितागमः ।
गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ॥ 167 ॥
गललग्नमहानागो गलदर्चिर्गलन्मदः ।
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः ॥ 168 ॥
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ।
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ॥ 169 ॥
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ।
गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत् ॥ 170 ॥
गर्भत्राता गर्भगोप्ता गर्भपुष्टिकरः सदा ।
गर्भाश्रयो गर्भमयो गर्भामयनिवारकः ॥ 171 ॥
गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ।
गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत् ॥ 172 ॥
गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ।
गरसन्तापशमनो गुरुराज्यसुखप्रदः ॥ 173 ॥
अङ्गन्यासः
ॐ हृदयाय नमः ।
श्रीं शिरसे स्वाहा ।
ह्रीं शिखायै वषट् ।
क्लीं कवचाय हुं ।
ग्लौं नेत्रत्रयाय वौषट् ।
गं अस्त्राय फट् ।
ॐ भूर्भुवसुवरों इति दिग्विमोकः ।
ध्यानम्
ओङ्कार सन्निभमिभाननमिन्दुभालम्
मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।
लम्बोदरं कलचतुर्भुजमादिदेवम्
ध्यायेत् महागणपतिं मतिसिद्धिकान्तम् ॥
वन्दे नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम्
एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।
शुण्डादण्डाढ्य गण्डोद्गलित मदजलोल्लोलमत्तालिजालम्
श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥
पञ्चपूजा
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्व्यात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ।
नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ।
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥ 174 ॥
य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ।
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥ 175 ॥
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ॥ 176 ॥
भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ।
चतुर्थां भौमवारो च चन्द्रसूर्योपरागके ॥ 177 ॥
पूजयित्वा गणधीशं यथोक्तविधिना पुरा ।
पूजयेद् यो यथाशक्त्या जुहुयाच्च शमीदलैः ॥ 178 ॥
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ।
धारयेद् यः प्रयत्नेन स साक्षाद्गणनायकः ॥ 179 ॥
सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ।
प्रणमन्ति सदा तं वै दुष्ट्वां विस्मितमानसाः ॥ 180 ॥
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ।
तस्य वंशो स्थिरा लक्ष्मीः कदापि न विमुञ्चति ॥ 181 ॥
निष्कामो यः पठेदेतद् गणेश्वरपरायणः ।
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ॥ 182 ॥
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ।
न देयं कृपणयाथ शठाय गुरुविद्विषे ॥ 183 ॥
दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥ 184 ॥
इति श्रुत्वा महादेवी तदा विस्मितमानसा ।
पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥ 185 ॥
॥ इति श्रीरुद्रयामलतन्त्रे महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्रीमहागणपति सहस्रनाम स्तोत्रं संपूर्णम् ॥